कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

भूमिकाण्डः · ब्राह्मणाध्यायः (2/2)

भिक्षा च सनिरक्ली स्यान्मार्गणा तु गवेषणा ।पर्येषणा परीच्छा च मृगणान्वेषणा मृगः ॥ १२१ ॥
3.6.121 · p. 93
अनुष्टुप्
यस्तु नीलवृषोत्सर्गस्स षण्डो वृषपूतनः ।उद्बंधवृषभश्चायमापिंगलक इत्यपि ॥ १२२ ॥
3.6.122 · p. 93
अनुष्टुप्
लोहितः स्यान्नीलवृषः पुच्छशृंगखुरे सितः ।यष्टिर्न क्ली स्त्रियां मीना खनित्री तु विशाखिका ॥ १२३ ॥
3.6.123 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्नी (wrong syllable)
बद्धदर्भो वेदयष्टिः कुण्डिका ना कमण्डलुः ।वैखानसो वनेवासी वानप्रस्थश्च तापसः ॥ १२४ ॥
3.6.124 · p. 93
अनुष्टुप्
कापोतो वर्षमात्रस्य स वन्याहारसंग्रहात् ।औदुंबरस्तु षाण्माससंग्रही तुर्यकालभुक् ॥ १२५ ॥
3.6.125 · p. 93
अनुष्टुप्
परे त्रिषु तपस्वी स्यात्तापसः पारिकांक्षिकः ।चतुर्थकालिको भिक्षुर्व्युष्टिरष्टमकालभुक् ॥ १२६ ॥
3.6.126 · p. 93
अनुष्टुप्
चान्द्रायणरतश्चन्द्रव्रतिकः सौमिकश्च सः ।षष्ठकाली तु बलिको नैशी नक्षत्रकालिकः ॥ १२७ ॥
3.6.127 · p. 93
अनुष्टुप्
पुष्पाढ्यस्तु स्वयंशीर्णपुष्पमूलफलाशनः ।भुङ्क्ते पक्षान्तयोरेव यो यवान् स द्विकालिकः ॥ १२८ ॥
3.6.128 · p. 93
अनुष्टुप्
शीर्णकः शीर्णपर्णाशी वृक्षमूली तु मूलिकः ।भूमौ विपरिवृत्यास्ते यस्स पातालमूलिकः ॥ १२९ ॥
3.6.129 · p. 93
अनुष्टुप्
वर्षवातातपानंगे बिभ्रदभ्रावकाशिकः ।शिवव्रती स यो विप्रः पादेनैकेन तिष्ठति ॥ १३० ॥
3.6.130 · p. 93
अनुष्टुप्
रुद्रव्रती क्षत्रियश्चेद्वाताहारस्त्वहिव्रती ।मत्स्यव्रती जलाचारस्तृणशय्यस्तु पर्णशः ॥ १३१ ॥
3.6.131 · p. 93
अनुष्टुप्
तथैव स्यात् स्थण्डिलश औलूकोंऽगारशाकटे ।पाणिपात्रस्तु खपुटो दन्तोलूखलको व्युषः ॥ १३२ ॥
3.6.132 · p. 94
अनुष्टुप्
पिबत्यधोमुखो धूमं यस्स धुर्यावकर्तिकः ।जानुभ्यां जानुकस्तिष्ठन्नष्टग्रासो मुनिव्रती ॥ १३३ ॥
3.6.133 · p. 94
अनुष्टुप्
पद्मासनी तु वसिकः क्षीराहारस्तु लोचकः ।नीवारपिष्टकानष्टावश्नाति मुनिपिष्टकी ॥ १३४ ॥
3.6.134 · p. 94
अनुष्टुप्
एकांतर्येकांतरिती तथा कालावलोलकः ।और्वव्रती जलाहारो घृताशी घृतभुग्घृती ॥ १३५ ॥
3.6.135 · p. 94
अनुष्टुप्
तपो व्रतोऽस्त्री कृच्छ्रोऽस्त्री तच्च चान्द्रायणादिकम् ।चान्द्रायणं चन्द्रव्रतं प्राजापत्यं तु कृच्छ्रकम् ॥ १३६ ॥
3.6.136 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्द्र (wrong syllable)
प्राजापत्यं तु गोकृच्छ्रं कृतं गोमूत्रयावकैः ।शिशुकृच्छ्रे कृतं पच्छः कृच्छ्रमद्भिस्तु यः कृतः ॥ १३७ ॥
3.6.137 · p. 94
अनुष्टुप्
कृच्छ्रः कृच्छ्रातिकृच्छ्रोऽसौ स्याद्वाहान्येकविंशतिम् ।शिशुकृच्छ्रातिकृच्छ्रं तत्त्रिसन्ध्यं चेदपः पिबेत् ॥ १३८ ॥
3.6.138 · p. 94
अनुष्टुप्
प्राजापत्यं पाणिपात्रपूर्णान्नेनातिकृच्छ्रकम् ।तप्तकृच्छ्रं तदस्नानात् क्षीरसर्पिर्जलैः कृतम् ॥ १३९ ॥
3.6.139 · p. 94
अनुष्टुप्
एकैकं त्र्यहमभ्युष्णैः शीतैस्तैः शीतकृच्छ्रकम् ।बिल्वेन मासं श्रीकृच्छ्रं मूलकृच्छ्रं बिसाशनात् ॥ १४० ॥
3.6.140 · p. 94
अनुष्टुप्
पानेन सांबुसक्तूनां मासं वरुणकृच्छ्रकम् ।त्रिः सप्ताहं पयःपानं क्वचित् कृच्छ्रातिकृच्छ्रकम् ॥ १४१ ॥
3.6.141 · p. 94
अनुष्टुप्
पिण्याकाचामतक्रांबुसक्तून् भुक्त्वा क्रमादहः ।उपोष्य सौम्यकृच्छ्रं स्याज्जलाचामौ विनैव वा ॥ १४२ ॥
3.6.142 · p. 94
अनुष्टुप्
स्यात्तुलापुरुषोऽभ्यासादेकैकस्य दिनत्रयम् ।सौम्यस्य तु द्विरम्यासात् स्यात्तुलापुरुषः शिशोः ॥ १४३ ॥
3.6.143 · p. 94
अनुष्टुप्
उपवासस्तूपवस्तुःसन्यासः स्यादनाशकम् ।द्वादशाहे पराको ना षोडशाहे तुरायणम् ॥ १४४ ॥
3.6.144 · p. 95
अनुष्टुप्
तुरायणद्वये सौम्यं चातुर्मास्ये परायणम् ।पारायणं जलेनैतत् क्षीरेणैतत् परावसु ॥ १४५ ॥
3.6.145 · p. 95
अनुष्टुप्
एकान्तरितमर्धाशं षष्ठकालेषु षाष्ठिकम् ।गोमूत्रयावकैर्मासो वज्रोऽस्त्री यावकैः पुनः ॥ १४६ ॥
3.6.146 · p. 95
अनुष्टुप्
त्र्यहं वज्राभिषवणं पयसा तु पयोव्रतम् ।पञ्चरात्रं पयःपानं संगमः संगतश्च सः ॥ १४७ ॥
3.6.147 · p. 95
अनुष्टुप्
मासं गोष्ठे पयःपानं गोव्रतं व्राजिकं च तत् ।पिबेत् ब्रह्मसुवर्चलामुपोष्योपस्करव्रतम् ॥ १४८ ॥
3.6.148 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्च (wrong syllable)
कणान्नस्यैव भोजनं द्वादशाहं वसुव्रतम् ।कुशापीडः कुशवटो व्रतिनामासनं ब्रसी ॥ १४९ ॥
3.6.149 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ज (wrong syllable)
योगपट्टस्तु चीना स्यात् पर्यस्तिरवसक्थिका ।ऋषिस्त्रिकालदर्शी स्यान्मौनी वाचंयमो मुनिः ॥ १५० ॥
3.6.150 · p. 95
अनुष्टुप्
अगस्त्यः कलशीपुत्रस्तपनः पीतसागरः ।और्वशेयः कुंभयोनिरगस्तिर्विन्ध्यकूटकः ॥ १५१ ॥
3.6.151 · p. 95
अनुष्टुप्
मैत्रावरुणिराग्नेयो मुनिर्वातापिसूदनः ।दक्षिणाशारतः क्वाथिः सत्याग्निश्चाग्निमारुतः ॥ १५२ ॥
3.6.152 · p. 95
अनुष्टुप्
तस्य कौषीतकी भार्या लोपामुद्रा वरप्रदा ।प्राचेतसस्तु वाल्मीकिर्वाल्मीकश्च कुशी कविः ॥ १५३ ॥
3.6.153 · p. 95
अनुष्टुप्
सालातुरीयको दाक्षीपुत्रः पाणिनिराहिकः ।हलभूतिस्तूपवर्षः कृतकोटिकविश्च सः ॥ १५४ ॥
3.6.154 · p. 95
अनुष्टुप्
याज्ञवल्क्यस्तु योगांजिर्योगेशो ब्रह्मरात्रिकः ।आपवस्तु वसिष्ठः स्याद्यज्ञाढ्यस्तु पराशरः ॥ १५५ ॥
3.6.155 · p. 95
अनुष्टुप्
गौतमस्तु शतानन्दो यवक्रीतस्तु रोहितः ।यायावरो जरत्कारुर्दुर्वासास्तु कुशारणिः ॥ १५६ ॥
3.6.156 · p. 96
अनुष्टुप्
अष्टावक्रस्तु गर्भाजिर्दृढच्युत्त्विध्मवाहकः ।मत्स्यगुश्च्यवनोऽथ स्यात् गोनर्दीयः पतंजलिः ॥ १५७ ॥
3.6.157 · p. 96
अनुष्टुप्
अथ व्यालिर्विन्ध्यवासी नन्दनीनन्दनोऽपि च ।कात्यायनो वररुचिर्मेधजिच्च पुनर्वसुः ॥ १५८ ॥
3.6.158 · p. 96
अनुष्टुप्
वात्स्यायनस्तु कौटिल्यो विष्णुगुप्तो वराणकः ।द्राविलः पक्षिलः स्वामी मल्लनागोंऽगुलोऽपि च ॥ १५९ ॥
3.6.159 · p. 96
अनुष्टुप्
यतिः पाराशरी भिक्षुः परिव्राट् पाररक्षिकः ।अनाशकी प्रव्रजितः कर्मन्दी मस्करी यनी ॥ १६० ॥
3.6.160 · p. 96
अनुष्टुप्
परमात्मा परो ब्रह्म जीवः क्षेत्रज्ञ आविशः ।शक्तिस्तु माया प्रकृतिर्व्योमाख्यं मूलकारणम् ॥ १६१ ॥
3.6.161 · p. 96
अनुष्टुप्
असदक्षरमव्यक्तं तमः सदसदात्मकम् ।अलिंगं गुणसामान्यं गुणाः सत्त्वं रजस्तमः ॥ १६२ ॥
3.6.162 · p. 96
अनुष्टुप्
महांस्तु लैंगिको ब्रह्मा लिंगज्येष्ठश्च चेतना ।मनीषा शेमुषी बुद्धिर्धीः पूः ख्यातिर्विदा बुधा ॥ १६३ ॥
3.6.163 · p. 96
अनुष्टुप्
ज्ञप्तिः पण्डोपलब्धिस्तु संवित्तिरनुभूश्चितिः ।अवगत्यनुभूती चिज्ज्ञप्तिर्ज्ञानं च बोधनम् ॥ १६४ ॥
3.6.164 · p. 96
अनुष्टुप्
षोढा धीस्तत्त्वधीः पण्डा मेधा धीर्धारणक्षमा ।ऊहापोहक्षमा चार्वी गृहीतिर्ग्रहणक्षमा ॥ १६५ ॥
3.6.165 · p. 96
अनुष्टुप्
शुश्रूषाबहुला श्रौषिः श्रवणज्ञा तु चत्वरी ।धृतिस्तु तुष्टिः संतोषः प्रौढिः स्तु कियदेतिका ॥ १६६ ॥
3.6.166 · p. 96
अनुष्टुप्
यत्नोत्साहोद्यमायामास्तरीषोऽध्यवसायवत् ।वैराग्यं मर्दमुद्वेगो निर्वेदश्च विरागवत् ॥ १६७ ॥
3.6.167 · p. 96
अनुष्टुप्
धर्मोऽस्त्री सुकृतं पुण्यं पाप्माधर्मौ तु दुष्कृतम् ।दुरितं पातकं पापं त्रस्तमंहोऽघकल्मषे ॥ १६८ ॥
3.6.168 · p. 97
अनुष्टुप्
स्मयोऽभिमानोऽहंकारो गर्वः स्त्री गर्विरस्मिता ।शौटीर्यञ्चाथ शृंगारगर्वे घंघोरवेंघरौ ॥ १६९ ॥
3.6.169 · p. 97
अनुष्टुप्
आहोपुरुषिका सा यत् गर्वादात्मनि गौरवम् ।अहं पूर्वमहं पूर्वमित्यहंपूर्विकोन्नतिः ॥ १७० ॥
3.6.170 · p. 97
अनुष्टुप्
सा स्यादहमहमिका योऽहंकारः परस्परम् ।अत्याकारः परिभवस्तिरस्कारोऽप्यनादरः ॥ १७१ ॥
3.6.171 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
रीडावमाननावज्ञाप्यवहेलमसूर्क्षणम् ।उच्चलं मानसं चेतश्चित्तमुच्चलितं मनः ॥ १७२ ॥
3.6.172 · p. 97
अनुष्टुप्
स्वान्तं गूढपदं हृच्च संकल्पो मानसी क्रिया ।मनो बुद्धिरहंकार इत्यंतःकरणं त्रिधा ॥ १७३ ॥
3.6.173 · p. 97
अनुष्टुप्
आकूतिर्मतमाकूतं भावोऽभिप्राय आशयः ।चित्ताभोगो मनस्कार उत्प्रेक्षा स्वमनीषिका ॥ १७४ ॥
3.6.174 · p. 97
अनुष्टुप्
मीमांसा तु विजिज्ञासा प्रत्यग्दृष्टिर्विकुण्ठना ।तर्कमूलिकसम्मर्श ऊहो न क्ल्यूहना न ना ॥ १७५ ॥
3.6.175 · p. 97
अनुष्टुप्
संभावना स्यादाशंका वितर्कस्तर्कमस्त्रियाम् ।प्रतिभा प्रतिभासः स्यान्निर्णयोंऽतश्च निश्चयः ॥ १७६ ॥
3.6.176 · p. 97
अनुष्टुप्
विचिकित्सा तु सन्देहः संशयो विशयो भ्रमः ।विस्मरणं प्रस्मरणमुन्मादश्चित्तविभ्रमः ॥ १७७ ॥
3.6.177 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 स्म (wrong syllable)
तन्द्रा कौसीद्यमालस्यं प्रमादोऽनवधानता ।स्यादायल्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः ॥ १७८ ॥
3.6.178 · p. 97
अनुष्टुप्
हृल्लेखो रणरणकोऽप्यभिध्या विषमस्पृहा ।तृषिः कांक्षा स्पृहेहेच्छा वांछा कामो मनोरथः ॥ १७९ ॥
3.6.179 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
अभिलाषश्च लिप्सा तु धनायेप्सा च गर्धना ।गर्भिण्याः पुनरिच्छायां श्रद्धा दोहलदौहृदे ॥ १८० ॥
3.6.180 · p. 98
अनुष्टुप्
रागोऽनुरागोऽनुरतिर्वीक्षायां मोहविस्मयौ ।शोषुर्ना शुषिकोदन्या पिपासाप्यपलासिका ॥ १८१ ॥
3.6.181 · p. 98
अनुष्टुप्
बुभुक्षेच्छाशनाया क्षुज्जिघत्साशिशिषा पचिः ।राज्यलौल्यं तु कौहोलं तपसीच्छा प्रशान्तिकम् ॥ १८२ ॥
3.6.182 · p. 98
अनुष्टुप्
शोकस्तु मन्युरुत्खेवदः शुक् स्त्री दैन्यानुशोचने ।क्रोधः कोपोऽमर्षरोषौ रुषा रुट्क्रुत्क्रुधाः स्त्रियः ॥ १८३ ॥
3.6.183 · p. 98
metre not recognisednearly अनुष्टुप्
मर्षः क्षमा तितिक्षा स्यादसूया दोषदृग्गुणे ।वैरं विरोधो विद्वेष ईर्ष्या मात्सर्यमुन्नते ॥ १८४ ॥
3.6.184 · p. 98
अनुष्टुप्
तंकोऽस्त्री भीर्भिया भीतिः साध्वसं भयनं भयम् ।विप्रतिसारेऽनुशयः पश्चात्तापोऽनुतापवत् ॥ १८५ ॥
3.6.185 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 प्र (wrong syllable)
स्नेहोऽस्त्री प्रेम सौहार्दमजय्यं हार्दसौहृदे ।आनन्दनं संगतं स्यादप्रच्छन्नं सभाजनम् ॥ १८६ ॥
3.6.186 · p. 98
अनुष्टुप्
सख्यं साप्तपदीनं स्यात् कौतुकं तु कुतूहलम् ।कौतूहलं विनोदश्च दुःखं पीडाव्यथार्तयः ॥ १८७ ॥
3.6.187 · p. 98
अनुष्टुप्
शंभरस्तु मदो हर्षः प्रमोदो मोदसम्मदौ ।आनन्दो नन्दथुर्ह्लादस्तृप्तिमुन्नन्दिहृष्टयः ॥ १८८ ॥
3.6.188 · p. 98
अनुष्टुप्
शर्म शातं सुखं सौख्यमयः शुभफलो विधिः ।विधौ दैवं दिष्टभाग्ये विपाको भवितव्यता ॥ १८९ ॥
3.6.189 · p. 98
अनुष्टुप्
उपलिंगं त्वरिष्टं स्यादजन्यं डिंबविप्लवौ ।डमरोपप्लवोत्पाता उपसर्ग उपद्रवः ॥ १९० ॥
3.6.190 · p. 98
अनुष्टुप्
संपत्संपत्तिलक्ष्म्यौ श्रीर्विपत्तिर्विपदापदौ ।अवसादस्तु सादः स्याद्विषादश्च श्लिकुर्न ना ॥ १९१ ॥
3.6.191 · p. 98
अनुष्टुप्
उग्रता तूग्रिका रौद्री करुणा तु दया कृपा ।घृणानुकंपानुक्रोशः कारुण्यं चाथ कौक्कुटे ॥ १९२ ॥
3.6.192 · p. 99
अनुष्टुप्
क्लेशायासौ जुगुप्सा तु हृणीया हृणिया घृणा ।ऋतिः कुत्साप्युपक्रोशो गर्हा दोषश्च गर्हणा ॥ १९३ ॥
3.6.193 · p. 99
अनुष्टुप्
मन्दाक्षं ह्नीस्त्रपा लज्जा व्रीला सापत्रपान्यतः ।हासिका तु हसो हासो हसनं हास्यघर्घरे ॥ १९४ ॥
3.6.194 · p. 99
अनुष्टुप्
व्याजो मिषं छलं छद्म निभं च कपटोऽस्त्रियाम् ।दंभो दंडाजिनं कूटं दौन्दुभिश्छन्दनोपधा ॥ १९५ ॥
3.6.195 · p. 99
अनुष्टुप्
रेभटिः कुक्कुटिर्मिथ्याचर्या च परिकल्पना ।जागरितं जागरणं जागर्या जागरा न षण् ॥ १९६ ॥
3.6.196 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ग (wrong syllable)
प्रमीला तामसी तन्द्रा स्वापस्तु स्वप्नसंशयौ ।निद्रा गुडाका सुप्तं च स्वप्नस्त्वेवात्र दर्शनम् ॥ १९७ ॥
3.6.197 · p. 99
अनुष्टुप्
संस्कारमात्रजः स्वप्नः कामिको रसकोऽपि च ।अदृष्टजस्त्वत्र चाग्रो दोषजस्त्वांगलौकिकः ॥ १९८ ॥
3.6.198 · p. 99
अनुष्टुप्
प्रदोषे बलकः स्वप्नो निशीथे लोचमालकः ।नचकोऽपररात्रे स्यात् सद्यःपाको निशात्यये ॥ १९९ ॥
3.6.199 · p. 99
अनुष्टुप्
नन्दीमुखी श्वासहेतिः सुषुप्तिः सुखसुप्तिका ।मूर्छा तु मूर्छना मौढ्यं वैचित्त्यं कश्मलं लयः ॥ २०० ॥
3.6.200 · p. 99
अनुष्टुप्
कालधर्मस्तु दिष्टान्तो निपातो गमिरन्धकः ।कटमोषो भूमिलाभो दीर्घनिद्रा निमीलनम् ॥ २०१ ॥
3.6.201 · p. 99
अनुष्टुप्
पंचत्वं मरणं मृत्युरक्ली स्यादमतोऽस्त्रियाम् ।सर्वलोकतते मृत्यौ मारिः स्त्री मारकोऽस्त्रियाम् ॥ २०२ ॥
3.6.202 · p. 99
अनुष्टुप्
हृषीकमिन्द्रियं प्राणः प्राणा ना भूम्नि चासवः ।प्राणापानादयस्त्वस्य वृत्तयः पंच बायवः ॥ २०३ ॥
3.6.203 · p. 99
अनुष्टुप्
श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छ्वास आहरः ।आनश्चाथ बहिर्वृत्तो निश्वासः पान एतनः ॥ २०४ ॥
3.6.204 · p. 100
अनुष्टुप्
स्थिरस्त्वाश्वास एती च स्यादूवद्ध्यं गुदानिले ।तन्मात्राप्यविशेषाः स्युर्विशेषाः पञ्च खादयः ॥ २०५ ॥
3.6.205 · p. 100
अनुष्टुप्
महाभूतानि भूतानि लोको भुवनविष्टपे ।मर्त्यलोको जीवलोको मर्तोऽप्यथ भुवोऽव्ययम् ॥ २०६ ॥
3.6.206 · p. 100
अनुष्टुप्
स्वर्महश्च क्रमाल्लोका महरेव महानपि ।प्राजापत्यो जनस्तस्मात् गोलोकस्तु तपो नपुम् ॥ २०७ ॥
3.6.207 · p. 100
अनुष्टुप्
ब्रह्मलोकः सत्यलोकस्तत्र पुर्यपराजिता ।योगस्त्वाध्यात्मिकोऽथासावष्टांगोंऽगैर्यमादिभिः ॥ २०८ ॥
3.6.208 · p. 100
अनुष्टुप्
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसंग्रहः ।यमाः स्युर्नियमाः शौचसंतोषतपआदयः ॥ २०९ ॥
3.6.209 · p. 100
अनुष्टुप्
आसनं करणं तस्य भेदाः पद्मासनादयः ।उत्तानौ चरणावूर्वोर्न्यस्येन्नाभौ करद्वयम् ॥ २१० ॥
3.6.210 · p. 100
अनुष्टुप्
दक्षिणोत्तरमुत्तानं घ्राणदृक् पद्मकासनी ।अर्धपद्मासनन्त्वेकपाद ऊरोरधःस्थिते ॥ २११ ॥
3.6.211 · p. 100
अनुष्टुप्
निगूढचरणन्तूर्वोरधश्चेच्चरणावुभौ ।पादोपवेशस्त्वन्वर्थः संयुज्य पदयोस्तले ॥ २१२ ॥
3.6.212 · p. 100
अनुष्टुप्
ते चत्वारोऽपि पर्यंकाः पृष्ठवंशशिरोधरम् ।नियम्य मीलिताक्षश्चेत्पर्यस्तिकरणेन वा ॥ २१३ ॥
3.6.213 · p. 100
अनुष्टुप्
नागदन्तकमूर्ध्वज्ञोर्जानुस्थौ प्रसृतौ भुजौ ।सूचीमुखमिदं पाणितलौ चेत् संहतौ मिथः ॥ २१४ ॥
3.6.214 · p. 100
अनुष्टुप्
अर्धसूची तु तौ द्वौ चेत् प्रादेशान्तरतो मुखात् ।कुट्मलम्मुकुलीभूतौ तौ चेदूर्ध्वमुखौ स्थितौ ॥ २१५ ॥
3.6.215 · p. 100
अनुष्टुप्
अस्पृष्टौ नागदन्तस्य स्फिचौ चेद्भुवमुत्कटम् ।वहित्रकर्णः संयुज्य जंघायुग्मप्रसारणात् ॥ २१६ ॥
3.6.216 · p. 101
अनुष्टुप्
एष पादप्रसारोऽपि स्यादथो मरणालसम् ।वस्तिशुण्डकमप्यस्य जंघैका चेत् प्रसारिता ॥ २१७ ॥
3.6.217 · p. 101
अनुष्टुप्
अर्धनाकुलमूर्ध्वज्ञोर्जंघे बद्धे भुजेन चेत् ।द्वाभ्यां चेन्नाकुलं दोर्भ्यामथ वज्रासनं यदि ॥ २१८ ॥
3.6.218 · p. 101
अनुष्टुप्
जंघे पद्मासनावस्थे तत्संधिनिहितौ करौ ।ताभ्यामेव स्थितौ भूमावंतरिक्षासनं च तत् ॥ २१९ ॥
3.6.219 · p. 101
अनुष्टुप्
गोधासनं तदेकेन स्थितश्चेत् पाणिना भुवि ।पद्मासनस्य पदयोः पाणिना पृष्ठगामिना ॥ २२० ॥
3.6.220 · p. 101
अनुष्टुप्
वामेन दक्षिणांगुष्ठं वामं चान्येन पीडयेत् ।वेतालासनमित्येतदेकांगुष्ठग्रहात् किणः ॥ २२१ ॥
3.6.221 · p. 101
अनुष्टुप्
कर्णयोर्जानुपार्श्वाभ्यां स्पर्शे जानुनिकुंचनम् ।भुजवेष्टितजंघोरोश्चूलिकाश्लेषितावनेः ॥ २२२ ॥
3.6.222 · p. 101
अनुष्टुप्
पृष्ठतो भुजपाशश्चेन् मृत्युसंयमनोऽपि सः ।बिन्दुभेदोऽप्यधो जानुसन्ध्योः पादप्रवेशनात् ॥ २२३ ॥
3.6.223 · p. 101
अनुष्टुप्
स्वस्तिकोऽथ समस्थानं पादौ कुंचितसंपुटौ ।आसीनस्यासनान्येतान्यथ सुप्तस्य साम्यतः ॥ २२४ ॥
3.6.224 · p. 101
अनुष्टुप्
गवादीनान्निषण्णानां स्याद्गोनिषदनादिकम् ।उत्तानस्योर्ध्वपादत्वमित्येतट्टिट्टिभासनम् ॥ २२५ ॥
3.6.225 · p. 101
अनुष्टुप्
दण्डासनादिभेदेन पंचधा स्यात् स्थितासनम् ।दण्डासनं स्यादन्वर्थं यत्र दण्डवदुत्थितः ॥ २२६ ॥
3.6.226 · p. 101
अनुष्टुप्
स्याद्वीरासनमुत्पादः कृत्वा भूमौ शिरः स्थितः ।दुर्योधनासनमपि मृत्युसंयमनोऽपि सः ॥ २२७ ॥
3.6.227 · p. 101
अनुष्टुप्
दण्डपद्मासनं तस्मिञ्जंघे पद्मासनोचिते ।त्रिविक्रमासनं तार्क्ष्यासनमित्यपि साम्यतः ॥ २२८ ॥
3.6.228 · p. 102
अनुष्टुप्
प्राणायामः प्राणयम उत्खातो मानमस्य यत् ।छोटिकास्त्रिः परामृश्य जानुस्फोटक्रियाथ ताः ॥ २२९ ॥
3.6.229 · p. 102
अनुष्टुप्
षट्त्रिंशन्मन्द उत्खातो द्विगुणत्रिगुणौ पुनः ।मध्यमश्चैवोत्तमश्च प्रथमो द्वादशैव वा ॥ २३० ॥
3.6.230 · p. 102
अनुष्टुप्
प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ।धारणा तु क्वचिद्ध्येये चित्तस्य स्थिरबन्धनम् ॥ २३१ ॥
3.6.231 · p. 102
अनुष्टुप्
ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः ।समाधिर्ना तदेवार्थमात्राभासनरूपकम् ॥ २३२ ॥
3.6.232 · p. 102
अनुष्टुप्
प्रयुक्तं धारणाद्येतत्त्रयमेकत्र संयमः ।ओंकारः प्रणवस्तारस्तारकं सर्वविन्मतिः ॥ २३३ ॥
3.6.233 · p. 102
अनुष्टुप्
विद्वान् सन् कोविदः सूरिर्मेधावी पण्डितो बुधः ।सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ॥ २३४ ॥
3.6.234 · p. 102
अनुष्टुप्
दीर्घदर्शी दूरदर्शी लब्धवर्णो मनीष्यपि ।त्रिवर्गो धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः ॥ २३५ ॥
3.6.235 · p. 102
अनुष्टुप्
सबलैस्तैश्चतुर्भद्रः शास्त्रीयं तु फलं गतिः ।सांदृष्टिकं फलं सद्यः कार्यं कृत्यं प्रयोजनम् ॥ २३६ ॥
3.6.236 · p. 102
अनुष्टुप्
प्राप्तिरैक्येन सायुज्यं सार्ष्टिरैश्वर्यतुल्यता ।ब्रह्मभूयं ब्रह्मभावो देवभूयादिकं तथा ॥ २३७ ॥
3.6.237 · p. 102
अनुष्टुप्
अमृतत्वं तु कैवल्यं मुक्तिमोक्षोऽपुनर्भवः ।मोक्षावलंबिनः प्रायः पाषण्डा बाह्यलिंगिनः ॥ २३८ ॥
3.6.238 · p. 102
अनुष्टुप्
ते च हेरुकशोभाद्याः प्रोक्ताः षण्णवतिः क्वचित् ।दशोत्तरं शतं कैश्चित् पाषण्डानां प्रदर्शितम् ॥ २३९ ॥
3.6.239 · p. 102
अनुष्टुप्
शतत्रयं षष्ट्यधिकमुक्तं चीनेशसंसदि ।वेषाजीवकृतान्ताद्यैस्तेषां भेदः परस्परम् ॥ २४० ॥
3.6.240 · p. 103
अनुष्टुप्