कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

तृतीयः काण्डः · ब्रह्माध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे मनुष्याध्यायोऽष्टादशः ।

ब्रह्माध्यायः

अन्ववायोऽन्वयो वंशः संतानोऽभिजनः कुलम् ।गोत्रं च संततिर्जात्यः कुलीनश्च महाकुलः ॥ ११६९ ॥
3.2.1169 · p. 144
अनुष्टुप्
चातुर्वर्ण्यं तु चत्वारो वर्णास्ते ब्राह्माणादयः ।ब्राह्मणो बाडवो विप्रः षट्कर्मा भूसुरो द्विजः ॥ ११७० ॥
3.2.1170 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ह्मा (wrong syllable)
ब्रह्माग्रजन्मा यज्ञस्तु सप्ततन्तुः सवः क्रतुः ।हवोऽध्वरो मखो यागो वितानं सवनं समे ॥ ११७१ ॥
3.2.1171 · p. 144
अनुष्टुप्
इज्येष्टिर्यज्ञकर्मेष्टं पूर्तं खातादिकर्मणि ।यज्ञशीलो यायजूको यज्वा स्यादासुतीवलः ॥ ११७२ ॥
3.2.1172 · p. 144
अनुष्टुप्
सोमयाजी क्रतौ यष्टा यजमानश्च दीक्षितः ।सोमपाः सोमपीथी स्याच्चितवानग्निमग्निचित् ॥ ११७३ ॥
3.2.1173 · p. 144
अनुष्टुप्
अग्न्याहितस्त्वाहिताग्निः पत्नी यज्वसधर्मिणी ।सर्ववेदास्तु सर्वस्वदक्षिणं यागमिष्टवान् ॥ ११७४ ॥
3.2.1174 · p. 144
अनुष्टुप्
बृहस्पतिसवेनेष्टं येन स स्थपतिः स्मृतः ।सानाय्यं तु हविर्हव्यं हुतं त्रिषु वषट्कृतम् ॥ ११७५ ॥
3.2.1175 · p. 144
अनुष्टुप्
पात्राणि स्युः स्रुवो यज्ञे स्रुग्जुहूरुपभृद्ध्रुवा ।शम्याग्निहोत्रहवनी दृषच्छूर्पमुलूखलम्कपालमुसलौ कृष्णाजिनं स्फ्य उपला स्त्रियाम् ॥ ११७६ ॥
3.2.1176 · p. 145
अनुष्टुप्
दश यज्ञायुधान्येतान्यथ स्युर्वाच्यलिङ्गकाः ।अपोनप्त्र्यमरुत्वत्यवास्तोष्पत्याग्निमारुताः ॥ ११७७ ॥
3.2.1177 · p. 145
अनुष्टुप्
द्यावापृथिव्यवायव्यकायपित्र्याग्निवारुणाः ।अग्निषोम्यसुनासीर्यशुक्रीयाग्नेयसौम्यकाः ॥ ११७८ ॥
3.2.1178 · p. 145
अनुष्टुप्
ऋतव्यौषध्यमाहेन्द्रगृहमेध्याश्विना इमे ।एकोनविंशतिः सास्य देवतेत्यर्थवाचकाः ॥ ११७९ ॥
3.2.1179 · p. 145
अनुष्टुप्
कुम्भस्थं मन्त्रपूतं यज्जलं सा वसतीवरी ।रशना स्याद्दर्भमयी रज्जुर्यूपाङ्गवेष्टनी ॥ ११८० ॥
3.2.1180 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्द (wrong syllable)
चषालो यूपकटको यूपाग्रं तर्म न द्वयोः ।आज्यं तु दघिसम्मिश्रं पृषदाज्यमथ द्वयोः ॥ ११८१ ॥
3.2.1181 · p. 145
अनुष्टुप्
अरणिर्मन्थदारुः स्यादामिक्षा दधियोगतः ।शृतोष्णे क्षीर आस्तावः संस्तावो यत्र सामिनः ॥ ११८२ ॥
3.2.1182 · p. 145
अनुष्टुप्
स्तुवन्त्यग्निष्ठमग्नेर्यत् स्थितं यूपादि सम्मुखे ।प्रायणीयोदयनीये त्रिष्वाद्येऽन्त्ये च कर्मणि ॥ ११८३ ॥
3.2.1183 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
सा सामिधेनी धाय्या च ऋगग्नेर्या समिन्धने ।चरुर्ना हविषः पाके प्रणयस्त्वग्निसंस्क्रिया ॥ ११८४ ॥
3.2.1184 · p. 145
अनुष्टुप्
स्त्रियां कृष्णविषाणा सा या कण्डूव्यपनोदिनी ।शस्त्रं स्तोत्रं ऋचां साम्नां शंसनं स्तवनं क्रमात् ॥ ११८५ ॥
3.2.1185 · p. 146
अनुष्टुप्
व्रीहिश्यामाकगोधूमयवमुद्गतिलाणवः ।माषप्रियङ्गुनीवारकोरदूषमसूरकाः ।गवीधुका कुलित्थश्च यज्ञीयास्ते चतुर्दश ॥ ११८६ ॥
3.2.1186 · p. 146
अनुष्टुप्
दीक्षान्तोऽवभृथो यज्ञकर्मार्हं यज्ञियं त्रिषु ।भूमिः परिष्कृता वेदिः प्राग्वंशः प्राग्घविर्गृहात् ॥ ११८७ ॥
3.2.1187 · p. 146
अनुष्टुप्
परंपराकं शसनं प्रोक्षणं च पशोर्वधे ।धर्मः प्रवर्ग्यश्चत्वालो वेदिमृत्खननावटः ॥ ११८८ ॥
3.2.1188 · p. 146
अनुष्टुप्
महावीरः पात्रभेदे होमधेनुररुन्धती ।दर्भैरग्निपरिस्तारः परिधिर्होम आहुतिः ॥ ११८९ ॥
3.2.1189 · p. 146
अनुष्टुप्
चमूः स्त्री चर्म सुत्यार्थं कुम्बा सुगहना वृतिः ।पशुबन्धास्तु पशवः स्थण्डिलं चत्वरं समे ॥ ११९० ॥
3.2.1190 · p. 146
अनुष्टुप्
स्युर्ब्रह्माध्वर्युरुद्गाता होता चामी महर्त्विजः ।ऋत्विजो याजकाश्चाथ नियमो व्रतमस्त्रियाम् ॥ ११९१ ॥
3.2.1191 · p. 146
अनुष्टुप्
उवावासस्त्वौपवस्त्रं ब्रह्मयज्ञादयस्तु ये ।एते पञ्च महायज्ञाः स्वाध्यायस्तु जपः श्रुतेः ॥ ११९२ ॥
3.2.1192 · p. 146
अनुष्टुप्
वृत्ताध्ययनवान् ब्रह्मवर्चसी सत्यवाक् शुचिः ।ऋषिस्त्रिकालसंदर्शी मुनिर्वाचंयमो व्रते ॥ ११९३ ॥
3.2.1193 · p. 146
अनुष्टुप्
स्यात् कृताभिषवः सुत्वा श्रोत्रियच्छान्दसौ समौ ।अध्यापक उपाध्याय आचार्यो देशिको गुरुः ॥ ११९४ ॥
3.2.1194 · p. 147
अनुष्टुप्
स्युर्दक्षणीयदक्षिण्यदक्षिणार्हास्त्रयस्त्रिषु ।ब्रह्मचारी व्रती वर्णी स्नातकश्चाप्लुतः समौ ॥ ११९५ ॥
3.2.1195 · p. 147
अनुष्टुप्
स्यातां क्रतौ कुण्डपाय्यसंचाय्यावथ पावके ।परिचाय्योपचाय्यौ च समूह्यश्च प्रयोगिणः ॥ ११९६ ॥
3.2.1196 · p. 147
अनुष्टुप्
आश्रमा ब्रह्मचर्याद्या व्रतार्थं स्थण्डिलेशयः ।स्यात् स्थाण्डिलोऽथ विरजस्तमसः स्युर्द्वयातिगाः ॥ ११९७ ॥
3.2.1197 · p. 147
अनुष्टुप्
स्यात् सुत्याभिषवो दर्शपूर्णमासौ क्रतौ पृथक् ।पक्षान्तयोरनूचानः साङ्गाधीतश्रुतिर्गुरोः ॥ ११९८ ॥
3.2.1198 · p. 147
अनुष्टुप्
सर्वांहश्छेदि यज्जप्यं त्रिषु स्यादधमर्षणम् ।अभाषणं तु मौनं स्यात् कुण्डं त्वनलगर्तके ॥ ११९९ ॥
3.2.1199 · p. 147
अनुष्टुप्
हवित्री हवने च द्वे तत्रैव परिवर्तुले ।त्रिकूटं तु त्रिकोणेऽस्मिन् संप्रदायो गुरुक्रमः ॥ १२०० ॥
3.2.1200 · p. 147
अनुष्टुप्
संप्रदायादविच्छिन्नं पारंपर्योपदेशनम् ।ऐतिह्यमितिहालिङ्गे व्रतिनामासनं बृसी ॥ १२०१ ॥
3.2.1201 · p. 147
अनुष्टुप्
व्यजनं तद्धवित्रं स्याद्यत् कृतं मृगचर्मणा ।परिपाटिः स्त्रियामावृदानुपूर्व्यनुपात्ययः ॥ १२०२ ॥
3.2.1202 · p. 147
अनुष्टुप्
अनुक्रमश्च पर्यायः स्यात् पर्यय उपात्ययः ।निपाठो निपठः पाठः पठनाध्ययने समे ॥ १२०३ ॥
3.2.1203 · p. 148
अनुष्टुप्
अधीयानोपकुर्वाणगायत्रास्तु समास्त्रयः ।संसारमुक्तिः प्रव्रज्या निर्जितात्मा यतिर्यती ॥ १२०४ ॥
3.2.1204 · p. 148
अनुष्टुप्
पाराशरी तु कर्मन्दी परिव्राण्मस्करी च सः ।वैखानसो वनेवासी वानप्रस्थश्च तापसः ॥ १२०५ ॥
3.2.1205 · p. 148
अनुष्टुप्
चतुर्थकालभुग्भिक्षुर्वृष्णिरष्टमकालभुक् ।वर्षवातातपक्लेशसहनोऽभ्रावकाशिकः ॥ १२०६ ॥
3.2.1206 · p. 148
अनुष्टुप्
ब्राह्मणस्तु पदैकेन व्रते तिष्ठञ्शिवव्रती ।रुद्रव्रती क्षत्रियश्चेद्वाताहारस्त्वहिव्रती ॥ १२०७ ॥
3.2.1207 · p. 148
अनुष्टुप्
मत्स्यव्रती जले तिष्ठंस्तृणशय्यस्तु वर्णशः ।भूमौ विपरिवृत्यास्ते यः स पातालमूलिकः ॥ १२०८ ॥
3.2.1208 · p. 148
अनुष्टुप्
छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।एकब्रह्मव्रता एते मिथः सब्रह्मचारिणः ॥ १२०९ ॥
3.2.1209 · p. 148
अनुष्टुप्
सतीर्थ्यास्ते स्युरेकस्माद्गुरोर्विद्यास्वधीतिनः ।पतितः सत्पथाद्भ्रष्टो ब्रह्मबन्धुर्द्विजाधमः ॥ १२१० ॥
3.2.1210 · p. 148
अनुष्टुप्
जातिमात्रोपजीवो यः स एव ब्राह्मणब्रुवः ।अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ॥ १२११ ॥
3.2.1211 · p. 148
अनुष्टुप्
शठो मिथ्याविनीतश्च यः एव बकव्रती ।डाम्भिकश्छाद्मिको लुब्धो हिंस्रः सर्वार्थवञ्चकः ॥ १२१२ ॥
3.2.1212 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धर्मध्वजी स्वार्थपरः स्याद्बिडालव्रती द्विजः ।प्रच्छन्नं पातकं कुर्वन् व्रतचर्याभिरात्मनः ॥ १२१३ ॥
3.2.1213 · p. 149
अनुष्टुप्
यः कुक्कुटव्रती स स्यादस्वाध्यायो निराकृतिः ।संस्कारवर्जितो व्रात्यः प्रणष्टाग्निस्तु वीरहा ॥ १२१४ ॥
3.2.1214 · p. 149
अनुष्टुप्
कन्याया दृष्टपुष्पाया विवोढा वृषलीपतिः ।स वीरोज्झोऽग्निहोत्राग्नौ वत्सरं न जुहोति यः ॥ १२१५ ॥
3.2.1215 · p. 149
अनुष्टुप्
अग्निमिहोत्रच्छलाद्यश्च परो वीरोपजीवकः ।चीरविप्लावको जुह्वद्यः शुद्रोपार्जितैर्धनैः ॥ १२१६ ॥
3.2.1216 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वेदोज्झो वेदविस्मृत्या स नग्नो यो निरग्निकः ।पर्याधाता कृताधानो योऽग्रजन्मन्यनग्निके ॥ १२१७ ॥
3.2.1217 · p. 149
अनुष्टुप्
पर्याहितः स्यात् स ज्यायानयज्वन्यग्रजेऽनुजः ।परियष्टा सोमयाजी स तु ज्यायान् परीष्टकः ॥ १२१८ ॥
3.2.1218 · p. 149
अनुष्टुप्
यज्ञत्यागी वृथाजातोऽपञ्चयज्ञो मलिम्लुचः ।परिवेत्ताग्रजेऽनूढे कनिष्ठो दारसंग्रही ॥ १२१९ ॥
3.2.1219 · p. 149
अनुष्टुप्
परिवित्तिस्तु तज्ज्यायान् परिवित्तः कुरी च सः ।पुनर्भूः पुनरूढा स्यादूर्मिला त्यक्तभर्तृका ॥ १२२० ॥
3.2.1220 · p. 149
अनुष्टुप्
अग्रजायामनूढायामूढा भर्तुः परेयुषः ।कनिष्ठगा द्विरूढा च दिधिषूः पतयः क्रमात् ॥ १२२१ ॥
3.2.1221 · p. 149
अनुष्टुप्
तासां दिधिष्वग्रदिधिष्वग्रेदिधिषवस्त्रयः ।यस्मिन्नुदेति सुप्तेऽर्को यस्मिन् सुप्तेऽस्तमेति च ॥ १२२२ ॥
3.2.1222 · p. 150
अनुष्टुप्
तौ द्वौ स्यातामभ्युदिताभिनिर्मुक्तौ यथाक्रमम् ।गुरुदाराभिगामी तु योऽसौ स्याद्गौरुदारिकः ॥ १२२३ ॥
3.2.1223 · p. 150
अनुष्टुप्
परदारंगमी पारदारिकः पारतल्पिकः ।शिक्षा तु विद्योपादानं संस्काराद्ग्रहणं श्रुतेः ॥ १२२४ ॥
3.2.1224 · p. 150
अनुष्टुप्
उपाकरणमाम्नायो गुणो गुणनिका स्त्रियाम् ।दण्डः पालश आषाढो व्रते राम्भस्तु वैणवः ॥ १२२५ ॥
3.2.1225 · p. 150
अनुष्टुप्
स्यात्तु सारस्वतो बैल्व औदुम्बर उलूखलः ।मौञ्जी तु मेखला सा तु मौर्वी स्यादेकमेखला ॥ १२२६ ॥
3.2.1226 · p. 150
अनुष्टुप्
छन्दांसि गायत्र्यादीनि कुण्डी त्वस्त्री कमण्डलुः ।ज्ञानमाद्यमुपज्ञा स्यात् परमान्नं तु पायसम् ॥ १२२७ ॥
3.2.1227 · p. 150
अनुष्टुप्
हव्यकव्ये दैवपित्र्ये अन्ने दान्तस्तपःक्षमः ।भैक्षं भिक्षासमूहे स्यात् समौ भिक्षाकभिक्षुकौ ॥ १२२८ ॥
3.2.1228 · p. 150
अनुष्टुप्
गोष्ठी समज्या परिषत् सभासमितिसंसदः ।स्त्रियां वा स्थानसदसी सदस्या विधिदर्शिनः ॥ १२२९ ॥
3.2.1229 · p. 150
अनुष्टुप्
ते तु सभ्याः सभास्तारा अमृतं यज्ञशेषके ।चौलं तु भद्राकरणं वपनं परिवापणम् ॥ १२३० ॥
3.2.1230 · p. 150
अनुष्टुप्
क्षौरं तत् सशिखं तोधं निःशिखं भिक्षुलोचकम् ।शिखावानवचूडः स्यात् पञ्चचूडस्तु सारणः ॥ १२३१ ॥
3.2.1231 · p. 150
अनुष्टुप्
अशिखो मुण्डितो मुण्डः पौंस्नपुंसवने समे ।विवाहोपयमोद्वाहोपयामा दारसंग्रहःपाणिग्रहः परिणयो निवेशः पाणिपीडनम् ॥ १२३२ ॥
3.2.1232 · p. 151
अनुष्टुप्
तत्प्रभेदास्त्वमी ब्राह्मप्राजापत्यार्षकासुराः ।अपि गान्धर्वपैशाचराक्षसा अथ कौतुकम् ॥ १२३३ ॥
3.2.1233 · p. 151
अनुष्टुप्
हस्तसूत्रं प्रतिसरो दायो हरणयौतके ।विगतान्यानुरक्ता स्यान्नष्टा तु स्पृष्टमैथुना ॥ १२३४ ॥
3.2.1234 · p. 151
अनुष्टुप्
स्विद्यत्पाणिपदा वर्षकारी कुब्जा तु कारिका ।कारीकन्या प्रसूजाता नतजानुस्तु सिंहिका ॥ १२३५ ॥
3.2.1235 · p. 151
अनुष्टुप्
विस्तीर्णजानुर्विकटा हरिता पतितात्मजा ।अथाजीवदपत्याया मातुः कन्या विदूषिता ॥ १२३६ ॥
3.2.1236 · p. 151
अनुष्टुप्
सांकारिका बन्धुकुले गरपावकदायिनी ।स्रोता पिङ्गलदृक्केशा स्वल्पदेहा मसूषिका ॥ १२३७ ॥
3.2.1237 · p. 151
अनुष्टुप्
शरभा तु विशीर्णाङ्गी राता विहृतिचञ्चला ।अरणिस्तु स्पृहापाली वृषभा वृषलक्षणा ॥ १२३८ ॥
3.2.1238 · p. 151
अनुष्टुप्
कोहरा मुखरा पाली जडा गुप्ता तिरोहिता ।खण्डना तु पतिघ्नी स्यात् पृषता श्वेतबिन्दुका ॥ १२३९ ॥
3.2.1239 · p. 151
अनुष्टुप्
धृष्टा प्रवाणिका व्यङ्गा निकृष्टा कुत्सिताहिता ।नाम्नैव दूषिता हारी मित्रा सर्वानुकूल्यभाक् ॥ १२४० ॥
3.2.1240 · p. 152
अनुष्टुप्
विकृताधा(विगताद्या?)स्तु नोद्वाह्याः कन्याः सर्वा हितैषिभिः ।यष्टिर्द्वयोः स्त्रियां मीना खनित्री तु विशाखिका ॥ १२४१ ॥
3.2.1241 · p. 152
अनुष्टुप्
बद्धदर्भा देवयष्टिश्चर्या त्वीर्यापथे स्थितिः ।व्रज्याटाट्याटनं क्लीबे त्वक्षरं वर्णमस्त्रियाम् ॥ १२४२ ॥
3.2.1242 · p. 152
अनुष्टुप्
स्पर्शाः स्युः कादयः पञ्चविंशतिर्मावसानकाः ।स्त्रियोऽन्तस्था यरलवास्त्रिलिङ्गस्त्वनुनासिकः ॥ १२४३ ॥
3.2.1243 · p. 152
अनुष्टुप्
स्युरूष्माणः शषसहा रेफो रः स्युरचः स्वराः ।मुखे शोभा श्रुतेः पाठे शाली चित्रायनीति च ॥ १२४४ ॥
3.2.1244 · p. 152
अनुष्टुप्
ब्रह्माञ्जलिः स्वञ्जलिः स्याद्विप्रूषो ब्रह्मबिन्दवः ।कल्पो विधिः क्रमो मुख्यः प्रथमः कल्प इत्ययम् ॥ १२४५ ॥
3.2.1245 · p. 152
अनुष्टुप्
अनुकल्पस्तदधमः पूजा त्वर्चार्हणार्चना ।समा नमस्यापचितिः सपर्या च पुरस्क्रिया ॥ १२४६ ॥
3.2.1246 · p. 152
अनुष्टुप्
महोऽञ्चनमुपास्तिस्तु भक्तिः सेवा समाश्रयः ।आप्लाव आप्लवः स्नानमवगाहनमज्जने ॥ १२४७ ॥
3.2.1247 · p. 152
अनुष्टुप्
मानसाग्नेयवायव्यब्राह्मवारुणपार्थिवम् ।दिव्यं च कापिलं चेति स्नानमेदाः स्युरष्टधा ॥ १२४८ ॥
3.2.1248 · p. 152
अनुष्टुप्
वितीर्णिरंहतिस्त्यागोऽतिसर्गः प्रतिपादनम् ।उत्सर्जनं वितरणं विश्राणनविसर्जने ॥ १२४९ ॥
3.2.1249 · p. 153
अनुष्टुप्
अपवर्जनदाने च स्पर्शनं च प्रदेशनम् ।मृतस्नानमपस्नानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ १२५० ॥
3.2.1250 · p. 153
अनुष्टुप्
मृतार्थं तदहर्दानं श्राद्धं तत्कर्म मन्त्रवत् ।निवापः पितृदानं स्यादन्वाहार्यं तु मासिकम् ॥ १२५१ ॥
3.2.1251 · p. 153
अनुष्टुप्
मूले कनिष्ठयोर्मध्ये तर्जन्यङ्गुष्ठयोरधः ।अङ्गुष्ठस्य कराग्रे च तीर्थानि स्युर्यथाक्रमम् ॥ १२५२ ॥
3.2.1252 · p. 153
अनुष्टुप्
प्रजापतिपितृब्रह्मदेवानामथ न द्वयोः ।उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे ॥ १२५३ ॥
3.2.1253 · p. 153
अनुष्टुप्
प्राचीनावीतमन्यस्मिन् निवीतं कण्ठलम्बितम् ।अध्येषणार्थना याच्ञाभिशस्तिः सनिरर्दनम् ॥ १२५४ ॥
3.2.1254 · p. 153
अनुष्टुप्
भिक्षा च याचना शंसा शासनं विचयो मृगः ।मार्गः परीष्टिरन्विष्टं मृगणान्वेषणा तथा ॥ १२५५ ॥
3.2.1255 · p. 153
अनुष्टुप्
पर्येषणा चान्वीक्षा च पाद्यं पादाय वारि यत् ।अतिथ्यर्थं यदातिथ्यमातिथेयोऽत्र साधुनि ॥ १२५६ ॥
3.2.1256 · p. 153
अनुष्टुप्
त्रिष्वथातिथिरागन्तुः सर्वातिथ्यं करोति यः ।स तु सर्वातिथिः पादग्रहणं त्वभिवादनम् ॥ १२५७ ॥
3.2.1257 · p. 153
अनुष्टुप्
उपस्पर्शस्त्वाचमनमपचारस्त्वपक्रिया ।हिंसाकर्माभिचारः स्यादासनं स्वस्तिकादिकम् ॥ १२५८ ॥
3.2.1258 · p. 153
अनुष्टुप्
कार्तान्तिकमौहूर्तिकमौहूर्तज्ञानिगणकदैवज्ञाः ।सांवत्सरमौहूर्तौ ज्योतिषिकोऽर्थवति गणितसंख्याते ॥ १२५९ ॥
3.2.1259 · p. 154
गीतिः
विंशत्याद्यास्त्वा नवतेः स्त्रियामेकवचस्यमूः ।एकस्मादापरार्धं स्यात् स्थानं दशगुणं यथा ॥ १२६० ॥
3.2.1260 · p. 154
अनुष्टुप्
एकः पङ्क्तिर्दश शतं सहस्रमयुतं तथा ।नियुतं प्रयुतं कोटिरर्बुदं न्यर्बुदाब्जके ॥ १२६१ ॥
3.2.1261 · p. 154
अनुष्टुप्
खर्वो निखर्वः शङ्खश्च पद्मं ना तु समुद्रकः ।मध्यमन्तं परार्धं च पदानि गणनाविधौ ॥ १२६२ ॥
3.2.1262 · p. 154
अनुष्टुप्
एवमष्टादशैतानि संख्या तु गणना समे ।अक्षरचुञ्चुं लिपिकरमक्षरचणमपि तमक्षराधिकृतम् ॥ १२६३ ॥
3.2.1263 · p. 154
अनुष्टुप्metre not read in every line
लेखकमाहुः स्त्री लिपिरपि लिबिरालिखितवर्णविन्यासे ।त्रिभिर्धर्मार्थकामैः स्यात् त्रिवर्गस्तैः समोक्षकैः ॥ १२६४ ॥
3.2.1264 · p. 154
अनुष्टुप्metre not read in every line
चतुर्वर्गोऽथ सबलैस्तैश्चतुर्भद्रमित्यपि ॥ १२६५ ॥
3.2.1265 · p. 154