काकोली
kākolīस्त्री · fem.In 9 kośas: 8 synonym verses, 3 as a nānārtha head word, 12 as a meaning of another word.
ज्योत्स्नाऽथ मधुरा काकी काकोली वायसूलिका ।धाङ्क्षोली मेदुरा धीरा वीरा क्षीरापि शुक्लका ॥ ३८३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वादुमांसी वयस्था तु विषाणी च पयस्विनी ।काकोली मधुरा शुक्ला क्षीरशुक्लापि जीवनः ॥ ३८४ ॥
अनुष्टुप्
genderस्त्रीfem.
दशमूलं लघुबृहत्पञ्चमूलद्वयेन च ।वायसोली तु काकोली काका स्यात्स्वादुमांसिका ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
काकोली क्षीरकाकोलीत्यष्टवर्गः प्रकीर्तितः ।कदली स्यात् कदलको मोचकः कदलेत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
रसा स्वादुरसापि स्यात् काकोल्यामष्टवर्गके ।निकुम्भो दन्तिका दन्ती प्रत्यक् श्रेणी मुकुलकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
genderस्त्रीfem.
वारुणी नागनन्दी स्याद्रेवती रामदूतिका ।काकोली मधुरा शुक्ला कायस्था स्वादुमांसिका ॥ ५४७ ॥
अनुष्टुप्
genderस्त्रीfem.
काकनासा तु काकांगी जीवनीया शिरोरुहा ।तृड्घ्न्यां वयस्या काकोली काकमाची तु वायसी ॥ ११२ ॥
अनुष्टुप्
genderस्त्रीfem.
काकोली पैष्टिकी श्वेताप्यापानं पानगोष्ठिका ।नग्नहूर्ना मद्यबीजं किण्वमप्यथ मेदकः ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
काकोलो द्रोणकाके स्यात्काकोलो विषमुच्यते ।काकोलश्चापि काकोली ख्यातौषधिविशेषयोः ॥
अनुष्टुप्
meanings
स्त्री रम्भाभूमिकन्दल्योः काकोली न स्त्रियां विषे ।काणायां स्त्र्यथ कीलालं कुङ्कुमे वालकेऽपि च ॥ ४५३ ॥
अनुष्टुप्
meaningsकाणा
काकोली as a meaning in nānārtha verses
- धरणिकोश काककाको ध्वाङ्क्षोऽथ काकाः स्युः काकोलीकाशमल्लिकाः । काकमाचीकाकजङ्घामलपूकाकनासिकाः ॥ Dharaṇikośa 1.3.3
- धरणिकोश वयःस्थवयःस्थः तरुणः प्रोक्तो वयःस्था च गुडूचिका । सूक्ष्मैलामलकी ब्राह्मी काकोली चाभयापि च ॥ Dharaṇikośa 16.3.3
- कोषकल्पतरु विषाणसुग्रीवे करमर्दके भिषजि च श्रीशे सुषेणः पुमा- ************* द्रोषणः कोपने । कुष्ठेऽन्त्ये पशुशृङ्गनागरदयोस्त्रय्यां विषाणं स्त्रियां काकोल्यामजशृङ्गिकास्वथ करेणुः स्याद्गरेणुस्तथा ॥ ३५ ॥ Koṣakalpataru 6.15.35
- नानार्थार्णवसंक्षेप पयस्यापयस्या तु स्त्रियां विद्यादामिक्षायां तथौषधौ । काकोलीनामनि त्रिस्तु दध्याज्यादौ पयोभवे ॥ १०७८ ॥ Nānārthārṇavasaṃkṣepa 4.1078
- नानार्थार्णवसंक्षेप वयःस्थाछर्दनार्दनयोस्तु स्यात् क्लीत्येवं रमसोऽपठीत् । वयःस्था तु स्त्रियां ब्राह्मीकाकोल्यामलकीषु च ॥ १५९२ ॥ Nānārthārṇavasaṃkṣepa 4.1592
- नानार्थार्णवसंक्षेप स्वादुरसास्त्री तु साव्वँत्सरी श्राद्धे कर्तव्ये वत्सरात्यये । स्त्री तु स्वादुरसा द्राक्षाकाकोलीमदिरासु च ॥ ६६३ ॥ Nānārthārṇavasaṃkṣepa 6.663
- शिवकोष काकाकाका स्यात्काकजङ्घायां काकोलीकाकनासयोः ॥ ९ ॥ Śivakoṣa 1.2.9
- शिवकोष विषाणिकाकुस्तुम्बरी भद्रमुस्तविष्बक्पर्णीमयूरके । विषाणिका मेषशृङ्गीकाकोलीकर्कटाह्वये ॥ ६९ ॥ Śivakoṣa 1.4.69
- शिवकोष वयःस्थावयःस्थामलकीसोमवल्लरीकुण्डलीषु च । सूक्ष्मैलायां च काकोल्यां हरीतक्यां च शाल्मलौ ॥ २१८ ॥ Śivakoṣa 13.2.218
- शिवकोष प्रियाप्रिया प्रियङ्गुकाकोलीमल्लिकावृद्धिऋद्धिषु । भव्या करिकणायां स्त्री कर्मरङ्गतरौ नशि ॥ ३४४ ॥ Śivakoṣa 21.1.344
- शिवकोष वीरावीरा कुलालीगम्भीरीक्षीरावीवारुणीषु च । काकोलीक्षीरकाकोलीतामलक्येलवालुषु ॥ ३८४ ॥ Śivakoṣa 22.2.384
- त्रिकाण्डशेष वयःस्थावानप्रस्थो मधूकेऽपि स्यात्तृतीयेऽपि चाश्रमे । काकोल्यामलकी ब्राह्मी वयःस्था तरुणे त्रिषु ॥ १९८ ॥ Trikāṇḍaśeṣa 3.3.198