जम्बू
jambūस्त्री · fem.In 16 kośas: 21 synonym verses, 4 as a nānārtha head word, 6 as a meaning of another word.
बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ।पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
श्वशाल्मलीः कूटफलः सिद्धिदा लोकमोहिनी ।जम्ब्वां त्रिसारा विरुजा भल्लातक्यग्निमुख्यका ॥ २२३ ॥
अनुष्टुप्
genderस्त्रीfem.
वार्ताकवार्तवार्ताकुवार्ताक्यः स्युः समा इह ।नान्तवार्तकिशब्दश्च जम्बूः स्त्री जम्बुजाम्बवम् ॥ १३० ॥
अनुष्टुप्
genderस्त्रीfem.
जम्बूस्त्रिसारा विरुजा तत्फलं रक्तखण्डकम् ।चिञ्चा नारी कपिपुरोवृक्षाम्लं तत्फलं मतम् ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदादि च ।बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
तत्पर्यायफलार्थं स्यात्पुण्डरीकं च तत्समम् ।स्त्रियां जम्बूर्महास्कन्धा राजार्हाऽऽमोदमोदिनी ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुपुष्करा चातिचरा रक्तपुष्पा तु जाम्बती ।जम्बूर्जाम्बवती वृक्का दुर्द्धर्षा दुःसहा च सा ॥ ५६२ ॥
अनुष्टुप्
genderस्त्रीfem.
कृतमाला ताम्रपर्णी पुष्यभद्रोत्पलावती ।क्षमा जम्बूर्वेत्रवती सुभद्रा मन्दवाहिनी ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
गोलावडिशयोश्छर्दिजम्ब्वलावूषसामपि ।गुणदामार्चिसदसां सरसां चोडुना सह ॥ १३४ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
स्वलिङ्गाः सूरणाद्याः स्युः कन्दे जम्ब्वास्तु जाम्बवम् ।जम्बु क्लीबे स्त्रियां जम्बूः फलं जम्बूस्तु तज्जय(?) ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्षपाकी तनुक्षीरः शुङ्गी स्यादम्लवाटकः ।फलीशको दुःफलः स्यात्स्त्री तु जम्बूश्च जम्बुवत् ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
श्योनाकः शोनको जम्बूः शुकनाशः कटंभरः ।मयूरजङ्घः कट्वङ्गः सल्लकः प्रियजीवकः ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
गन्धपत्रो नीलफलो जम्बू नीरान्तराजरः ।आम्रो रसालः कामाङ्गो माकन्दः पिकवल्लभः ॥ १५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
genderस्त्रीfem.
जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रोञ्चाभिधस्तथा ।शाकद्वीपः पुष्कराख्यः सप्त द्वीपा इमे स्मृताः ॥ १२४ ॥
अनुष्टुप्
genderस्त्रीfem.
वार्हतञ्च फलेऽश्वत्थप्रभृतीनां महीरुहाम् ।जम्बूफले तु जम्बूः स्त्री जम्बुजाम्बरमित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
श्रेणिः श्रोणिश्च धमनिवर्त्तनिस्तरणिस्तरौ ।तनूर्जम्बूश्चमूरत्तर्दूः कर्कन्धूर्वाधिता द्वयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
जम्बूवृक्षे जम्बुरपि तत्फले जम्बु-जाम्बवे ।जम्बूः स्त्री स्यादरलौ त्वरेटुः श्योनावशोणकौ ॥ २०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderस्त्रीfem.
जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः ।द्वीपवृक्षा इमे सप्त द्वीपास्तन्नामपूर्वकाः ।नीवृज्जनपदौ देशविषयौ राष्ट्रमण्डले ॥ ३७५ ॥
अनुष्टुप्
genderस्त्रीfem.
पुष्पे स्वलिङ्गा जात्याद्याः पुष्पे क्लीबे च पाटला ।विदार्याद्यास्तु मूलेऽपि जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५६ ॥
अनुष्टुप्
genderस्त्रीfem.
केतुमालममूनि स्युर्भुवो वर्षाणि वै नव ।जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
अश्वत्थमैंगुदं प्लाक्षं नैयग्रोधं च बार्हतम् ।वैणवं शैग्रवं चाथ जम्बूः स्त्री जम्बु जांबवम् ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
उल्बोऽस्त्रियां स्यात्कमले जरायौकम्बुः पुमान्स्याद्वलये गजे च ।शम्बूकके स्त्री तु न शङ्खवाचीजम्बूः स्त्रियां जम्बुरपि द्रुभेदे ॥ २९ ॥
इन्द्रवज्रा
meaningsद्रुभेद
द्वीपे च मेरोः सरिति स्त्रियां तुक्ली[28a]बे तथा जाम्बवनामनि स्यात् ।क[म्बिः] खजाकापि च वंशखण्डंतुम्बा तु लक्ष्म्यामपि तिक्ततुम्ब्याम् ॥ ३० ॥
इन्द्रवज्राmetre not read in every line
doubtful
जायतौ तु पुमांस्त्री तु जम्बूर्जम्बूटपादपे ।तत्फले जम्बु जम्बूश्च नस्त्रियोः स्यादथ द्वयोः ॥ ४६६ ॥
अनुष्टुप्
meaningsजम्बूटपादप
जम्बूः स्त्री वृक्षभिन्मेरुद्वीपभेदनदीषु च ॥
जम्बू as a meaning in nānārtha verses
- धरणिकोश जम्बुलजम्बुलौ केतकीजम्बू जम्बालौ पङ्कशैवलौ । जटिला पिप्पलीमांस्योः पिच्छिलौ विजिलझावुकौ ॥ Dharaṇikośa 27.1.8
- कल्पद्रुकोशः सुदर्शनभकनीनिकयोस्तारो वराटो रज्जुशस्त्रयोः । भेऽश्लेषहस्तश्रवणाः मेरुजम्ब्वां सुदर्शनः ॥ ११२ ॥ Kalpadrukośa 3.5.112
- नानार्थार्णवसंक्षेप भ्रमरेष्टभ्रमरेष्टस्तु पुंस्याम्रे नीपे जम्बूटपादपे । पूर्ववत् स्यात् समासादि भारद्वाजः पुनर्द्वयोः ॥ ४३२ ॥ Nānārthārṇavasaṃkṣepa 6.432
- शब्दरत्नावली नदीकान्तानदीकान्ता भवेज्जम्ब्व्यां काकजङ्घौषधौ स्त्रियाम् । नागदन्तो हस्तिदन्ते गृहनिर्गतदारुणि ॥ Śabdaratnāvalī 7.16.164
- त्रिकाण्डशेष नदीकान्तअस्वाध्याये कुरूपे च प्रत्युक्तौ स्त्री निराकृतिः । जम्ब्वां स्त्री ना नदीकान्तः सिन्धुवारे जलाब्धिषु ॥ १६२ ॥ Trikāṇḍaśeṣa 3.3.162
- वैजयन्ती भ्रमरेष्टभ्रमरेष्टालिप्रियाद्या आम्रे जंबृकनीपयोः । वतंसोत्तंसावतंसाः कर्णपूरेऽपि शेखरे ॥ ५९ ॥ Vaijayantī 8.1.59