खनित्री
khanitrīस्त्री · fem.In 6 kośas: 2 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.
विकृताधा(विगताद्या?)स्तु नोद्वाह्याः कन्याः सर्वा हितैषिभिः ।यष्टिर्द्वयोः स्त्रियां मीना खनित्री तु विशाखिका ॥ १२४१ ॥
अनुष्टुप्
genderस्त्रीfem.
लोहितः स्यान्नीलवृषः पुच्छशृंगखुरे सितः ।यष्टिर्न क्ली स्त्रियां मीना खनित्री तु विशाखिका ॥ १२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्नी (wrong syllable)
genderस्त्रीfem.
कुद्दाले स्यात् खनित्री तु दण्डभेदे तपस्विनाम् ।विशाखिकासमाख्ये स्यात् खचितं त्वभिधेयवत् ॥ ६२० ॥
अनुष्टुप्
खनित्री as a meaning in nānārtha verses
- धरणिकोश विशिखाविशिखा खनित्री रथ्या विशिखो बाण उच्यते । गोमुखं वाद्यभाण्डे स्यात्तथा गोमयलेपने ॥ Dharaṇikośa 2.2.5
- कोषकल्पतरु विशिखास्याद्गोमुखं तोमरबाणयोस्तु कोशप्रवीणैर्विशिखः प्रदिष्टः । रथ्याखनित्रीनलिकासु तु स्त्री मयूखमर्च्चिःकरभासु चाहुः ॥ ८३ ॥ Koṣakalpataru 6.2.83
- शब्दरत्नावली विशिखमयूखः किरणज्वालाशोभासु तीक्ष्णतेजसि । विशिखः तोमरे बाणे खनित्रीरथ्ययोः स्त्रियाम् ॥ Śabdaratnāvalī 7.2.12
- वैजयन्ती विशिखाविशिखा तु खनित्री च क्ली चित्ते ना त्वसौ शरे । विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि ॥ ८१ ॥ Vaijayantī 7.5.81