कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

तान्ताः · तच

अतिमुक्तस्तु माधव्यां कालस्कन्धे रथद्रुमे ।अंशुमान् भास्करे शालिपर्ण्यामंशुमती मता ॥ १९८ ॥
12.3.198 · p. 19
अनुष्टुप्
ऋष्यप्रोक्ता शतावर्यां शूकशिम्ब्यां बलाभिदि ।ऐरावतो नागरङ्गद्रुमेऽपि लकुचद्रुमे ॥ १९९ ॥
12.3.199 · p. 19
अनुष्टुप्
कलधौतं सुवर्णे स्याद्रजतेऽपि नपुंसकम् ।कृष्णवृन्ता माषपर्णीकाश्मरीपाटलासु च ॥ २०० ॥
12.3.200 · p. 19
अनुष्टुप्
गारुत्मतं मरकते गरुडोद्गारकेऽपि च ।चन्द्रकान्तो मणेर्भेदे चन्द्रकान्तं तु कैरवे ॥ २०१ ॥
12.3.201 · p. 19
अनुष्टुप्
ज्योतिष्मती काकजङ्घाकङ्गुणिक्योरपि स्मृता ।तेजोवती वचातेजःपत्रीज्योतिष्मतीषु च ॥ २०२ ॥
12.3.202 · p. 19
अनुष्टुप्
नदीकान्तः पुमान् सिन्दुवारके हिज्जलेऽपि च ।नदीकान्ता काकमाचीजम्बूभिद्वायसीषु च ॥ २०३ ॥
12.3.203 · p. 19
अनुष्टुप्
नन्द्यावर्तो नते बर्हिशिखायां वेतसेऽपि च ।नागदन्ती मूषिकाह्वादन्तीन्द्राह्वाकुरूढके ॥ २०४ ॥
12.3.204 · p. 19
अनुष्टुप्
अथ प्रव्रजिता भूतजटायां भूकदम्बके ।पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे ॥ २०५ ॥
12.3.205 · p. 19
अनुष्टुप्
पारावती श्यामले ना जम्भीले कपितिन्दुके ।अथ पीतरक्त उदितो बाल्हीके पद्मके कुसुम्भे च ॥ २०६ ॥
12.3.206 · p. 19
metre not recognised
मदयन्ती मदनीयाप्रमोदिनीबालपुष्पासु ।वरतिक्ता पापचेल्यां ना त्वागस्त्ये च पर्पटे ॥ २०७ ॥
12.3.207 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 ष्पा (wrong syllable)
वनस्पतिर्ना द्रुमात्रे विनापुष्पं फलिद्रुमे ।व्याधिघातः पुमानारग्वधे च जलवेतसे ॥ २०८ ॥
12.3.208 · p. 20
अनुष्टुप्
विष्णुक्रान्ता नीलपुष्पीकटभ्यामलकीभिदि ।विकङ्कता मता चातिबलायां ना स्रुवोद्रुमे ॥ २०९ ॥
12.3.209 · p. 20
अनुष्टुप्
शतक्रतुर्मतः श्वेतकरवीरे च वत्सके ।समुद्रान्ता तु कर्पास्यां स्पृक्कायां च यवासके ॥ २१० ॥
12.3.210 · p. 20
अनुष्टुप्
सूर्यभक्तो बन्धुजीवे रविवल्ल्यां तु योषिति ।हैमवत्यतसीपथ्याहेमक्षीरवचासु च ॥ २११ ॥
12.3.211 · p. 20
अनुष्टुप्