All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · वनौषधिवर्गः (5/15)
आवर्तकी रक्तपुष्पी महाजालिनिका च सा ।अपरा भूपैठरीकी मार्कण्डी मृदुरेचनी ॥अजशृङ्गी मेषशृङ्गी शक्रनेम्यहिदंष्ट्रिका ।महाकाली मेषवल्ली कूर्चपर्णी च वर्तिका ॥ ७६ ॥
2.3.76 · p. 173
अनुष्टुप्
विषाणिका च चक्षुष्या वहलाङ्गोऽप्यवल्कलः ।नन्दी स दक्षिणावर्ता वृश्चिकाली सपुच्छिका ॥ ७७ ॥
2.3.77 · p. 173
अनुष्टुप्
ग्रामीणा नीलिनी नीली काला क्लीतकिकापि च ।रञ्जनी श्रीफली तुच्छा द्रोणी दोला विशोधि(ध)नी ॥ ७६ ॥
2.3.76 · p. 173
अनुष्टुप्
मधुपर्णी नीलपुष्पी वृत्तिकाञ्जनकेशिका ।गन्धपुष्पफला भारवाहिनी सरटी च सा ॥ ७७ ॥
2.3.77 · p. 174
अनुष्टुप्
मञ्जिष्ठा म[52a]ञ्जुला जिङ्गी रक्ताङ्गी रक्तयष्टिका ।समङ्गा विकसा भण्डी भण्डीरी विजयारुणा ॥ ७८ ॥
2.3.78 · p. 174
अनुष्टुप्metre not read in every line
कालमेषी ताम्रमूला चन्द्रहासा विषद्विषा ।रसायनी च गण्डीरी छिन्नाङ्गी नागकन्यका ॥ ७९ ॥
2.3.79 · p. 174
अनुष्टुप्
मण्डूकपर्णी वस्त्रालंकरणी कालगोष्टिका ।मृत्तिका छद्मका काला हेमा योजनवल्ल्यपि ॥ ८० ॥
2.3.80 · p. 174
अनुष्टुप्
लाक्षा राक्षा रङ्गमाता जन्तुमाता पलंकषा ।रक्ता निर्मत्सरा दीप्तिर्यावोऽलक्तो द्रुमामयः ॥ ८१ ॥
2.3.81 · p. 174
अनुष्टुप्
जतु क्लीबेऽथ जतुका जतूका जतुकृज्जनी ।जननी रञ्जनी चक्रवर्तिनी पर्पटी च सा ॥ ८२ ॥
2.3.82 · p. 174
अनुष्टुप्
संहर्षा चापि संस्पर्शा जन्तुकृष्णाह्वकृष्णिका ।अस्त्री कुसुम्भो लट्वा च महारजनमित्यपि ॥कटरो रक्तपुष्पः स्यात्किरिका पद्ममित्यपि ।कम्पिल्लकस्तु काम्पिल्लः कर्कशो रक्तचूर्णकः ॥ ८३ ॥
2.3.83 · p. 174
अनुष्टुप्
रक्ताङ्गो रञ्जनो रेची रेचकश्चन्द्रकश्च सः ।तेजस्विनी तैजनी स्यादश्वघ्ना च महौषधी ॥ ८४ ॥
2.3.84 · p. 174
अनुष्टुप्
तेजोह्वा च [52b]किलासघ्नी पारिजाता च वल्कला ।ज्योतिष्मती पीततैला पण्या काकादनीलता ॥ ८४ ॥
2.3.84 · p. 174
metre not recognised
काकाण्डकी सूक्ष्मफला लवणा स्वर्णवल्लरी ।चतुर्मदा वह्निभासा कटभी च त्रिपर्णिका ॥ ८५ ॥
2.3.85 · p. 174
अनुष्टुप्
पीतावेगा(गी ?) कट्विका च कुदिनी कङ्गुनी च सा ।वृषा पारावताङ्घ्रिश्च धातकी त्वग्निपुष्पिका ॥ ८६ ॥
2.3.86 · p. 174
अनुष्टुप्
ताम्रपुष्पी धातुपुष्पी सुभिक्षा मद्यवासिनी ।बहुपुष्पी पर्वतीया वह्निज्वाला च कुञ्जरा ॥ ८७ ॥
2.3.87 · p. 174
अनुष्टुप्
मदहेतुर्मदा मद्यपुष्पी च मदनी च सा ।मदनीया विशल्या तु लाङ्गलिक्यनला न ना ॥ ८८ ॥
2.3.88 · p. 174
अनुष्टुप्
लाङ्गली कलिकारी च प्रमाता गर्भपातिनी ।अर्धेन्दुपुष्प्यग्निशिखानन्ता कुटजपुष्पिका ॥ ८९ ॥
2.3.89 · p. 175
अनुष्टुप्
उल्का च फलिनी वह्निजिह्वा स्यात्पुष्पसारसा ।नलवास्तुश्च शौरिः स्यात्काकाङ्गी तु शिरोबला ॥ ९० ॥
2.3.90 · p. 175
अनुष्टुप्
काकनाशा(सा) काकतुण्डी काका हिंस्रा मुरङ्गिका ।चौरस्नायुर्जीवनीया काकजङ्घा तु सा मता ॥ ९१ ॥
2.3.91 · p. 175
अनुष्टुप्
[53a] स्थूला प्रोक्ता गृध्रनखी काका पारापनी(?)तथा ।मदध्या कार्मणी काकतिक्ता दासी सुलोमशा ॥ ९२ ॥
2.3.92 · p. 175
अनुष्टुप्
पारावताङ्घ्रिश्च नदीकान्ता प्राचीबलः पुमान् ।काकमाची तु कामाची कामाता जघनेफला ॥ ९३ ॥
2.3.93 · p. 175
अनुष्टुप्
वायसी काकमाची च स्वादुपाकफला च सा ।कामाता कुष्ठहन्त्री च रसायनवरा च सा ॥ ९४ ॥
2.3.94 · p. 175
अनुष्टुप्
उत्तानको बद्धशिखा चूडाला चक्रलोच्चटा ।इक्षुगन्धा तु काण्डेक्षुः काकेक्षुश्चेक्षुरः क्षुरः ॥ ९५ ॥
2.3.95 · p. 175
अनुष्टुप्
स्यात्तैलकण्टकोऽत्ताक्षुरध्यण्डः कोकिलाक्षकः ।बलं बशालिः कामश्च बृहत्काशश्च खक्खटम् ॥ ९६ ॥
2.3.96 · p. 175
अनुष्टुप्
स्यान्नदीकामुको रक्तमञ्जरिर्निम्नहूस्तथा ।जलजस्तु नदीकान्तस्तोयजातः प्रतीफल(?) ॥ ९७ ॥
2.3.97 · p. 175
अनुष्टुप्
अश्वाश्वगन्धा गोकर्णी वल्या वाजीकरी च सा ।वराहकर्णी पुष्पा च कम्बुका कुष्ठगन्धिका ॥ ९७ ॥
2.3.97 · p. 175
अनुष्टुप्
वृषोऽवबोधको बर्हिपित्तं च द्वीपजा तु सा ।ताम्रसारा वा[53b]तहरी पौष्टिकी च गरीयसी ॥ ९८ ॥
2.3.98 · p. 175
अनुष्टुप्metre not read in every line
उपदंशामयहरी द्वीप्या मधुरसापि सा ।विदारीक्षुविदारी स्यात्स्वादुकन्दा हयप्रिया ॥ ९९ ॥
2.3.99 · p. 175
अनुष्टुप्
गजप्रेष्टा चक्षुगन्धा कन्दवल्ली शृगालिका ।* * * * * * * * वृक्षपर्णी बिडालिका ॥ ५०० ॥
2.3.500 · p. 175
metre not recognised
भूकूष्माण्डी क्षीरशुक्ला त्विक्षुगन्धा पयस्विनी ।इक्षुवल्ली क्षीरवल्ली महाश्वेतर्क्षगन्धिका ।क्षीरकन्दा चेक्षुपर्णी सैव क्षीरविदारिका ॥ १ ॥
2.3.1 · p. 175
अनुष्टुप्metre not read in every line
गोधापदी हंसपदी त्रिपदी रक्तपादिका ।प्रह्लादिनी विषग्रन्थिः सुवहा च मधुस्रवा ॥ २ ॥
2.3.2 · p. 176
अनुष्टुप्
कीटनामा कीटमारी घृतमण्डालसेलुका ।लज्जावती तु लज्जालुर्लज्जा पृष्ठपुरोटिका ॥ ३ ॥
2.3.3 · p. 176
अनुष्टुप्
नमस्कारी गण्डकाली समाङ्गा च शमीछदा ।समङ्गा रक्तपादी च रक्तमूला हिमच्छदा ॥ ४ ॥
2.3.4 · p. 176
अनुष्टुप्
प्ररोदिनी गन्धकारी खदिरी रक्तमूलिका ।रक्तमूला रुहा स्पृक्का भवेदञ्जलिकारिका ॥ ५ ॥
2.3.5 · p. 176
अनुष्टुप्
तालमूला तु मुसला ताली तालच्छदापि सा ।हिरण्यपु[54a]ष्पी खर्जूरी खलिनी वृष्यकण्टिका ॥ ६ ॥
2.3.6 · p. 176
अनुष्टुप्metre not read in every line
महावृषा मौसली स्यादात्मगुप्ता तु मर्कटी ।ऋष्यप्रोक्ता शूकशिम्बिः कण्डूरा प्रावृषायणी ॥ ७ ॥
2.3.7 · p. 176
अनुष्टुप्
कण्डूकर्यजहाव्यङ्गा गुप्ता च कपिलोमिका ।आर्षभी लाङ्गली व्यङ्गा वामनी दुरभिग्रहा ॥ ८ ॥
2.3.8 · p. 176
अनुष्टुप्
विष्वक्सेनप्रिया गृष्टिः काश्मरी वनमालिका ।वाराही बदरी काङ्क्षी वरा कन्दस्तु तद्भवः ॥ ९ ॥
2.3.9 · p. 176
अनुष्टुप्
सुखकन्दः सुकन्दश्च किटीः शम्बरकन्दकः ।वज्रपत्रश्च वक्रालुर्वन्यः सूकरकन्दकः ॥ १० ॥
2.3.10 · p. 176
अनुष्टुप्
स्वर्णक्षीरी काञ्चनी स्यात्पीतदुग्धा हिमावती ॥ ११ ॥
2.3.11 · p. 176
पटुपर्णी हैमवती क्षीरिणी यवचिञ्चिका ।तिक्तदुग्धा स्वर्णवती सुवर्णाभरणं तथा ॥ १२ ॥
2.3.12 · p. 176
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 है (wrong syllable); pāda 3, syllable 5 स्व (wrong syllable)
ऋक्षगन्धा तु मेषाण्डी वृषगन्धाप्यजाण्डिका ।वृत्तपत्री च मेषान्त्री जुङ्गको जीर्णवालकः ॥ १३ ॥
2.3.13 · p. 176
अनुष्टुप्
अन्तःकोटरपुष्पी स्यादावेगी वृद्धदारकः ।वृद्धदार्वथ सा कृष्णाजा[54b]न्त्री महिषवल्लरी ।वेल्लरी दीर्घवेल्लोऽथ महाश्यामा दवाग्निका ॥ १४ ॥
2.3.14 · p. 177
अनुष्टुप्metre not read in every line
आग्नेयः स्यादग्नियमो ब्रह्मसोमाभिधश्च सः ।चतुभङ्गाह्वयः प्रोक्तो वृद्धदारुविशेषकः ।आरामशीतला देवगन्धा चटकभक्षिका ॥ १५ ॥
2.3.15 · p. 177
अनुष्टुप्
स्याद्भूरिनवनीता च भवेत्कुक्कुटमर्दकः ।कुमारी कुण्डला माता फलमत्स्याक्षिकारिका ॥ १६ ॥
2.3.16 · p. 177
अनुष्टुप्
रसगन्धो गन्धरसो बोलो जातीरसो रसः ।प्राणः शशश्च पिण्डश्च गोप-गोपरसावपि ॥गञ्जा पिका मातुलानी भङ्गिका विजया जया ।उन्मादि[नी] हर्षिणी स्याद्भङ्गराजस्तु मार्कवः ॥ १७ ॥
2.3.17 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
भृङ्गारको भृङ्गनामा पङ्कजः केशरञ्जनः ।रविप्रियो महानीलः सूर्यावर्तश्च कीर्त्तितः ॥ १८ ॥
2.3.18 · p. 177
अनुष्टुप्
भवेद्भृङ्गरजःकेशराजोऽङ्गारक एव च ।स्यादाकाशलतावन्ती पिच्छिलाक्षा महासहा ॥ १९ ॥
2.3.19 · p. 177
अनुष्टुप्
वन्दा वृक्षादनी वृक्षरुहा कामरुहा तथा ।नलपर्णी नीलवल्ली जीवन्ती पादपाशना ॥ २० ॥
2.3.20 · p. 177
अनुष्टुप्
अस्था[55a]न रोहिणी सैव सौविर्यं पदरोहिणी ।वन्दकः शिखरी कामतरुश्च विजयद्रुमः ॥ २१ ॥
2.3.21 · p. 177
अनुष्टुप्metre not read in every line
मोदकी जिङ्गिणी झिल्ली मञ्जरी गुडमञ्जरी ।जातसारा पर्वतीया झिङ्गिणी स्मरमञ्जरी ॥ २२ ॥
2.3.22 · p. 177
अनुष्टुप्
प्रहारवल्ली विकसा वीरवत्यपि * * * [कथ्यते] ।मांसरोहा चर्मकसा वृत्ता पिशितरोहिणी ॥ २३ ॥
2.3.23 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
विमला सातला सारी सप्तला वर्त्तकी जनी ।बहुफेना चर्मकषा चर्मसाह्वा सरालिका ॥ २४ ॥
2.3.24 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
सनालिका पीतदुग्धा केनादीप्ता रसालिका ।गुञ्जा तु काकणन्ती स्यात्कणीचिः काञ्चिरुच्चटा ॥ २५ ॥
2.3.25 · p. 177
अनुष्टुप्
शिखण्डिका रक्तिका च * * [काक]चिञ्ची च कृष्णला ।मसी काकादनी काकपीलुका काकनग्निका ॥ २६ ॥
2.3.26 · p. 178
अनुष्टुप्
चक्रशल्या च दुर्मेधा रतशीतपदी च सा ।सा श्वेता श्वेतपाकी स्याच्चूडाला च भिरिण्डिका ॥ २७ ॥
2.3.27 · p. 178
अनुष्टुप्
दुर्माषा चक्रिका चूडा काम्बोजी काकपीलुका ।वाकुची वागुचिश्चन्द्रशकला चन्द्रवल्लरी ॥ २८ ॥
2.3.28 · p. 178
अनुष्टुप्
[55b]चन्द्रप्रभा चन्द्रराजी खण्डराजी वरामृता ।कालमेषी कृष्णफला सुवल्लिः पूतिफल्यपि ॥ २९ ॥
2.3.29 · p. 178
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कृ (wrong syllable)
मलपूश्चन्द्रिका च स्यात्कुष्ठघ्नी चाप्यवल्गुजः ।कट्वम्लनामिका गोधावती श्यामा च मोहिनी ॥ ३० ॥
2.3.30 · p. 178
अनुष्टुप्
वटपत्री रेवतिका दीनकीशान्तकश्च सः ।कार्पासी पटदा पद्या कर्पासी वयनी तथा ॥ ३१ ॥
2.3.31 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
शतपुष्पी समुद्रान्ता साच्छादनफलापि च ।अन्यावन्द्यफला भद्रकर्पासी शोणपुष्पिका ॥ ३२ ॥
2.3.32 · p. 178
अनुष्टुप्
भारद्वाजी च भद्राथ कार्पासो बादरः पिचुः ।पिचव्यस्तूलमप्यस्याः सूत्रेथ वरतिक्तकः ॥ ३३ ॥
2.3.33 · p. 178
अनुष्टुप्
पर्पटः पित्तहा रेणुनामा चर्माह्वयश्च सः ।शीतप्रियः सूक्ष्मपत्रः कवचश्चर्मकण्टकः ॥ ३४ ॥
2.3.34 · p. 178
अनुष्टुप्
रक्तघाती च सृष्टाकस्त्रियष्टिर्ज्वरनाशकः ।रक्तपुष्पोऽभिसाद(?)श्च तृष्णाघ्नो यवकण्टकः ॥ ३५ ॥
2.3.35 · p. 178
अनुष्टुप्
क्षवः क्षुताभिजननो नासासंवेदनस्तथा ।तीक्ष्ण उद्वेजनो राजक्षवकः क्षुरकश्च सः ॥ ३६ ॥
2.3.36 · p. 178
अनुष्टुप्
ऐन्द्रिरा[56a]छिक्कपत्रा चाप्यथ स्यात्तुलसी सिता ।सुरसा सुलभा ग्राम्या भूतघ्नी भूरिमञ्जरी ॥ ३७ ॥
2.3.37 · p. 178
अनुष्टुप्metre not read in every line
अपेतराक्षसी गौरी प्रोक्ता सुरभिमञ्जरी ।श्रीमञ्जरी भागमाताथ कृष्णा देवदुन्दुभिः ॥ ३८ ॥
2.3.38 · p. 178
अनुष्टुप्
चक्रपर्णी शक्रपत्नी सुरसा हरिकामिनी ।कर्पूरतुलसी त्वन्या भूतेष्टा भूतनायका ॥ ३९ ॥
2.3.39 · p. 178
अनुष्टुप्
मधूकपर्णी कायस्था मयूरा राजसी शिखा ।द्राक्षा फलोत्तमा स्वाद्वी प्रियाला काकमाचिका ॥ ४० ॥
2.3.40 · p. 179
अनुष्टुप्
मधुयोनिश्चारुफला मृद्वीका गोस्तनी च सा ।काश्मीरजा हारहूरा रसाला कपिलापि च ॥ ४१ ॥
2.3.41 · p. 179
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
अन्तरापथिका माता भवेन्मधुफला च सा ।ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ ४२ ॥
2.3.42 · p. 179
अनुष्टुप्
मूले पत्रे करीराग्रफलकाण्डे विरूढकाः ।त्वक्पुष्पं कवकं चेति शाकं शिग्रु च न स्त्रियाम् ॥ ४३ ॥
2.3.43 · p. 179
अनुष्टुप्
उपदंशो हरितकं शालनं सालनं च तत् ।कचपं पत्रशाकं च भाजा[56b]भाजी तु पाचिता ॥ ४४ ॥
2.3.44 · p. 179
अनुष्टुप्metre not read in every line
कलम्बश्च कडम्बश्च द्वयोः स्याच्छाकनाडिका ।कार्षापणोऽस्त्री शाकादि बद्धमुष्टिर्मतो बुधैः ।राजालुर्मूलकोऽस्त्री * हस्तिको हस्तिदन्तकः ॥ ४५ ॥
2.3.45 · p. 179
अनुष्टुप्metre not read in every line
नीलपर्णं नीलकण्ठं हरित्पर्णं च सेकिमम् ।शालामर्कटकं मिश्रं हस्तिकाक्षारसंज्ञितम् ॥ ४६ ॥
2.3.46 · p. 179
अनुष्टुप्
अवदंशक्षमं तीक्ष्णं विष्णुगुप्तमतं वृशम् (corrupt) ।चाणक्यमूलकं रक्तं राजालुकमपीरितम् ॥ ४७ ॥
2.3.47 · p. 179
अनुष्टुप्Latin letters: corrupt
बाले मूलकपोतात्र गृञ्जनं त्वस्त्रियां भवेत् ।गर्जरं पीतकं च स्याद्भवेन्नारङ्गकन्दकम् ॥ ४८ ॥
2.3.48 · p. 179
अनुष्टुप्
अर्शोघ्नः शूरणः कन्दः सूरणश्चित्रदण्डकः ।कण्डूलोऽप्यथ वन्योऽसावुन्नु ओन्नोऽपि कीर्तितः ॥ ४९ ॥
2.3.49 · p. 179
अनुष्टुप्
समष्टिला तु गण्डीरः पिण्डालुस्त्वृष्यगन्धिका ।मध्वालुकं रोमशं स्याच्छङ्खालुः सङ्खसंनिभः ॥ ५० ॥
2.3.50 · p. 179
अनुष्टुप्
हस्त्यालुकं हस्तिकन्दो रक्तालू रक्तकन्दकः ।सुरेन्द्रको वज्रकन्दो मुञ्जातं नालमस्तकम् ॥ ५१ ॥
2.3.51 · p. 179
अनुष्टुप्
मस्तकी त्वस्य निर्यासोऽथ स्व *[ल्प] विटपं भवेत् ।को[57a]लूटमपि कोदुम्बं जलोदुम्बरकन्दकः ॥ ५१ ॥
2.3.51 · p. 180
अनुष्टुप्metre not read in every line
स्थलकन्दो ग्रामकन्दो महाकन्दस्तु माणकम् ।चिञ्चोटकं कशेर्वस्त्री वृषपर्वाथ तन्महत् ॥ ५३ ॥
2.3.53 · p. 180
अनुष्टुप्
राजमुस्ताह्वयं राजकशेरुरपि न स्त्रियाम् ।केम्बुकं तु भवेत्पेलुपेलुनी दलशालिनी ॥ ५४ ॥
2.3.54 · p. 180
अनुष्टुप्
क्रौञ्चादनं तु नापाकं भेडं घेञ्चुलिका च तत् ।अस्त्री पलाण्डुर्वदनदूषी स च सुकन्दकः ।लतार्को लवतार्कश्च दुर्द्रुमो हरितः स च ॥ ५६ ॥
2.3.56 · p. 180
अनुष्टुप्
न स्त्री रसोनो लशुनो म्लेच्छकन्दोऽप्यरिष्टकः ।राहूत्सृष्टो महाकन्दोऽप्युग्रगन्धो नृणां तथा ॥ ५७ ॥
2.3.57 · p. 180
अनुष्टुप्
महौषधं गृञ्जनस्तु न स्त्री स्यादल्पनालकः ।सूक्ष्मपत्रः पलाण्डोस्तु परणाघभिदो दशा ॥ ५८ ॥
2.3.58 · p. 180
अनुष्टुप्
भूमण्डला भूमिदण्डा प्रबोधा भूमिमण्डिका ॥ ५५ ॥
2.3.55 · p. 180
प्रबोधिनी चाथ शाकवीरः स्यात्क्षारपत्रकः ।न स्त्री वास्तुक-वास्तूकौ प्रणालश्च प्रसादनः ॥ ५९ ॥
2.3.59 · p. 180
अनुष्टुप्
स्यान्मार्षो मारिषो रक्तस्त्वेष स्याद्रक्तनालकः ।जीवन्तकः प्रणालोऽथ तन्दुली[57b]योऽल्पमारिषः ॥ ६० ॥
2.3.60 · p. 180
अनुष्टुप्metre not read in every line
तन्दुलीयोऽपि चण्डालः श्वगलो मेघनादकः ।काण्डीरस्तण्डुलीबीजो विषघ्नोऽपि घनस्वनः ॥ ६१ ॥
2.3.61 · p. 180
अनुष्टुप्
मार्षकस्त्वपरो वीजी बाष्पिकः कन्धरोऽपि सः ।स्याद्गौडवास्तुकश्चिल्ली यवशाकं महद्दलम् ॥ ६२ ॥
2.3.62 · p. 180
अनुष्टुप्
चिल्लिका त्वतिरक्ताभा राजमाषस्तु रक्तकः ।अम्लस्त्वेषोऽम्लबाष्पः स्याज्जलजस्त्वम्बुबाष्पकः ॥ ६३ ॥
2.3.63 · p. 180
अनुष्टुप्
सर्षपः स्यात्सरिषपस्तन्तुभश्च कदम्बकः ।कटुश्च कटुकस्नेहो रक्षोघ्नो भूतनाशनः ॥ ६५ ॥
2.3.65 · p. 180
अनुष्टुप्
कण्डघ्नोऽप्यथ सिद्धार्थोऽनघः स्याच्छ्वेतसर्षपः ।प्रभूततीक्ष्णगन्धस्तु चित्रलो रक्तसर्षपः ॥ ६६ ॥
2.3.66 · p. 180
अनुष्टुप्
क्षवः छिक्काकरो राजसर्षपः कृष्णिकासुरी ।राजिका दैत्यपत्नी चाप्यथ स्यान्मधुसूदनी ॥ ६७ ॥
2.3.67 · p. 180
अनुष्टुप्
पालङ्क्या स्त्री तु चञ्चूः स्याच्चञ्चुश्चञ्चुक एव च ।तिलपर्णी कुन्तलिका नली बदर-बर्बरौ ॥ ६८ ॥
2.3.68 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
कुलिञ्जिका चाथ वृहद्धोलिका[58a] लोणिका च सा ।कुलिञ्जरः स्यात्कुठिरो झञ्झरूकश्च झञ्झकः ॥ ६९ ॥
2.3.69 · p. 180
अनुष्टुप्metre not read in every line
कालमाला तु पर्णास-कठिञ्जर-कुठेरकाः ।कृष्णार्जकः सालनीयो मालुकः कृष्णमालुकः ॥ ७० ॥
2.3.70 · p. 180
अनुष्टुप्
करालः कपिशः कालमल्ली स्यात्कालमल्लिका ।सितोऽसौ बिल्वगन्धः स्याद्गन्धपत्रो वटच्छदः ॥ ७१ ॥
2.3.71 · p. 180
अनुष्टुप्
वैकुण्ठश्चार्जकोऽथ स्यात्सुमुखः क्षुद्रपत्रकः ।पोतक्युपोदिका मत्स्यकाली मदलिका च सा ॥ ७१ ॥
2.3.71 · p. 180
अनुष्टुप्
मदघ्नी पिच्छिला वृन्ता वृन्ताका च कलम्बिका ।सूत्रङ्गिसंकटी कण्टकिनी मदहरी च सा ॥ ७२ ॥
2.3.72 · p. 180
अनुष्टुप्
श्रीहस्तिनी तु भूरुण्डी कुरण्टी शीर्षमञ्जरी ।सिंहकेशी क्षेत्रभूषा चुबुकक्षेत्रनाशिनी ॥ ७३ ॥
2.3.73 · p. 180
अनुष्टुप्
नृत्यकुण्डः सूर्यशिरा कुरण्डस्त्वतिवारकः ।सुनिषण्णः सूचिपत्रश्चतुःपत्रो वितुन्नकः ॥ ७४ ॥
2.3.74 · p. 180
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
श्रीवारकः शीतवरः स्वस्तिकः कुक्कुटः स्थितिः ।चाङ्गेरीपत्रसदृशो वाहसः पत्रशूल्पिका ॥ ७५ ॥
2.3.75 · p. 180
अनुष्टुप्
मत्स्यान्तबीजोऽर्कसुतो[58b] विषगन्धो विषोदरः ।सफलीभूर्दधिशमी विष्णुक्रान्तापराजिता ॥ ७६ ॥
2.3.76 · p. 180
अनुष्टुप्metre not read in every line
नीलपुष्पी दीनकी च जया च क्षुरिका च सा ।सतीनकः सूक्ष्मपत्रोऽप्यथ राजक्षवो भवेत् ॥ ७७ ॥
2.3.77 · p. 182
अनुष्टुप्
दुग्धिनी दुग्धिका स्वादुपुष्पी क्षीराविका च सा ।कपित्थपत्रा झरसी पूणिजा रूपपत्रिका ॥ ७८ ॥
2.3.78 · p. 182
अनुष्टुप्
चित्रप्रश्नी विरूपा च निर्जरा पुष्पपत्रिका ।कूलजा वनजा तुम्बपत्री स्याच्चारुपत्रिका ।क्षुद्राम्लिका तु चाङ्गेरी चुक्रिका चाम्ललोणिका ॥ ७८ ॥
2.3.78 · p. 182
अनुष्टुप्
चतुःपर्णी दन्तशठा तथाम्बष्ठा च लोणिका ।सुनिषण्णच्छदा राजमोटाम्लोटाम्लदोलकः ॥ ७९ ॥
2.3.79 · p. 182
अनुष्टुप्
कलम्बिका स्थूलफला मद्यगन्धा कटंभरा ।प्रपुन्नाटः प्रपुनटः प्रपुनाडश्च मर्दकः ।दद्रुघ्नः स्यादेडगजश्चक्राह्वश्चक्रमर्दकः ॥ ८० ॥
2.3.80 · p. 182
अनुष्टुप्
आवर्तकः क्षोदकः स्यात्पद्माटो मेषलोचनः ।मेषपुष्पो मेषराजोऽप्यथ नाडीकलापकः ॥ ८१ ॥
2.3.81 · p. 182
अनुष्टुप्
मत्स्यादनी मत्स्यगन्धा गण्डाली दार्विका पुनः ॥ ८२ ॥
2.3.82 · p. 182
दार्वीपत्री क्रोष्टु[59a]मूली गोजिह्वा भूमिकालिका ।गोमी गोली च गोधूमी स्यादथाम्बालिकाम्बिका ॥ ८३ ॥
2.3.83 · p. 182
अनुष्टुप्metre not read in every line
अम्बष्ठाम्बष्ठकी भूरिमूला सूचीमुखी शिवा ।मधूकपर्णिकैषीका सदस्नी माचिका तथा ॥ ८४ ॥
2.3.84 · p. 182
अनुष्टुप्
मयूरविदला दन्तशठा कम्बू महत्यसौ ।वृषकर्णी श्रावणी च मूषिकश्रावणी च सा ॥ ८५ ॥
2.3.85 · p. 182
अनुष्टुप्
तालपर्णी तु मेथीका मिसिर्मधुरिका च सा ।मिश्रेयाश्वबला पीतबीजा शीतशिवापि सा ॥ ८६ ॥
2.3.86 · p. 182
अनुष्टुप्
छत्रा स्यादथ शालेय आसाजः सालकोऽपि सः ।शाली च शालिनी रक्तबीजो मेहनिवारणः ॥ ८७ ॥
2.3.87 · p. 182
अनुष्टुप्
धनिका धानिका धान्यं धान्याकं धनिकं तथा ।धानेयं वेसनाग्र्याथ सालनाग्र्यार्द्रिकाल्लका ॥ ८८ ॥
2.3.88 · p. 182
अनुष्टुप्