कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विशिखा

viśikhāस्त्री · fem.

In 16 kośas: 16 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.981 · p. 39
पूर्द्वारे गोपुरं रथ्याप्रतोलीविशिखाः समाः ॥ ९८१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.3
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.289 · p. 35
प्रतोली विशिखा रथ्या मुखं निःसरणं स्मृतम् ।शृङ्गाटकः पथां श्लेषः संस्थानं तु चतुष्पथम् ॥ २८९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.29 · p. 11
अथ वैदर्भपर्यायं कुण्डिनं कुण्डिनापुरम् ।रथ्या प्रतोली विशिखा नगराभ्यन्तरायनम् ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.17 · p. 462
संवर्त्तिका हसनिका स्रविका च हसन्तिका ।परिखोखा शिखा शाखा विशिखा च सुरङ्गया ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.23 · p. 121
रथ्या प्रतोली विशिखा निषद्या हट्ट आपणः ।क्रयारोहो महाघोषं जन्यं ग्राममुखं च तत् ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 81 · p. 41
स्वान्तमास्वनितं चित्तं चेतोऽन्तःकरणं मनः ।हृदयं विशिखाऽकूतं मारस्तत्रोद्भवो मतः ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.264 · p. 37
कपिशीर्षं तु वप्राग्रं क्षोमाट्टाट्टालकाः समाः ।प्रतोल्यां गोपुरं रथ्या विशिखापि तथोच्यते ॥ २६४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.46 · p. 216
जलौका केणिका वालुकेषीका च विहङ्गिका ।इषिका तु शलाका च परिखा विशिखा शिखा ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.126 · p. 17
अप्येवमुत्तरायाश्च चित्रा चित्ता च चित्रिणी ।स्वाती स्त्रीपुंसयोः प्रोक्ता विशाखा विशिखा द्वयोः ॥ १२६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.14 · p. 26
रथमार्गे तु विशिखा मुण्डी तोली प्रतोलिका ।प्राकाराधारभूमौ स्याच्चयः पुञ्जश्च भीषणम् ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.37 · p. 37
वप्रः शालः कोट्टदुर्गौ प्राकारो वरणश्चयः ।प्रतोली विशिखा रथ्या पुरद्वारं च गोपुरम् ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1682 · p. 270
प्रतोली विशिखा रथ्या रथ्यानाम त्रयमिदम् ॥ १६८२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.7 · p. 50
प्रतोली विशिखा रथ्या ग्रामाभ्यन्तरवर्त्मनि ।स्याच्चयो वप्रमस्त्री तु मृत्तिका स्तूप उच्यते ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.840 · p. 106
हट्टस्तु पण्यभूमिः स्याज्जुटङ्को लवणापणः ।प्रतोली विशिखा रथ्या बहिर्द्वास्ततोरणोऽस्त्रियाम् ॥ ८४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.16 · p. 160
रथ्या प्रतोली विशिखाप्युपरथ्या तु दर्शनी ।राजमार्गे संसरणं श्रीघण्टाभ्यां पथः परः ॥ १६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास खार्धश्लोकः Dharaṇikośa 2.2.5 · p. 20
विशिखा खनित्री रथ्या विशिखो बाण उच्यते ।गोमुखं वाद्यभाण्डे स्यात्तथा गोमयलेपने ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ खान्ताः Koṣakalpataru 6.2.83 · p. 161
स्याद्गोमुखं तोमरबाणयोस्तुकोशप्रवीणैर्विशिखः प्रदिष्टः ।रथ्याखनित्रीनलिकासु तु स्त्रीमयूखमर्च्चिःकरभासु चाहुः ॥ ८३ ॥
उपजातिः
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.51 · p. 109
आदौ प्रधाने प्रमुखं वैशाखो मन्थमासयोः ।काण्डे ना विशिखा रथ्या विशाखा भे गुहे पुमान् ॥ ५१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.81 · p. 263
विशिखा तु खनित्री च क्ली चित्ते ना त्वसौ शरे ।विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि ॥ ८१ ॥
अनुष्टुप्

विशिखा as a meaning in nānārtha verses