कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चञ्चु

cañcuस्त्री · fem.

In 19 kośas: 26 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.138 · p. 50
विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तिशकुनौ विवयः शकुन्ताः ।नभसंगमो विकिरपत्त्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ ॥पित्सन्नीडाण्डजोगौकाश्चञ्चुश्चञ्चू सृपाटिका ।त्रोटिश्च पत्त्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः ।
metre not recognised
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.51
अरिमेदो विट्खदिरे कदरः खदिरे सिते ।सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः ।चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.36
स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.240 · p. 29
पेशीकोशः स्मृतोऽण्डश्च कुलायो नीड उच्यते ।चञ्चुश्चञ्चूस्तथा त्रोटिर्डयनं गगने गतिः ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
विहङ्गमो विहङ्गश्च विहगश्च समास्त्रयः ।पक्षः स्यात् पक्षसा साधं चञ्चुश्चञ्चुरुभे समे ॥ १५७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.327 · p. 285
उरुवुश्चोरुवूकोऽपि चञ्चुरुत्तानपर्णकः ।करपर्णः पञ्चनखस्तलुः स्निग्धोऽपि मस्करः ॥ ३२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.508 · p. 306
काकजङ्घा नदीकान्ता दासी काकाह्वया पुनः ।पारावतपदी चाथ चञ्चुश्चञ्चूश्च विंजुला ॥ ५०८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.198 · p. 339
स्त्रियां चञ्चुश्च चञ्चूश्च त्रोटिस्त्रोटी सृपाटिका ।स्त्री पक्षतिः पक्षती द्वे पक्षमूले छदोऽस्त्रियाम् ॥ १९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.45 · p. 466
शष्कुली च चमूर्दद्रूः कर्णान्दूरक्तुरित्यपि ।कच्छूस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.68 · p. 180
पालङ्क्या स्त्री तु चञ्चूः स्याच्चञ्चुश्चञ्चुक एव च ।तिलपर्णी कुन्तलिका नली बदर-बर्बरौ ॥ ६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 195
पतेरो विष्किरोऽण्डोत्थो वलूकाङ्गः कठाकवः ।वयोऽन्तिमेऽथ तुण्डं स्यात्सृपाटी त्रोटिरित्यपि ।चञ्चू-चञ्च्वौ गरुत्त्वस्त्री पुंसौ पक्ष-च्छदावुभौ ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.43 · p. 99
चञ्चा चर्चा सूचि-साच्यौ रुचिश्चवीचिश्चञ्चुस्त्वगृचौ स्रुग्वदर्वाक् ।कच्छा पिच्छा किं च कच्छू[श्च] राजि-र्मर्जूः खर्जूर्जूश्च सर्जूः प्रजोर्जौ ॥ ४३ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 5 स्त्व (wrong syllable)
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.153 · p. 84
पञ्चाङ्गुलो वर्द्धमान आमण्डो रुचको रुचुः ।व्याघ्रपुच्छो व्याघ्रतलश्चञ्चुरुत्तानपत्रकः ॥ १५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व्या (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.66 · p. 219
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.381 · p. 27
छदःपत्रं गरुत्पक्षं पतत्रं पुङ्खमाण्डजम् ।चञ्चुस्त्रोटिः चञ्चुकिका पक्षतिः पक्षमूलकम् ॥ ३८१ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.100 · p. 11
पक्षश्छदो गरुत्पत्रं पतत्रं च तनूरुहम् ।वाजोऽस्य पक्षतिर्मूलं चञ्चुस्त्रोटिः सृपाटिका ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2050 · p. 340
एरण्डो व्याघ्रपुच्छश्च चञ्चुः पञ्चाङ्गुलः पुनः ॥ २०५० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2382 · p. 384
चञ्चुश्चञ्चूस्तथा त्रोटिः सृपाटी च सृपाटिका ।पत्रं पिच्छं पतत्रञ्च वाजः तथा तनूरुहम् ॥ २३८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.102 · p. 64
चञ्चुस्तु मण्ड-आमण्डः प्राचीनामलकोऽपि च ।उरुवुको हस्तिकर्णो वातारिवर्धमानकौ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.98 · p. 89
स्त्रियश्चञ्चुश्च चञ्चूश्च त्रोटिस्त्रोटी च चञ्चुका ।प्रडीनोड्डीनसंडीनान्येताः पक्षिगतिक्रियाः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.346 · p. 246
स्मृपाटी चञ्चुश्चञ्चूवत् त्रोटिस्त्रोटी, तनूरुहे ।पिच्छं पिञ्छं पतत्रं च पत्रं पक्षो नरि स्मृतः ॥ ३४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्चु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.546 · p. 71
चञ्चुः पञ्चाङ्गुलामण्डौ रुबको वर्धमानकः ।व्याघ्रपुच्छो हस्तपर्णो वातघ्नस्तरुणोऽर्भकः ॥ ५४६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.823 · p. 104
अर्भकः पृथुको डिम्भः पाकः पोतः शिशुश्च सः ।पक्षिपोतस्तु पिल्लाकश्चञ्चुस्त्रोटिः सृपाटिका ॥ ८२३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 247 · p. 346
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अं Tantrābhidhāna 7.16.24 · p. 48
अं क्रूरो घण्टिका दण्डो बिन्दुकः समगुह्यकः ।चञ्चुः परिजयोनिश्च सौख्य-दुःख-प्रवर्तकाः ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.65 · p. 50
रुवुः पञ्चांगुलश्च ञ्चुरामण्डस्तरुणोऽम्बुकः ।गन्धर्वहस्तो रुवुको वातन्घो व्याघ्रपुच्छकः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास चार्धश्लोकः Dharaṇikośa 5.2.3 · p. 29
चञ्चुस्त्रोट्यां तथैवाण्डे गोनाडी चैव कीर्तितः ।मोचः शोभाञ्जने मोचा शाल्म[18]ली कदली तथा ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चान्ताः Koṣakalpataru 6.5.4 · p. 171
उरुबूके चञ्चुर्नापक्ष्यङ्गे स्त्री शुचिस्तु रागे स्यात् ।नाषाढे शृङ्गारेमन्त्रिणि शुद्धेऽनले ग्रीष्मे ॥ ४ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.408 · p. 77
चपले तु त्रिषु स्त्री तु चञ्चुस्त्रोटौ पतत्त्रिणः ।एरण्डे नाथ चर्मी ना भूर्जद्रौ शङ्करस्य च ॥ ४०८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश चान्ताः Śabdaratnāvalī 7.6.6 · p. 195
चञ्चुरेरण्डमृगयोः पुंसि त्रोटौ स्त्रियामपि ।त्वक् स्त्रियान्तु वल्कले स्यात् चर्मण्यपि गुडत्वचि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्तु (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1921 · p. 234
चूर्णिर्ग्रन्थे कपर्दे च चर्चा चार्चिक्यचिन्तयोः ।पाठे च चञ्चुरेरण्डे पुंसि पक्ष्यङ्गके स्त्रियाम् ॥ १९२१ ॥
अनुष्टुप्

चञ्चु as a meaning in nānārtha verses

  • कोषकल्पतरु त्रोटिकोटिः प्रकर्षे धनुरग्रके च कोणे च संख्याभिदि संप्रदिष्टा । त्रोटिस्तु चञ्च्वाम[271b]पि सोमवल्के पुमांस्तु मत्स्याण्डजभेदयोः स्यात् ॥ २२ ॥ Koṣakalpataru 6.10.22
  • शब्दरत्नावली त्रोटित्रोटिश्चञ्च्वां कटफले कन्ठे मीनभिदि स्त्रियाम् । दिष्टं दैवे तु काले ना दिष्टिः स्त्री हर्षमानयोः ॥ Śabdaratnāvalī 7.11.19