श्रुति
śrutiस्त्री · fem.In 21 kośas: 31 synonym verses, 8 as a nānārtha head word, 27 as a meaning of another word.
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः ।ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धृतिः ॥ २४९ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः ।
अनुष्टुप्
genderस्त्रीfem.
कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
वेदः श्रुतिस्तथाम्नायः स्वाध्यायश्छन्द आगमः ।वेदान्तश्च रहस्यं च बुधैरुपनिषन्मता ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥
गीतिः
genderस्त्रीfem.
ऊषा चैवोत्तराषाढा विश्वं च विश्वदैवतम् ।श्रवणं वैष्णवं विष्णुर्गोविंदं हरिभं श्रुतिः ॥ १३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
चतस्रश्चतुरो वेदा सागराब्धिकृताश्चतुः ।समुद्राम्भोनिधियुगा श्रुतिनीररगीश्वराः ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री गोधिरलिकालीकललाटानि श्रुतिः स्त्रियाम् ।पिज्जूषश्रवणावस्त्री क्लीबे श्रोत्रं श्रवः पुनः ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ।श्रुतिस्त्रयी स्त्रियां वेद आम्नाय ऋषिरित्यपि ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः ।आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥
metre not recognised
genderस्त्रीfem.
पश्चान्मन्ये कलम्ब्यौ च व्युपो(?) स्त्रि मुखमाननम् ।चुब्रमास्यं च वदनं लपनं वक्त्रमस्त्रियाम् ॥श्म च तुण्डं तत्तु कर्णालंकारेण मनोहरम् ।स्यात्कार्णावेष्टिकं भालोऽस्त्र्यलीकं निटिलालिके ॥ललाटं स्त्री तु गोधिः स्यात्त्रिपताकं त्रिरेखकम् ।कर्णः शब्दग्रहः श्रुन्ना स्त्री श्रुतिः श्रवणोऽस्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
शाङ्खिकः स्यात्काम्बिविको भस्रा चर्मप्रसेविकः ।धृतिः श्रुतिश्चोपध्मान्तः प्रसेवो दनायुधः ॥ २४० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्का (wrong syllable); pāda 3, syllable 4 ति (syllables merged)
genderस्त्रीfem.
वक्त्रं लपनमास्यं च वदनं मुखमाननम् ।श्रवणं श्रोत्रं श्रवश्चापि कर्णं चैव श्रुतिं विदुः ॥ ९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
ललाटेऽमिकभाले तु गोध्यलीके समे उभे ।श्रोत्रं कर्णः श्रुतिः शब्दाधिष्ठानं श्रवसा सह ॥ २३८ ॥
अनुष्टुप्
genderस्त्रीfem.
वेदो वेदाः श्रुतिः प्रज्ञापौरुषेया त्रयी हविः ।ऋग्वेदे तु ऋगित्युक्ता ऋचा चापि ऋजा ऋजी ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
जूटीबन्धः केशगुच्छो धम्मिलः कबरी कचा ।कर्णः श्रवः श्रुतिः श्रोत्रं श्रवणं शाब्दिकेन्द्रियम् ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुप्तिङन्तं पदं वाक्यं वचनं भाषितं वचः ।प्रणवादिः श्रुतिर्वेद आम्नायः कण्डिका तनुः ॥ ३६१ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः ।नक्रं तु नासिका नासा घ्राणं घोणा च शिङ्घिनी ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderस्त्रीfem.
वेदानां पञ्चनामानि स्वाध्यायश्च श्रुतिस्तथा ।आम्नायो नाम विख्यातं छन्दो वेदस्त्रयी पुनः ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्णः श्रोत्रं महानादः श्रवणं च श्रुतिः श्रवः ।शब्दध्वनिग्रहौ चैव शब्दाधिष्ठानमित्यपि ॥ ९१८ ॥
अनुष्टुप्
genderस्त्रीfem.
कृत्तिका कृत्तिरप्युक्ता रोहिणी चापि रोहिणिः ।राधा विशाखा विज्ञेया पुष्यायां पुष्य इत्यपि ।सिध्यस्तिर्ष्याऽपि च भवेत् श्रवणा श्रवणं श्रुतिः ॥
अनुष्टुप्
genderस्त्रीfem.
वेद आम्नायनिगमौ छन्दो ब्रह्म श्रुतिः स्त्रियाम् ।अथ वेदविधिर्यः स्यात् त्रयीधर्मस्तु स स्मृतः ॥
अनुष्टुप्
genderस्त्रीfem.
अब्धिद्रोणीरसाला श्रुतिविरतिगुहाशुक्तिमुक्तावडभ्यः ।आदौ भूम्निस्थलीज्यानियतितरलिकावेदिभित्तिश्रुचोपि ।वल्यवल्लीविदारीत्रुटिधमनिशिखामल्लिकायूषिकात्वक् ।दृष्टिजिह्वाऽटवीद्राः सनिविकृतिकणादेहलीमृत्तिकाश्च ॥
स्रग्धराmetre not read in every line
द्रोणीस्त्रीरसालास्त्रीश्रुतिस्त्रीविरतिस्त्रीगुहास्त्रीशुक्तिस्त्रीमुक्तास्त्रीवडभीस्त्रीस्थलीस्त्रीज्यास्त्रीनियतिस्त्रीतरलिकास्त्रीवेदिस्त्रीभित्तिस्त्रीश्रुच्स्त्रीवलीस्त्रीवल्लीस्त्रीविदारीस्त्रीत्रुटिस्त्रीधमनिस्त्रीशिखास्त्रीमल्लिकास्त्रीयूषिकास्त्रीत्वच्स्त्रीदृष्टिस्त्रीजिह्वास्त्रीअटवीस्त्रीविकृतिस्त्रीकणास्त्रीदेहलीस्त्रीमृत्तिकास्त्री
genderस्त्रीfem.
कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् ।नेत्रेक्ष्यऽक्ष्णं दृशि-दृशे दृग्लोचन-विलोचने ॥ १५८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
ओंकारः प्रणवो ब्रह्मच्छन्दसी तु श्रुतिस्त्रयी ।निगमो वेद आम्नाय आगमानुश्रवावपि ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
विषयेन्द्रियं हृषीकमथ ज्ञानेन्द्रियं मनः ।श्रुतिस्त्वग्रसना दृष्टिर्नासाथ चरणौ करौ ॥ २८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द्रि (wrong syllable)
genderस्त्रीfem.
स्वरारोहावरोहः स्यान्मूर्च्छनाथ स्वरांशकाः ।श्रुतयो भूमिका वेषो रङ्गः स्यान्नटनस्थलम् ॥ ९४९ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रवणं तु श्रवः श्रोत्रं कर्णः शब्दग्रहः श्रुतिः ।शष्कुली कर्णवेष्टः स्यात् कर्णजाहस्तदन्तिकम् ॥ १०८३ ॥
अनुष्टुप्
genderस्त्रीfem.
ओः सद्योजात ऊर्द्धास्यो गायत्री दक्षजङ्घकः ।अजेशश्चैव पीयूषः पश्चिमास्यः श्रुतिस्तथा ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
आथर्वणं पौरोहितं वेदाश्चत्वार एव ते ।छन्दो ब्रह्म श्रुतिर्वेदोऽप्यथ विद्याश्चतुर्दश ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रो (wrong syllable)
genderस्त्रीfem.
पैण्डूषोऽस्त्री श्रुतिः श्रोत्रं श्रोतश्च श्रवणं श्रवः ।पालिस्तु कर्णलतिका वेष्टनं कर्णशष्कुली ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रुतिर्वेदे च कर्णे च श्रोत्रकर्मणि च श्रुतिः ।स्मृतिरिच्छा स्मृतिर्बुद्धिर्वेदाद्या बोधिका स्मृतिः ॥
अनुष्टुप्
श्रुतिस्तु वेदे श्रवणक्रियायां श्रोत्र एव च ।गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥ १०९ ॥
अनुष्टुप्
श्रुतिः स्त्री श्रवणे वार्ते वेदे श्रवणकर्मणि ।शुक्तिः शङ्खे शङ्खनखमुक्तास्फोटनखीषु च ॥
अनुष्टुप्
श्रुति as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) निगमकरणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः । मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥ Abhidhānaratnamālā (Halāyudha) 5.796
- धरणिकोश श्रवणवरणः स्मृतः प्राकारे वरणो वरणद्रुमे । श्रवणो नक्षत्रभेदे स्याच्छ्रवणं श्रुतिकर्णयोः ॥ Dharaṇikośa 14.2.19
- कोषकल्पतरु श्रवणस उत्तराया अन्त्योऽङ्घ्रिः श्रवणस्यादिमोऽभिजित् । स्त्रीपुंसयोर्ऋक्षभेदे श्रवणं श्रुति[24b]कर्णयोः ॥ Koṣakalpataru 1.3.94
- कोषकल्पतरु कर्णक्षारे पुंस्यथ कर्ण आदिमगतो राधासुते च श्रुतौ चूर्णस्त्विन्दुपलाशिनोरथ मखे स्वर्णं तथा हेम्नि च । ********** यशःस्तुत्योः कुथायां गुणे वर्णोऽस्त्री तु विलेपनाक्षरभिदा रूपे द्विमुक्कुङ्कुमे ॥ ८ ॥ Koṣakalpataru 6.15.8
- कोषकल्पतरु वाणीव्यूतौ स्त्री च निषङ्गके त्रिषु भवेत्तूणोऽथ नील्यां स्त्रियां वाणी तु श्रुतिभारतीद्वयगता फाणिस्तु खर्वे गुडे । ऊर्म्यर्चिः किरणेषु पुंसि च घृणिः स्थाणुः पुमाञ्शंकरे न स्त्री स ध्रुवकीलयोरथ नृपे वंशे च वेणुः पुमान् ॥ १६ ॥ Koṣakalpataru 6.15.16
- कोषकल्पतरु आम्नायस्याच्छोणे सुरभौ भवेत्स परगोऽथाम्नाय उक्तः श्रुता- वभ्यासेऽपि च संततौ निगदितो ज्ञैः संप्रदायेऽपि च । स्थाने पक्षिनिकेतने च गदितो विज्ञैः कुलायस्तथा ऽथोपायो नरि सामभेदविषये चोपागतौ सम्मतः ॥ ६४ ॥ Koṣakalpataru 6.26.64
- नानार्थार्णवसंक्षेप छन्दस्भृङ्गाख्यगन्धद्रव्येऽथच्छद्मस्खलितयोश्छलम् । छन्दः श्रुतीच्छापद्येषु सामगानां विशेषके ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 2.3.23
- नानार्थार्णवसंक्षेप धर्मप्रधानशेषे सत्ये च श्रुतौ दण्डविनिर्णये । सतां तु सङ्गतेऽप्येनमजयः समुपादिशत् ॥ ६३० ॥ Nānārthārṇavasaṃkṣepa 2.5.630
- नानार्थार्णवसंक्षेप कल्याणश्रुतौ च स्त्री तु कल्याणी -------- । शुभयुक्ते शाश्चतस्तु वदत्य--मात्रके ॥ ३०२ ॥ Nānārthārṇavasaṃkṣepa 4.302
- परमानन्दीयनाममाला कर्णकर्णोऽर्कजे श्रुतौ काञ्ची रक्तिका मेखला पुरी । काण्डो नालेऽधमे बाणे स्तम्बे वर्गे जलेऽपि च ॥ ९९ ॥ Paramānandīyanāmamālā 5.7.99
- परमानन्दीयनाममाला छन्दस्छिद्रं व्याजे बिले गर्ते छन्दोऽभिप्रायतन्त्रयोः । श्रुतौ पद्येच्छयोश्चापि छाया बिम्बार्कयोषयोः ॥ १९० ॥ Paramānandīyanāmamālā 5.12.190
- परमानन्दीयनाममाला निगमवणिङ्मार्गे श्रुतौ मार्गे निकायो गणलक्षयोः । निसर्गस्तु स्वरूपे स्याद्विश्वनिर्माण एव च ॥ २७० ॥ Paramānandīyanāmamālā 5.18.270
- शब्दरत्नावली श्रवणशरणं घातके गेहे रक्षणे रक्षकेऽपि च । श्रवणन्तु श्रुतौ कर्णे न पुंसि तारकाभिदि ॥ Śabdaratnāvalī 7.15.63
- शब्दरत्नावली वेदवेदः स्यात्केशवश्रुत्योः शादः कर्दमशष्पयोः ॥ Śabdaratnāvalī 7.18.7
- शब्दरत्नावली निगमननिशामनं क्लीबलिङ्गं दर्शनालोचनयोरपि । भवेन्निगमनं दृष्टौ श्रुतौ विनशनेऽपि च ॥ Śabdaratnāvalī 7.20.112
- शब्दरत्नाकर ऋषिऋषयः श्रुतिभृग्वादिज्ञानवृद्धदिगम्बराः । ऋक्षोऽच्छभल्ले मण्डूकपर्ण ऋक्षं तु तारके ॥ १८७८ ॥ Śabdaratnākara 4.1.1878
- शब्दरत्नाकर ग्रन्थशास्त्रे श्लोके श्रुतौ ग्रन्थो ग्रन्थिः परुषि बन्धने । गर्भस्तु कुक्षौ कुक्षिस्थजन्तौ पनसकण्टके ॥ १९०९ ॥ Śabdaratnākara 4.1.1909
- शब्दरत्नाकर ग्रन्थद्वात्रिंशदक्षरश्लोके ग्रन्थः शास्त्रे श्रुतावपि । भोजने कबले ग्रासो गन्धो यशसि सौरभे ॥ १९१२ ॥ Śabdaratnākara 4.1.1912
- शब्दरत्नाकर छन्दस्छन्दः पद्यश्रूतीच्छासु च्छद्म सद्मनि कैतवे । छिद्रं तु रन्ध्रावसरापदेशेष्वथ संहतौ ॥ १९२३ ॥ Śabdaratnākara 4.1.1923
- शब्दरत्नाकर आगमआम्नायः संप्रदायेऽपि वेदाध्ययनयोरपि । आकार इङ्गिताकृत्योरागमः श्रुतिशास्त्रयोः ॥ २०४४ ॥ Śabdaratnākara 4.1.2044
- तन्त्राभिधान ओओ-कारः सत्यपीयूषौ पश्चिमास्यः श्रुतिः स्थिरा । सद्योजातो वासुदेवो गायत्री दीर्घजङ्घकः ॥ ४२ ॥ Tantrābhidhāna 2.14.42
- त्रिकाण्डशेष कर्णपिप्पली द्रौपदी कृष्णा हस्तसूत्रेपि कङ्कणम् । श्रुतिराधेययोः कर्णः पिप्पल्यां जीरके कणा ॥ १२४ ॥ Trikāṇḍaśeṣa 3.3.124
- त्रिकाण्डशेष श्रवणकर्णे श्रुतौ च श्रवणं शरणं मारणेऽपि च । श्रेणिः पङ्क्तौ सेकपात्रे ने क्लीबं कारुसंहतौ ॥ १३९ ॥ Trikāṇḍaśeṣa 3.3.139
- त्रिकाण्डशेष निशमनदेवोद्याने सुते पुंसि नग्नौ क्षपणवन्दिनौ । श्रुतौ दृष्ट्यां निशमनं खगङ्गाऽपि नलिन्यथ ॥ २४५ ॥ Trikāṇḍaśeṣa 3.3.245
- त्रिकाण्डशेष छन्दस्तैजसे कंस्यपात्रे च गुत्सः स्तबकहारयोः । छन्दः पद्यश्रुतीच्छासु तरो वेगे बलेऽपि च ॥ ४४५ ॥ Trikāṇḍaśeṣa 3.3.445
- वैजयन्ती छन्दस्छन्दः श्रुतीच्छापद्येषु च्छिद्रं रंध्रापराधयोः । जालं गवाक्ष आनाये क्षारके कपटे गणे ॥ ९ ॥ Vaijayantī 6.3.9
- वैजयन्ती नैगमनरेन्द्रो विषवैद्ये च नैगमस्तु श्रुतावपि । निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ ३७ ॥ Vaijayantī 7.1.37