All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · नरादिप्रकाण्डः (3/4)
रोम लोमाङ्गजं त्वग्जं त्वचः पर्यायतो मलः ।वालपुत्रः परित्राणमन्तरा नासिकोष्ठयोः ॥ २४१ ॥
1.4.241 · p. 47
अनुष्टुप्
यत्तन्मुख्यं कर्णमूलात्कर्णमूलावधिस्थितम् ।नरचिह्नं द्वयोः श्मश्रु शुण्ठं कक्षाश्रितं च यत् ॥ २४२ ॥
1.4.242 · p. 47
अनुष्टुप्
दूषीका दूषिका नेत्रभवे नेत्रोद्भवे तु षण् ।कुलुकं पुष्पिकापि स्यात्पिञ्जूषः कर्णयोः पुमान् ॥ २४३ ॥
1.4.243 · p. 47
अनुष्टुप्
सिंहाणमस्त्री नासोत्थे तत्र स्वेदनरेचने ।कुरुण्डवृद्धा सृणिका सृणीका नाभिजे कुणः ॥ २४४ ॥
1.4.244 · p. 47
अनुष्टुप्
लिङ्गजे पुष्पिकाथ स्यान्मुखार्थादासवार्थका ।सृणिका स्यन्दिनी लाला सृणीका कालकूचिका ॥ २४५ ॥
1.4.245 · p. 47
अनुष्टुप्
घर्मस्तु स्वेदप्रस्वेदौ त्वक्पर्यायजलार्थकम् ।मूत्रं देहासवः पुंसि वस्तिपर्यायतो मलः ॥ २४६ ॥
1.4.246 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
प्रस्रावः प्रस्रवोऽपि स्याद्विड्विष्ठे च स्त्रियामुभे ।शकृत् क्लीबे मलोप्यस्त्री पुंस्युच्चारोऽप्यवस्करः ॥ २४७ ॥
1.4.247 · p. 47
अनुष्टुप्
क्लीबे गूथं पुनर्वर्चः पुरीषं शमलोऽस्त्रियाम् ।पर्दनं गुदजे शब्दे तत्र कुस्मितमित्यपि ॥ २४८ ॥
1.4.248 · p. 47
अनुष्टुप्
पुंस्याकल्पो वेषवेशावपि भूषणमस्त्रियाम् ।स्यान्नेपथ्यमपि क्लीबे प्रतिकर्म प्रसाधनम् ॥ २४९ ॥
1.4.249 · p. 48
अनुष्टुप्
अस्त्री किरीटं मुकुटमुष्णीषमवतंसकम् ।कोटीरमपि कौटीरस्तथैव शेखरोऽपि च ॥ २५० ॥
1.4.250 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
आपीडः पुंसि मौलिः स्याद्वेष्टनं षणतः पुनः ।मणौ तत्रैव खचिते पुंसि चूडार्थतो मणिः ॥ २५१ ॥
1.4.251 · p. 48
अनुष्टुप्
अपि क्लीबे शिरोरत्नं तरलो हारमध्यगः ।मूर्ध्नि माल्यं तु षण् दाम शीर्षकं शिरसः स्रजि ॥ २५२ ॥
1.4.252 · p. 48
अनुष्टुप्
स्रक् स्त्रियां मालिका माला गर्भकः केशमध्यगम् ।प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललाम तत् ॥ २५३ ॥
1.4.253 · p. 48
अनुष्टुप्
तिर्यग्वक्षसि वैकक्षं प्रालम्बमृजु तत्समम् ।श्रन्थनं ग्रन्थनं पुंसि प्रारम्भो रचना स्त्रियाम् ॥ २५४ ॥
1.4.254 · p. 48
अनुष्टुप्
परिपूर्णत्वमाभोगः कर्णपूरस्तु न स्त्रियाम् ।स्त्रियां पत्राल्लताभङ्गिः पाश्यापि स्याल्ललाटिका ॥ २५५ ॥
1.4.255 · p. 48
अनुष्टुप्
पारिपाश्या पारितथ्या कर्णिका कर्णभूषणम् ।कर्णादर्शः कर्णवेष्टस्ताटङ्कः पुंसि कुण्डलम् ॥ २५६ ॥
1.4.256 · p. 48
अनुष्टुप्
अस्त्रियां ताडपत्रं स्त्री कर्णान्दुः कर्णवालिका ।उत्क्षिप्तिका च कर्णान्दूरथ कण्ठविभूषणम् ॥ २५७ ॥
1.4.257 · p. 48
अनुष्टुप्
क्लीबे ग्रैवेयकं चापि लम्बमाना ललन्तिका ।प्रालम्बिका कृता हेम्नोरःसूत्रिका तु मौक्तिकैः ॥ २५८ ॥
1.4.258 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)
कलापः पुंसि मुक्तार्थाद्धारः प्रालम्ब इत्यपि ।स्त्र्यावली स्रग्लता यष्टिः सूत्रं प्रतिसरस्त्रिषु ॥ २५९ ॥
1.4.259 · p. 49
अनुष्टुप्
देवच्छन्दः शतं साग्रमिन्द्रच्छन्दः सहस्रकम् ।तदर्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥ २६० ॥
1.4.260 · p. 49
अनुष्टुप्
अर्द्धं रश्मिकलापोस्य दशभिश्चार्द्धमाणवः ।द्विर्द्वादशोर्द्धगुच्छः स्यात्पञ्चहारफलं लता ॥ २६१ ॥
1.4.261 · p. 49
अनुष्टुप्
अर्द्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दिराः ।अपि गोस्तनगोपुच्छावर्द्धमर्द्धं यथोत्तरम् ॥ २६२ ॥
1.4.262 · p. 49
अनुष्टुप्
इति हारा यष्टिभेदैरेकावल्येकयष्टिका ।कण्ठिकाप्यथ नक्षत्रमाला तत्संख्यमौक्तिकैः ॥ २६३ ॥
1.4.263 · p. 49
अनुष्टुप्
क्लीबेऽङ्गदं तु केयूरं बाहुपर्यायभूषणम् ।आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ॥ २६४ ॥
1.4.264 · p. 49
अनुष्टुप्
कङ्कणं न स्त्रियां तद्वदंगुलीयकमूर्मिका ।साक्षराङ्गुलिमुद्रा स्यात् करारोहः पुमानथ ॥ २६५ ॥
1.4.265 · p. 49
अनुष्टुप्
क्लीबे सारसनं काञ्ची सैव स्यात्कटिमेखला ।संसप्तकी च रसना कटिपर्यायनाटिका ॥ २६६ ॥
1.4.266 · p. 49
अनुष्टुप्
स्त्री मेखला च रसना काञ्चिः कक्ष्या च कक्षया ।पुंस्कट्यां शृङ्खलं तु स्यात्त्रिषु पादाङ्गुलस्य षण् ॥ २६७ ॥
1.4.267 · p. 50
अनुष्टुप्
स्यात्पादकटकं चास्त्री तुलाकोटिरपि द्वयोः ।मञ्जीरोऽस्त्री नूपुरोऽपि तुलाकोट्यपि च स्त्रियाम् ॥ २६८ ॥
1.4.268 · p. 50
अनुष्टुप्
हंसकश्चाथ घर्घर्यां कङ्कणी क्षुद्रघण्ट्यपि ।पादशीली प्रतिसरा किङ्किणी क्षुद्रघण्टिका ॥ २६९ ॥
1.4.269 · p. 50
अनुष्टुप्
पादतः कीलिका नाली मालिका चाङ्गलीयकम् ।अडिनी सिञ्जिनी तुल्ये वृश्चिक्यपि वृश्चिका ॥ २७० ॥
1.4.270 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पटः सिचय आच्छादचीवराः पुंसि न स्त्रियाम् ।चेलमाच्छादनं वासो वसनं चापि न स्त्रियाम् ॥ २७१ ॥
1.4.271 · p. 50
अनुष्टुप्
तद्वल्कलतृणकृमिफलरोमार्थसंभवम् ।क्षुमाभङ्गाशणादित्वक्संजातं वाल्कमित्यपि ॥ २७२ ॥
1.4.272 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
कर्पासार्कादितूलोत्थं फालं स्याद्बादरे पुनः ।आर्कं तौलं च रौमं तु स्याच्छशैडादिरोमजम् ॥ २७३ ॥
1.4.273 · p. 50
अनुष्टुप्
तदौर्णमथ कौशेयं जीविनिर्जीवकोशजम् ।विविधं चापि तत्सूत्रं पट्टं हीरं च कोमलम् ॥ २७४ ॥
1.4.274 · p. 50
अनुष्टुप्
अथैतेषां प्रभेदाः स्युस्तत्र वल्कलजान्यपि ।क्षौमाण्यस्त्री पवित्राणि शाणान्यावपनानि तु ॥ २७५ ॥
1.4.275 · p. 50
अनुष्टुप्
शाणी गोणी स्त्रियां तासां विकृतिः पुंसि कार्गलः ।कागलोप्यक्षराधारः पुस्तकप्रकृतिः पुनः ॥ २७६ ॥
1.4.276 · p. 51
अनुष्टुप्
अक्षरात्कोशपर्यायस्तद्वद्भूर्जस्य वल्कले ।ताडपत्रे तत्र पत्रं न ना भङ्गोद्भवान्यपि ॥ २७७ ॥
1.4.277 · p. 51
अनुष्टुप्
कार्पासं सर्वकार्यार्थं बादरं तदथ स्त्रियाम् ।ऊर्णा मेषादिलोम्नि स्यात्क्लीबे और्णं तदुद्भवे ॥ २७८ ॥
1.4.278 · p. 51
अनुष्टुप्
आविकौ रभ्रकौ चैव पुमानूर्णायुरित्यपि ।आयल्लको रल्लकः स्याद्द्वयोः कम्बल इत्यपि ॥ २७९ ॥
1.4.279 · p. 51
अनुष्टुप्
मरूद्भवायां शुम्बा स्याल्लुम्बा पञ्चनदोद्भवा ।पुंसि पर्वतसंजातपर्यायो रत्नकम्बलः ॥ २८० ॥
1.4.280 · p. 51
अनुष्टुप्
काश्मीरी तु महोर्णा स्यात् प्रावारीत्यपि पामरी ।यक्षिका भोट इत्याद्यास्तत्तद्विषयनामकाः ॥ २८१ ॥
1.4.281 · p. 51
अनुष्टुप्
म्लेच्छदेशोद्भवाः केपि परुत्कालोद्भवा अपि ।अनेके राजभोग्यास्ते त्रिषु सर्वे यथार्थतः ॥ २८२ ॥
1.4.282 · p. 51
अनुष्टुप्
अथ साधारणं मापं क्षौमं स्यात्प्रावृतं त्रिषु ।दुकूलं च दुगूलं स्यात्कौशेयं कृमिकोशजम् ॥ २८३ ॥
1.4.283 · p. 51
अनुष्टुप्
राङ्कवं मृगरोमोत्थं स्त्रियां भूम्नि दशा अपि ।वस्त्रान्ते च स्त्रियां वर्त्तिर्वस्तिश्चापि च पल्लवः ॥ २८४ ॥
1.4.284 · p. 51
अनुष्टुप्
वस्त्रव्यस्यः पुमानस्त्री प्रार्थ्यश्चञ्चल इत्यपि ।अष्टहस्तपरिमाणं परिधानक्षमं महत् ॥ २८५ ॥
1.4.285 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
सदशं क्षालितं शिष्टैस्तद्धौत्रं पोत्रमप्यणु ।स्नानेङ्गप्रोञ्छने पोत्रमंगोछोंगोछनं च षण् ॥ २८६ ॥
1.4.286 · p. 52
अनुष्टुप्
तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ।नवं वासोऽनाहतं स्यादहतं तन्त्रकं पुनः ॥ २८७ ॥
1.4.287 · p. 52
अनुष्टुप्
निःप्रवणं निःप्रवाणिस्तद्वस्तु सकलं त्रिषु ।पटच्चरो जीर्णवस्त्रं संव्यानं तूत्तरीयकम् ॥ २८८ ॥
1.4.288 · p. 52
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
प्रच्छादनं प्रावरणं वराशिः स्थूलशाटकः ।वैकक्ष उत्तरासङ्गः प्रावारो बृहती स्त्रियाम् ॥ २८९ ॥
1.4.289 · p. 52
अनुष्टुप्
परिधानं परीधानमन्तरीयमधोंशुकम् ।अपि स्यादुपसंव्यानं तथापि वसनं पुनः ॥ २९० ॥
1.4.290 · p. 52
अनुष्टुप्
तद्ग्रन्थिस्तु स्त्रियां नीविर्नीवी नोच्चय इत्यपि ।अर्द्धोरुकं चलनकं स्याच्चण्डातकमंशुकम् ॥ २९१ ॥
1.4.291 · p. 52
अनुष्टुप्
सभर्तृकाणामन्यासां चलनीति निगद्यते ।शाटीचोट्यौ स्त्रियां पुंसि कूर्पासश्चोलको द्वयोः ॥ २९२ ॥
1.4.292 · p. 52
अनुष्टुप्
अस्त्रियां कञ्चुकोऽपि स्यात्त्रिषु स्यादपि कञ्चुली ।अङ्गिका कटिबन्धे तु परेः प्रात्स्यात्करः पुमान् ॥ २९३ ॥
1.4.293 · p. 52
अनुष्टुप्
पल्लवादियुतः सोऽपि पटः प्रच्छादनी द्वयोः ।द्विवस्त्रा द्विपटी तद्वद्धिमवातसहेंशुके ॥ २९४ ॥
1.4.294 · p. 53
अनुष्टुप्
नीसारोथ निचोलस्तु निचुल्यश्चोत्तरच्छदः ।अपि स्यात्प्रच्छदपटः क्लीबे निचुलकं पुनः ॥ २९५ ॥
1.4.295 · p. 53
अनुष्टुप्
कञ्चुकं वारवाणो ना यामस्तूलयुतोप्यथ ।द्वयोः कच्छाटिका कच्छपटः कौपीनमित्यपि ॥ २९६ ॥
1.4.296 · p. 53
अनुष्टुप्
कक्षा स्त्री कर्पटः पुंसि परिधाने परोञ्चलः ।उत्सवादौ सुहृद्भिर्यद्बलादाकृष्य गृह्यते ॥ २९७ ॥
1.4.297 · p. 53
अनुष्टुप्
वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ।तदेवाप्रपदीनं स्याद्व्याप्नोत्याप्रपदं हि यत् ॥ २९८ ॥
1.4.298 · p. 53
अनुष्टुप्
चीवरं भिक्षुसङ्घाटी समौ नक्तककर्पटौ ।ऊर्मिका स्यात् स्त्रियां वस्त्रभङ्गशब्देऽस्य मर्मरः ॥ २९९ ॥
1.4.299 · p. 53
अनुष्टुप्
प्रतिसीरा जवनिका तिरसः करिकारिणी ।अपटी स्यात्पुमान् काण्डपटोथोल्लोच इत्यपि ॥ ३०० ॥
1.4.300 · p. 53
अनुष्टुप्
चन्द्रोदयश्च कटको वितानं पुंनपुंसकम् ।क्लीबे स्थुलं पट्टमयं दूष्यं यद्वस्त्रवेश्म च ॥ ३०१ ॥
1.4.301 · p. 53
अनुष्टुप्
पटवासः खरगृहं केणिकं पटकुट्यपि ।स्याद्गुणलयनिकार्या रज्जुवंशादि संभवे ॥ ३०२ ॥
1.4.302 · p. 53
अनुष्टुप्metre not read in every line
अथ रोगे गदो व्याधिरुपतापः क्षयोऽपि च ।क्रमः क्रामो विकारः स्यान्मृत्युपर्यायसेवकः ॥ ३०३ ॥
1.4.303 · p. 54
अनुष्टुप्
स्त्री ग्लानिरर्त्तिरार्त्तिः स्याद्रुग्रुजा षणपाटवम् ।भयं मान्द्यं च पुंसि स्यादामयोथ महागदः ॥ ३०४ ॥
1.4.304 · p. 54
अनुष्टुप्
ज्वरः स्यात्संज्वरो रोगपुष्ट आतङ्ककस्त्रिपात् ।भस्मबाणस्त्रिशीर्षार्थ एक दंष्ट्रार्थ इत्यपि ॥ ३०५ ॥
1.4.305 · p. 54
अनुष्टुप्
अथ ज्वरो मनुष्येषु करिजातिषु पाकलः ।अभितापस्तुरङ्गेषु पोरको रासभेषु सः ॥ ३०६ ॥
1.4.306 · p. 54
अनुष्टुप्
उष्ट्रेष्वलसकः सस्याद् गोषु स्यादैश्वरो ज्वरः ।सर्पेष्वाक्षिक इत्याख्यो हारिद्रो महिषेष्वयम् ॥ ३०७ ॥
1.4.307 · p. 54
अनुष्टुप्
मृगेषु मृगरोगः स्यात्प्रलेपोऽजाविकेष्वयम् ।अचमानः पक्षिषु स्यान्मत्स्येष्विन्द्रमदश्चसः ॥ ३०८ ॥
1.4.308 · p. 54
अनुष्टुप्
गुल्मेषु ग्रन्थिकः सस्यात् स च पुष्पेषु पर्वतः ।ओषधीषु ज्योतिरयं रूपको नलिनीषु च ॥ ३०९ ॥
1.4.309 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्यो (wrong syllable)
धान्येषु पूर्णको लोलः कोद्रवेषु च पर्वतः ।पुष्पेष्वप्सु च नीली स्याद्धरायामूषराभिधः ॥ ३१० ॥
1.4.310 · p. 54
अनुष्टुप्
अन्नगन्धिरतीसारोऽतिसार उदरामयः ।मलवेगोथ स्त्रियां स्याद्ग्रहणी संग्रहण्यपि ॥ ३११ ॥
1.4.311 · p. 54
अनुष्टुप्
अपि प्रवाहिका चाथाजीर्णाद्यन्नाद्यपक्वता ।तद्विकारे विषूचिः स्त्री दुर्नामानो गुदाङ्कुराः ॥ ३१२ ॥
1.4.312 · p. 55
अनुष्टुप्
पापरोगो मयूरी स्त्री रक्तपर्यायतो वटी ।क्लीबेऽर्शांसि गुदात्कीलाः कृमयः कोष्ठजाः पुनः ॥ ३१३ ॥
1.4.313 · p. 55
अनुष्टुप्
अङ्गजा विविधास्ते स्युर्यूकाद्याः स्युर्वमिस्त्रियाम् ।वान्तिः स्त्रियां स्याद्वमथुः प्रच्छर्दिश्छर्दिरित्यपि ॥ ३१४ ॥
1.4.314 · p. 55
अनुष्टुप्
छर्दिर्वामी च वमनं छर्दनं स्यान्नपुंसकम् ।अथ पाण्डुर्विरूपः स्यात्सचिवामय इत्यपि ॥ ३१५ ॥
1.4.315 · p. 55
अनुष्टुप्
कामला स्त्री तत्प्रभेदे क्लीबं तु स्याद्धलीमकम् ।रक्तपीतं पीतरक्तं वातादिद्वन्द्वदोषजम् ॥ ३१६ ॥
1.4.316 · p. 55
अनुष्टुप्
उन्नेयमथ काशः स्यात् क्षुतं क्लीबे क्षवः पुमान् ।स्त्रियां क्षुत् क्षवथुः पुंसि प्रतिश्यायः प्रतिश्ययः ॥ ३१७ ॥
1.4.317 · p. 55
अनुष्टुप्
पीनसोथ क्षयो राजयक्ष्मा रोगार्थराडपि ।यक्ष्म जक्ष्मश्च यक्ष्मश्च शोषो बहुविधा अमी ॥ ३१८ ॥
1.4.318 · p. 55
अनुष्टुप्
अथाप्यग्निविकारोथारुचिः स्त्री स्यादरोचकम् ।अश्रद्धानभिलाषोथ पिपासा तृट् तृषापि च ॥ ३१९ ॥
1.4.319 · p. 55
अनुष्टुप्
तृष्णोदन्येथ मूर्छा तु मूढिर्मोहिःखरक्षयः ।खरसादश्च मूर्त्सायां निद्रा स्त्री शयनं च षण् ॥ ३२० ॥
1.4.320 · p. 55
अनुष्टुप्
स्वप्नः स्वापश्च संवेशस्तन्द्री तन्द्रा प्रमीलिका ।अपि स्याद्विषया ज्ञानं प्रलयः प्रमिलापि च ॥ ३२१ ॥
1.4.321 · p. 56
अनुष्टुप्
ग्लानिर्ग्लाः स्यादथ मदः स्त्रियामुद्रिक्तचित्तता ।मदात्ययो मदातङ्कः पानस्यार्थादजीर्णकम् ॥ ३२२ ॥
1.4.322 · p. 56
अनुष्टुप्
पानाद्विभ्रमपर्यायः पानाद्घातस्तथा परः ।संतापः संज्वरस्तापः प्लोषो दाहोऽपि चोमकः ॥ ३२३ ॥
1.4.323 · p. 56
अनुष्टुप्
अन्तर्दाहः कोष्ठतापे मुखताल्वोष्ठचक्षुषि ।तापे ना दवथुः पादपाण्यङ्गुलितलादिके ॥ ३२४ ॥
1.4.324 · p. 56
अनुष्टुप्
यः संतापः शिखापित्तः प्रलयस्तु प्रलीनता ।स च स्यादिन्द्रियस्वापश्चेष्टनाशोप्यथापि च ॥ ३२५ ॥
1.4.325 · p. 56
अनुष्टुप्
उन्मादो मतिविभ्रंश उन्मनायितमित्यपि ।आवेशो भूतसंचारो भूतक्रान्ते ग्रहागमः ॥ ३२६ ॥
1.4.326 · p. 56
अनुष्टुप्
अपस्मारोङ्गविकृतिर्लालीधो भूतविक्रिया ।तैमित्यं जडता जाड्यं शीतलत्वमपाटवम् ॥ ३२७ ॥
1.4.327 · p. 56
अनुष्टुप्
आमवातः संधिशूलमथ शूलं तु वातजे ।तोदे यदन्नपाके स्यात्तच्छूलं परिणामकम् ॥ ३२८ ॥
1.4.328 · p. 56
अनुष्टुप्
स्यादुद्गार उदावर्त आनाहो मलरोधनम् ।विबन्धोपि च विष्टम्भः प्रत्यानाह उरोग्रहः ॥ ३२९ ॥
1.4.329 · p. 56
अनुष्टुप्
हृद्रोगो हृद्गते शूलेऽथोदराण्युदरामये ।जलोदरोथ जृम्भा स्याज्जम्भिका जृम्भणं च षण् ॥ ३३० ॥
1.4.330 · p. 57
अनुष्टुप्
मान्द्यालस्ये मन्दता स्यात् कार्यप्रद्वेष इत्यपि ।आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥ ३३१ ॥
1.4.331 · p. 57
अनुष्टुप्
गुल्मस्तु जाठरो ग्रन्थिः पृष्ठग्रन्थिर्गडुर्भटः ।मूत्राघातो मूत्रवर्त्मरोधेथ मूत्रकृच्छके ॥ ३३२ ॥
1.4.332 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
कृच्छं स्त्रियामश्मरी स्यात् प्रमेहो मेह इत्यपि ।मूत्रदोषः सोमरोगः प्रमेहपिटकाः पुनः ॥ ३३३ ॥
1.4.333 · p. 57
अनुष्टुप्
मेदोदोषोपि शोथोऽस्त्री शोफः स्यात् श्वयथुः पुमान् ।अन्त्रवृद्धिर्गण्डमाला अर्बुदं स्यात्ततः पुनः ॥ ३३४ ॥
1.4.334 · p. 57
अनुष्टुप्
अस्त्रियां पादवल्मीकं श्लीपदं पादगण्डिरः ।विद्रधी विद्रधिः स्त्री स्याद्धृद्गन्थिर्हृद्व्रणश्च सः ॥ ३३५ ॥
1.4.335 · p. 57
अनुष्टुप्
व्रणो भगप्रदेशोत्थः स च पुंसि भगंदरः ।सद्योव्रणः कोष्ठभेदः पुंसि नाडीव्रणेऽपि च ॥ ३३६ ॥
1.4.336 · p. 57
अनुष्टुप्
लिङ्गोपदंशा लिङ्गार्शांस्यथ कुष्ठभिदाः क्रमात् ।कुष्ठं श्वित्रमुभे क्लीबे कोठो दुश्चर्मकं पुनः ॥ ३३७ ॥
1.4.337 · p. 57
अनुष्टुप्
कापालिकौदुम्बरे च मण्डलं त्रिषु चर्चिका ।तद्वत्त्वक्पलिकं च स्यात्पादस्फोटो विपादिका ॥ ३३८ ॥
1.4.338 · p. 57
अनुष्टुप्
धौतकुष्ठं टिट्टिभं स्त्री दुद्रुरलसमित्यपि ।दद्रुर्दद्रुश्चापि दर्दूः कोठो नाकण्डुरित्यपि ॥ ३३९ ॥
1.4.339 · p. 58
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 द्रु (wrong syllable)
कच्छूः कण्डूश्च कण्डूतिः खर्जूः कण्डूयनं च षण् ।पीतस्फोटे पाम पामा सूक्ष्मस्फोटे विचर्चिका ॥ ३४० ॥
1.4.340 · p. 58
अनुष्टुप्
क्षुद्रस्फोटे चञ्चिका स्यान्मसूराभा मसूरिका ।संचारिसुण्डिका स्फोटे पिटकोविटकस्त्रिषु ॥ ३४१ ॥
1.4.341 · p. 58
अनुष्टुप्
विस्फोटः स्फोटकश्चेन्द्रलुप्तः केशघ्न इत्यपि ।महाकुष्ठे चर्मदलं पुण्डरीकं शतारुकम् ॥ ३४२ ॥
1.4.342 · p. 58
अनुष्टुप्
काकनं पित्तकुष्ठं च कुष्ठान्यष्टादशैव हि ।अथ षष्टिमिताः क्षुद्रुरोगाः पनसिकादिकाः ॥ ३४३ ॥
1.4.343 · p. 58
अनुष्टुप्
मसूरिकान्तास्तेषु स्याज्ज्वालागर्दभकार्थकः ।अम्लपित्तं विसर्पाह्व उदर्दो वातशोणितम् ॥ ३४४ ॥
1.4.344 · p. 58
अनुष्टुप्
इत्थं भूयो रोगभेदा अथ वातोद्भवा गदाः ।आक्षेपकं हनूस्तम्भ इत्याद्या अथ पित्तजाः ॥ ३४५ ॥
1.4.345 · p. 58
अनुष्टुप्
धूमोद्गारादयस्ते स्युश्चत्वारिंशदथापरे ।कफजा अतिनिद्राद्या विंशतिस्तेप्यथापरे ॥ ३४६ ॥
1.4.346 · p. 58
अनुष्टुप्
रक्तोद्भवा गौरवाद्यास्ते दशाथ मुखोद्भवाः ।ते चतुःसप्ततिमितास्तेषु दन्तोद्भवा दश ॥ ३४७ ॥
1.4.347 · p. 58
अनुष्टुप्
एकादशौष्ठजा दन्तमूलरोगास्त्रयोदश ।अष्टौ तालुगदा जिह्वाभवाः षड्गलजा गदाः ॥ ३४८ ॥
1.4.348 · p. 59
अनुष्टुप्
अष्टादशाष्टावपरे मुखमध्यभवा अथ ।अष्टादश स्युः कर्णोत्थाः सप्तपाली समुद्भवाः ॥ ३४९ ॥
1.4.349 · p. 59
अनुष्टुप्
कर्णमूलोद्भवाः पञ्चदशाष्टौ नासिकोद्भवाः ।शिरोरोगा दशैव स्युस्ते खलत्यादयोप्यथ ॥ ३५० ॥
1.4.350 · p. 59
अनुष्टुप्
नवैव स्युः कपालोत्थास्तेषु स्यादिन्द्रलुप्तकम् ।तथा पलितमित्याद्या अथ नेत्रसमुद्भवाः ॥ ३५१ ॥
1.4.351 · p. 59
अनुष्टुप्
चतुर्नवतिसंख्याकाः पुंस्त्वदोषास्तु पञ्चधा ।कुम्भीक इषको सेक्यः सुगन्धी षण्ड इत्यमी ॥ ३५२ ॥
1.4.352 · p. 59
अनुष्टुप्
अथाप्यष्टौ शुक्रदोषा अथ स्त्रीदेहजागदः ।तेष्वष्टावार्त्तवोत्थास्तु तत्र पूयाभमार्त्तवम् ॥ ३५३ ॥
1.4.353 · p. 59
अनुष्टुप्
कुणपं ग्रन्थिलं क्षीणमलतुल्यादिकं च तत् ।प्रदरोऽस्त्री चतुर्धा स्यादथ योनिसमुद्भवाः ॥ ३५४ ॥
1.4.354 · p. 59
अनुष्टुप्
चतुर्विंशतिराख्याताः शुक्रावामिनिकादयः ।योनिकन्दश्चतुर्धा स्यादष्टधा गर्भजो गदः ॥ ३५५ ॥
1.4.355 · p. 59
अनुष्टुप्
पञ्चधा स्तनजा रोगा बालरोगस्त्रिधा मतः ।अदक्षपुरुषाज्जातः सपत्नीविहितोऽपरः ॥ ३५६ ॥
1.4.356 · p. 59
अनुष्टुप्
दैवाज्जातस्तत्र दन्तभेदाख्या विविधा गदाः ।अथ रुग्णोऽमितो म्लानो व्याधितो विकृतो पटुः ॥ ३५७ ॥
1.4.357 · p. 60
अनुष्टुप्
अभ्यान्तः सामयो मन्द आतुरो ग्लास्नुरित्यपि ।तद्विशेषाः समुन्नेयास्तत्तन्मत्वर्थगोचराः ॥ ३५८ ॥
1.4.358 · p. 60
अनुष्टुप्
यथा ज्वरितकण्डूलार्शसक्षयितदद्रुणाः ।त्रिष्वथो भेषजं क्लीबे भैषज्यं च भिषग्जितम् ॥ ३५९ ॥
1.4.359 · p. 60
अनुष्टुप्
औषधं चागदं जायुः पुंस्यथापि च निग्रहः ।उपचारश्चोपशमश्चिकित्सा रुक् प्रतिक्रिया ॥ ३६० ॥
1.4.360 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चो (wrong syllable)