All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · नकारादयः
अथ नकारादयो यथा ।
नाडी दम्भस्य चर्यायां नाले स्नायौ गुणान्तरे ।न्यङ्कुस्ताले मृगे साधौ नखो नखरखण्डयोः ॥ २६० ॥
5.18.260 · p. 195
अनुष्टुप्
नागः सर्पे गजे नागकेसरे मुस्तकान्तरे ।शब्दोत्तरस्थितः श्रेष्ठे शरीरपवनान्तरे ॥ २६१ ॥
5.18.261 · p. 195
अनुष्टुप्
स्वर्गे व्योम्नि मतो नाको नीचः पामरखर्वयोः ।नाकुर्मुनीश्वरे रन्ध्रे पर्वते कृमिपर्वते ॥ २६२ ॥
5.18.262 · p. 195
अनुष्टुप्
निष्को हृद्भूषणे स्वर्णे दीनारस्नानयोरपि ।नभा घ्राणे बिसे मासभेदेऽथ स्यान्नभोऽम्बरम् ॥ २६३ ॥
5.18.263 · p. 195
अनुष्टुप्
नाभिः क्षत्रियचक्राङ्गदेहाङ्गेष्वपि कथ्यते ।नदो वाहे ह्रदे वार्धिरावयोर्नेत्रमंशुके ॥ २६४ ॥
5.18.264 · p. 195
अनुष्टुप्
वृक्षमूले मृगे नेत्रे नन्दिर्द्युते गणान्तरे ।हर्षे नन्दी वटे गर्दभाण्डे शंकरवेत्रिणि ॥ २६५ ॥
5.18.265 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्द्यु (wrong syllable)
नन्दा तिथ्यन्तरे वाचि मणिकेऽथ नलं कजे ।पितृदेवे कपौ वृक्षे नालं काण्डमृणालयोः ॥ २६६ ॥
5.18.266 · p. 196
अनुष्टुप्
नेमः कालेऽवधौ गर्तदम्भयोर्वरणेऽपि च ।नेमिर्वृक्षे प्रधौ निन्दापवादे निन्दने स्मृता ॥ २६७ ॥
5.18.267 · p. 196
अनुष्टुप्
निभो दम्भे समाने च नरः कर्पूररामयोः ।अर्जुने केशवे मर्त्ये नूनं निश्चयतर्कयोः ॥ २६८ ॥
5.18.268 · p. 196
अनुष्टुप्
नगो भूध्रे तरौ नाम कुत्साख्यामन्त्रणेष्वथ ।निर्वेशो मूर्च्छने स्तूपभोगेऽथ निगमः पुरे ॥ २६९ ॥
5.18.269 · p. 196
अनुष्टुप्
वणिङ्मार्गे श्रुतौ मार्गे निकायो गणलक्षयोः ।निसर्गस्तु स्वरूपे स्याद्विश्वनिर्माण एव च ॥ २७० ॥
5.18.270 · p. 196
अनुष्टुप्
निर्वातस्तु गते वाते गाढसंनाहसद्यनोः ।निर्यूहः शेखरे नागदन्तनिर्यासयोरपि ॥ २७१ ॥
5.18.271 · p. 196
अनुष्टुप्
निष्क्रमो निर्गमेऽकुल्ये निकृतोऽन्यत्कृतेऽधमे ।नायको रत्नभेदे स्पात्प्रधानस्वामिनोरपि ॥ २७२ ॥
5.18.272 · p. 196
अनुष्टुप्
नियमोऽथावधौ ज्ञाने व्रते निश्चयबन्धयोः ।नालिका चुल्हिकारन्ध्रे बिलकालविशेषयोः ॥ २७३ ॥
5.18.273 · p. 196
अनुष्टुप्
निर्वाणं तु शिवे दन्तिमज्जने च विनाशने ।नर्तको द्विरदे मत्स्ये नृत्यकर्तरि सम्मतः ॥ २७४ ॥
5.18.274 · p. 197
अनुष्टुप्
निस्त्रिंशः परुषे खड्गे निषधः स्वरदेशयोः ।निवेशो रचनानीकविवाहेषु पुरेऽप्यथ ॥ २७५ ॥
5.18.275 · p. 197
अनुष्टुप्
नन्दकोऽसौ मुकुन्दस्य हर्षके कुलपालके ।निर्ग्रन्थः कदलीसाले निर्धने श्रमणेऽपि च ॥ २७६ ॥
5.18.276 · p. 197
अनुष्टुप्
निर्वृतिर्मोक्षमृत्योः स्यात्स्वास्थ्येऽपि परिकीर्तितम् ।[27] नागवारिक आख्यातो खगेशे चित्रमेखले ॥ २७७ ॥
5.18.277 · p. 197
अनुष्टुप्
नारायणो हरौ तालभेदे नारायणी श्रियाम् ।नदीकान्तोऽम्बुधौ वृक्षविशेषेऽपि निबध्यते ॥ २७८ ॥
5.18.278 · p. 197
अनुष्टुप्
नदीकान्ता लताकाकजङ्घयोरथ निर्वृतौ ।स्मृतं निःशरणं मृत्यावुपाये तालभिद्यपि ॥ २७९ ॥
5.18.279 · p. 197
अनुष्टुप्
निशाचरस्तु जम्बूकरक्षसोश्चौरसर्पयोः ।नन्द्यावर्तं पुरे वृक्षे गेहभेदेऽपि दृश्यते ॥ २८० ॥
5.18.280 · p. 197
अनुष्टुप्
निराकृतिर्द्विजे वेदहीने भर्त्सन एव च ।नारकीटो दृषत्कीटे मित्रद्रोहकरे नरे ॥ २८१ ॥
5.18.281 · p. 197
अनुष्टुप्
ईक्षणे श्रवणे वापि स्मृतं निशमनं बुधैः ।नीलकण्ठो हरे केकिखञ्जरीटपिकेष्वपि ॥ २८२ ॥
5.18.282 · p. 198
अनुष्टुप्