All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · खान्ताः
इति कान्तवर्गः
खं पुरेन्द्रियशून्येषु बिन्दुक्षेत्रविहायसि ।सुखे संवेदने देवलोके दीप्तौ नपुंसकम् ॥
7.2.1 · p. 190
अनुष्टुप्
नखी शुक्तौ स्त्रियां क्लीबे नखरेऽपि च न द्वयोः ।न्युङ्खः साधुमनोज्ञे च साम्नां षट्प्रणवेष्वपि ॥
7.2.2 · p. 190
अनुष्टुप्
प्रारम्भोपायवेदेषु तथा निःसरणेऽपि च ।लेखो ना विबुधे लेख्ये लेखाश्रेण्यां लिपिष्वपि ॥
7.2.4 · p. 190
अनुष्टुप्
शङ्खोऽस्त्री कम्बुके पुंसि भालास्थिनिधिभिन्नखे ।शाखा द्रुमाङ्गे वाहौ च पक्षिभिद्वेदभागयोः ॥
7.2.6 · p. 190
अनुष्टुप्
शिखा शाखा शिफा ज्वाला माङ्गलिक्यग्रमात्रके ।पादाग्रे शिखिचूडायां चूडामात्रे स्मरज्वरे ॥
7.2.7 · p. 190
अनुष्टुप्
सखा सहाये मित्रे च वयस्यासु स्त्रियां सखी ।सुखा वरुणपूर्यान्तु सुखं त्रिदिवशर्मणोः ॥
7.2.8 · p. 190
अनुष्टुप्
गोमुखं वाद्यभाण्डे च लेपने कुटिले गृहे ।पुमान् महेश्वरगणान्तरि(?) मातलिपुत्रयोः ॥
7.2.9 · p. 190
अनुष्टुप्
त्रिशिखः कौपणे क्लीबं त्रिशूले भूषणान्तरे ।दुर्मुखोऽहीन्द्रभिदोर्ना मुखरे … त्रिषु ॥
7.2.10 · p. 190
अनुष्टुप्metre not read in every line
मयूखः किरणज्वालाशोभासु तीक्ष्णतेजसि ।विशिखः तोमरे बाणे खनित्रीरथ्ययोः स्त्रियाम् ॥
7.2.12 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
विशाखः कार्त्तिकेये ना ऋक्षपर्णासयोः स्त्रियाम् ।वैशाखोऽपि च मन्थाने मासमण्डलभेदयोः ॥
7.2.13 · p. 190
अनुष्टुप्
सुमुखस्तार्क्ष्यहेरम्बशाकभिद्नागभित्सु च ।नखक्षतान्तरे क्लीबं मनोज्ञे सुन्दरानने ॥
7.2.14 · p. 190
अनुष्टुप्
कोषानक्याञ्च भूदेवे विविधेऽग्निमुखः पुमान् ।कुसुम्भे कुङ्कुमे दीपे बाणेऽप्यग्निशिखः मतः ॥
7.2.15 · p. 190
अनुष्टुप्
लाङ्गलिक्यां विशल्यायां भवेदग्निशिखा स्त्रियाम् ।सोमवल्ल्यमृताचन्द्रेष्विन्दुरेखा निगद्यते ॥
7.2.16 · p. 191
अनुष्टुप्
उच्चाटने पुमान् बाणे द्वयोर्बद्धशिखः मतः ।संख्यालिकमनुष्यास्थि महाशङ्ख उदीरितः ॥
7.2.17 · p. 191
अनुष्टुप्
गन्धद्रव्ये नखाधाने कन्दे व्याघ्रनखोऽस्त्रियाम् ।बाणे युद्धे जडीभूते भ्रमरे च शिलीमुखः ॥
7.2.18 · p. 191
अनुष्टुप्
त्रिषु स्यात् मलिनमुखः क्रूरगोपुच्छवह्निषु ।अथ शितमयुखस्तु घनसारमृगाङ्कयोः ॥
7.2.19 · p. 191
metre not recognised
सर्वतोमुख उग्रे च ब्रह्मब्राह्मणयोः पुमान् ।क्लीबं वियति पानीये क्षेत्रज्ञे च पुमानयम् ॥
7.2.20 · p. 191
अनुष्टुप्