कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नदीकान्ता

nadīkāntāस्त्री · fem.

In 6 kośas: 3 synonym verses, 3 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.508 · p. 306
काकजङ्घा नदीकान्ता दासी काकाह्वया पुनः ।पारावतपदी चाथ चञ्चुश्चञ्चूश्च विंजुला ॥ ५०८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.93 · p. 175
पारावताङ्घ्रिश्च नदीकान्ता प्राचीबलः पुमान् ।काकमाची तु कामाची कामाता जघनेफला ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.268 · p. 146
नदीकान्ता नद्याख्या च पारापतपदीत्यपि ।काकनासायां सुरङ्गा वायसी वायसाङ्गिका ॥ २६८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.279 · p. 197
नदीकान्ता लताकाकजङ्घयोरथ निर्वृतौ ।स्मृतं निःशरणं मृत्यावुपाये तालभिद्यपि ॥ २७९ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र तच Śivakoṣa 12.3.203 · p. 19
नदीकान्तः पुमान् सिन्दुवारके हिज्जलेऽपि च ।नदीकान्ता काकमाचीजम्बूभिद्वायसीषु च ॥ २०३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.164 · p. 225
नदीकान्ता भवेज्जम्ब्व्यां काकजङ्घौषधौ स्त्रियाम् ।नागदन्तो हस्तिदन्ते गृहनिर्गतदारुणि ॥
अनुष्टुप्