कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निकुम्भ

nikumbhaपुं · masc.

In 5 kośas: 4 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.144
वायसोली स्वादुरसा वयस्थाथ मकूलकः ।निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वा (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.41 · p. 171
निकुम्भो दन्तिका शीघ्रा हस्तिदन्त्युपचित्रका ।चित्रा च चित्रकूला च तथोदुम्बरपर्ण्यपि ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.202 · p. 112
मकूलको रामदूती निकुम्भो घुणवल्लभा ।नागदन्त्यां हस्तिदन्ती वारुणी गजचिर्भिटी ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.265 · p. 77
रसा स्वादुरसापि स्यात् काकोल्यामष्टवर्गके ।निकुम्भो दन्तिका दन्ती प्रत्यक् श्रेणी मुकुलकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ बान्ताः Koṣakalpataru 6.24.49 · p. 278
मनोहरे धन्वथ( ? ) वासके तुस्याद्दुर्लभः कान्तदुरापयोश्च ।स्यात्कुम्भकर्णस्य सुते निकुम्भोदन्त्यां कुसुम्भं तु भवेत्स्त्रियां न ॥ ४९ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.121 · p. 21
निकुम्भः कुम्भकर्णस्य पुत्रे स्तम्बान्तरेऽपि च ।नागदन्तीसमाख्येऽथ हिमानिलनिवारणे ॥ १२१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.122 · p. 21
प्रावारभेदे निस्तारस्तूणीरे कश्चिदब्रवीत् ।प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १२२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भान्ताः Śabdaratnāvalī 7.24.12 · p. 252
गर्दभं शुक्लकुमुदे खरगन्धभिदोः पुमान् ।गर्दभी क्षुद्ररोगे च स्त्रियां जन्तुविशेषके ॥दुर्लभस्त्रिषु दुष्प्रापे कर्चुरादिप्रशस्तयोः ।दुन्दुभिर्वरुणे दैत्ये स्त्र्यक्षे बिन्दुत्रिके द्वयोः ॥भेर्याञ्च वाद्यभेदे स्याद्रक्षोभेदे तु पुंस्ययम् ।निकुम्भो दन्तिकौषध्यां कुम्भकर्णसुतेऽपि च ॥
अनुष्टुप्

निकुम्भ as a meaning in nānārtha verses