कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · खान्ताः

इति कान्ताः ॥

एकखाः ।

खं सुखेन्द्रियसुरालयबिन्दु-क्षेत्रशून्यसुरवर्त्मपुरेषु ।वेदने च कुणहेलफले स्यात्
6.2.1 · p. 160
स्वागता

द्विखाः ।

अस्त्रियां तु नखरे तु नखः स्यात् ॥ ७६ ॥
6.2.76 · p. 161
स्वागता
गन्धवस्तुभिदि पुंस्त्वविहीनेवक्रनिःसरणयोः सदुपाये ।स्यादुपक्रमणवाचि मुखं स्या-त्स्वर्जलेश्वरपुरोश्च सुखं च ॥ ७७ ॥
6.2.77 · p. 161
स्वागता
लेखो दिवौकःसु तथैव लेख्येलेखा तु राजीलिपिषूपदिष्टाः ।न्युङ्खस्तु सम्यग्रुचिरे पराभःसाम्नः स षट्सु प्रणवेषु पुंसि ॥ ७८ ॥
6.2.78 · p. 161
इन्द्रवज्रा
शङ्खो ललाटास्थनि कम्बुनख्यो-र्न स्त्री च तादृग्वलये निधौ ना ।शिखण्डिचूडाग्रकनीनिशाखा-शिखण्डयात्रार्चिषु लाङ्गलिक्याम् ॥ ७९ ॥
6.2.79 · p. 161
उपजातिः
शिखा सखा मित्रसहाययोः स्या-च्छाखा तु वेदाङ्गभुजान्तिकेषु ।वृक्षाङ्गपक्षान्तरसंनिकर्ष-रक्तादिधातुष्वपि किञ्च शाखः ॥ ८० ॥
6.2.80 · p. 161
उपजातिः
प्रेङ्खा च याने नट[261b]नेऽटने चवीङ्खा तु नृत्ये गतिशूकशिम्ब्योः ।
6.2.7 · p. 161
उपजातिःmetre not read in every line

त्रिखाः ।

निशाचरे तु त्रिशिखस्त्रिशूल-शैलाग्रयोस्तु द्वयहीनमाहुः ॥ ८१ ॥
6.2.81 · p. 161
उपजातिःmetre not read in every line
तार्क्ष्यात्मजे स्यात्सुमुखोऽहिभेदेविज्ञे च वाचाटफणीन्द्रयोस्तु ।स्याद्दुर्मुखो मर्कटकेऽथ वाद्य-भाण्डे ऽनृजौ धाम्न्यनुलेपने च ॥ ८२ ॥
6.2.82 · p. 161
इन्द्रवज्रा
स्याद्गोमुखं तोमरबाणयोस्तुकोशप्रवीणैर्विशिखः प्रदिष्टः ।रथ्याखनित्रीनलिकासु तु स्त्रीमयूखमर्च्चिःकरभासु चाहुः ॥ ८३ ॥
6.2.83 · p. 161
उपजातिः
वैशाखः पाखण्डेमन्थे मासप्रभेदे च ।नक्षत्रे तु विशाखाक्लीबे गन्धे च गेहे च ॥ ८४ ॥
6.2.84 · p. 162
metre not recognised
स्कन्दे विशाखो नरि तर्कके चकटिल्लके तद्वदुदाहरन्ति ।
6.2.12 · p. 162
उपजातिः

चतुःखाः ।

देवे द्विजे चाग्निमुखोऽपि भल्ल्यांस्याच्चित्रके पञ्चनखस्तु कूर्मे ॥ ८५ ॥
6.2.85 · p. 162
उपजातिः
गजेऽथ बाणे भ्रमरे शिलीमुखःकन्दो नुत( ? )र्व्याघ्रनखे नखौषधौ ।संख्याविभेदे च नरास्थ्नि पण्डितानिधौ महाशङ्ख [मुदाहरन्ति] ॥ ८६ ॥
6.2.86 · p. 162
upajati mixed
[*कुङ्कुमेऽग्निशिखं] स्त्रियां तुस्याल्लाङ्गलिक्यां हुतभुक् शि[262a]खायाम् ॥ ८७ ॥
6.2.87 · p. 162
metre not recognised
शशिलेखा बाकुचिका-वृत्तभिदोः स्यात्कलाभागे ।
6.2.16 · p. 162
metre not recognised

पञ्चखाः ।

मलिनमुखस्तु प्रेतेगोलाङ्गूलेऽनले च खले ॥ ८८ ॥
6.2.88 · p. 162
metre not recognised
शीतांशौ घनसारेशीतमयूखोऽथात्मधातृरुद्रेषु ।स्यात्सर्वतोमुखोऽन्त्येपुनरम्भस्यन्तरिक्षे च ॥ ८९ ॥
6.2.89 · p. 162
metre not recognised