All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
त्र्यक्षरकाण्डः · पुंल्लिङ्गाध्यायः (2/3)
निकुम्भः कुम्भकर्णस्य पुत्रे स्तम्बान्तरेऽपि च ।नागदन्तीसमाख्येऽथ हिमानिलनिवारणे ॥ १२१ ॥
3.2.121 · p. 21
अनुष्टुप्
प्रावारभेदे निस्तारस्तूणीरे कश्चिदब्रवीत् ।प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १२२ ॥
3.2.122 · p. 21
अनुष्टुप्
रन्ध्रे च प्रथितत्वे चाप्याचारप्रतियानयोः ।सनादिशब्दावयवे तथैव स्यात् सुबादिषु ॥ १२३ ॥
3.2.123 · p. 22
अनुष्टुप्
प्रभवः स्यादपां मूले विक्रमे जन्मकारणे ।आद्योपलब्धिस्थानेऽथ प्रतापे स्यात् प्रभाववाक् ॥ १२४ ॥
3.2.124 · p. 22
अनुष्टुप्
माहात्म्ये च प्रग्रहस्तु वन्द्यामारग्वधद्रुमे ।तुलासूत्रेऽश्वादिरश्मौ रश्मौ नियमनेऽर्चने ॥ १२५ ॥
3.2.125 · p. 22
अनुष्टुप्
प्रग्राहस्तु तुलासूत्रे तथैवाश्वादिरश्मिषु ।प्रवहो वायुभेदे स्याद् वायुमात्रे बहिर्गतौ ॥ १२६ ॥
3.2.126 · p. 22
अनुष्टुप्
प्रवाहस्तु प्रकृष्टाश्वे जलवेगे प्रवर्तने ।परम्परायामपि च प्रकरस्तु कदम्बके ॥ १२७ ॥
3.2.127 · p. 22
अनुष्टुप्
तथैव ततपुष्पादौ भेदसादृश्ययोः पुनः ।प्रकारोऽथ प्रमाथः स्याद्धिंसायां च प्रमन्थने ॥ १२८ ॥
3.2.128 · p. 22
अनुष्टुप्
वैजयन्तीसमुद्दिष्टो धन्विना लस्तकग्रहे ।प्रस्तरो मणिपाषाणकुशेषु कथितो बुधैः ॥ १२९ ॥
3.2.129 · p. 22
अनुष्टुप्
प्रस्तारस्तु प्रस्तरणे वृत्तविन्यसनेऽपि च ।प्रस्तावः स्यादवसरेऽधिकारे सामवेदिनाम् ॥ १३० ॥
3.2.130 · p. 22
अनुष्टुप्
साम्नः प्रथमभक्तौ च प्रक्रमः स्यादुपक्रमे ।प्रमाणभेदे सोऽप्युक्तो द्विपदस्त्रिपदोऽपि वा ॥ १३१ ॥
3.2.131 · p. 22
अनुष्टुप्
अथ प्रयामो नीवाके प्रयात्ये च प्रकीर्तितः ।प्रसवो जननानुज्ञापुत्रेषु फलपुष्पयोः ॥ १३२ ॥
3.2.132 · p. 22
अनुष्टुप्
पारम्पर्यप्रसङ्गेऽपि प्राणिनां गर्भमोचने ।प्रेरणे प्रसृतौ चाथ प्रसरः प्रणवे स्मृतः ॥ १३३ ॥
3.2.133 · p. 22
अनुष्टुप्
वेगे च प्रणयन्तु स्याद् याच्ञायां सौहृदेऽपि च ।विस्रम्भे स्यात् परिचये निमाणे रभसः पुनः ॥ १३४ ॥
3.2.134 · p. 23
अनुष्टुप्
प्रसरे चाप्यभाषिष्ट प्रणवस्तु स्तुतावपि ।ओङ्कारे प्रलयस्तु स्यान्मृत्यावस्पन्दनस्थितौ ॥ १३५ ॥
3.2.135 · p. 23
अनुष्टुप्
मूर्च्छायामपि कल्पान्ते श्लेषे चापि क्षयेऽपि च ।प्रदरस्तु भवेद्भङ्गगबाणयोः स्त्रीरुजान्तरे ॥ १३६ ॥
3.2.136 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रक्तस्रुत्यात्मके दीर्णौ प्रपञ्चस्तु विपर्यये ।विस्तारे सञ्चये च स्यात् प्रवेष्टस्तु भुजे भवेत् ॥ १३७ ॥
3.2.137 · p. 23
अनुष्टुप्
गजस्य दन्तमूलाच करीर्याख्यात् परे भवेत् ।प्रदेशेऽथ प्रकोष्ठः स्यादलिन्दे राजसद्मनाम् ॥ १३८ ॥
3.2.138 · p. 23
अनुष्टुप्
कक्ष्यान्तरे च हस्तस्य कफोणिमणिबन्धयोः ।मध्ये चाथ प्रयोगः स्यात् सुरतर्णप्रतानयोः ॥ १३९ ॥
3.2.139 · p. 23
अनुष्टुप्
कर्मणा च विधौ चापि प्रयुक्तौ प्रेरणात्मनि ।उच्चारितेषु शब्देषु शब्दस्योच्चारणेऽपि च ॥ १४० ॥
3.2.140 · p. 23
अनुष्टुप्
प्रदेशस्त्वेकदेशे स्यादुपदेशप्रदानयोः ।प्रादेशेऽप्याह रभसः प्ररोहस्तु प्ररोहणे ॥ १४१ ॥
3.2.141 · p. 23
अनुष्टुप्
अङ्कुरेऽथ प्रतोदः स्यात् तोत्रे चापि प्रतोदने ।सामप्रभेदयोश्चापि परीतेन्यृचि गीतयोः ॥ १४२ ॥
3.2.142 · p. 23
अनुष्टुप्
प्रसादस्तु प्रसत्तौ स्यात् स्वच्छत्वेऽप्यनुरोधने ।काव्यालङ्कारभेदे च प्रभासस्तु प्रभासने ॥ १४३ ॥
3.2.143 · p. 23
अनुष्टुप्
तीर्थभेदे प्रचारस्तु प्रायशश्चरणे तथा ।खद्गे चाथ प्रतापः स्यात् प्रभावभृशतापयोः ॥ १४४ ॥
3.2.144 · p. 23
अनुष्टुप्
प्रपातस्तु प्रपतने तथा सौप्तिकरोधसोः ।गिरेर्भृगौ च प्रस्रावः पुनः प्रस्रुतिमूत्रयोः ॥ १४५ ॥
3.2.145 · p. 23
अनुष्टुप्
भक्तमण्डे प्रघाणस्तु तरुस्कन्धेऽप्यलिन्दके ।प्रघणस्तु तथालिन्दे लोहमुद्गरयोः स्मृतः ॥ १४६ ॥
3.2.146 · p. 23
अनुष्टुप्
प्रतिघस्तु प्रतिहतौ स्यात् क्रोधवधयोरपि ।परिघस्त्वर्गले दण्डे परिधातास्त्रयोगपि ॥ १४७ ॥
3.2.147 · p. 24
अनुष्टुप्
कालयोगविशेषे च मूढगर्भे च मुद्गरे ।पराकस्तु द्वादशाहोपवासात्मव्रतान्तरे ॥ १४८ ॥
3.2.148 · p. 24
अनुष्टुप्
अहीनक्रतुभेदानां त्रिरात्राणां तथा क्वचित् ।दूरे खड्गे परागस्तु पुष्परेणौ रजस्यपि ॥ १४९ ॥
3.2.149 · p. 24
अनुष्टुप्
स्नानीयादौ च रभसस्त्वद्रिभेदोपरागयोः ।विख्यातौ चाथ सम्प्रोक्तः पर्यायोऽवसरे क्रमे ॥ १५० ॥
3.2.150 · p. 24
अनुष्टुप्
सामस्तोत्रगतस्तोमतृतीयांशेऽप्यथ स्मृतः ।पर्यस्तिकायां खट्वायां पर्यङ्कः स्याच्चतुर्ष्वपि ॥ १५१ ॥
3.2.151 · p. 24
अनुष्टुप्
ज्ञेय आसनभेदेषु पर्जन्यस्तु पुरन्दरे ।गर्जदभ्रेऽभनिनदे वास्तुदेवान्तरे तथा ॥ १५२ ॥
3.2.152 · p. 24
अनुष्टुप्
अस्त्रयन्त्रे पर्वतस्तु मुनिभेदे गिरावपि ।मेधेऽप्यथ पटीरः स्यात् कन्दर्पे चापि चन्दने ॥ १५३ ॥
3.2.153 · p. 24
अनुष्टुप्
कन्दरे त्वपरे चाहुः पत्सलस्तु प्रकीर्तितः ।प्रहारेऽन्यैः प्रहासेऽन्यैः पणवस्त्वपि डिण्डिमे ॥ १५४ ॥
3.2.154 · p. 24
अनुष्टुप्
गजस्कन्धेऽप्यथो चारे प्रणिधिः प्रार्थनेऽपि च ।प्रणिधाने च रभसः प्राहार्धश्लोकमुत्तरम् ॥ १५५ ॥
3.2.155 · p. 24
अनुष्टुप्
खड्गधेनुदले फेने परञ्जस्तैलपत्रके ।परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ १५६ ॥
3.2.156 · p. 24
अनुष्टुप्
प्राकारे दृश्यते चापि षट्सु शुक्रियसामसु ।परिधानक्रियायां च परशुस्तु परश्वथे ॥ १५७ ॥
3.2.157 · p. 24
अनुष्टुप्
वने च टङ्कणे क्षारे पलाण्डुस्तु निरूपितः ।कन्दभेदे सुकन्दाख्ये दुर्गन्धे त्यक्तभक्षणे ॥ १५८ ॥
3.2.158 · p. 25
अनुष्टुप्
दशानामपि तज्जातिभेदानां कुत्रचित् स्मृतः ।परिज्वा तु मरुद्वह्न्योश्चन्द्रे प्राग्भारवाक् पुनः ॥ १५९ ॥
3.2.159 · p. 25
अनुष्टुप्
विज्ञेयो गिरिशृङ्गाग्रे तथैवातिशयेऽपि च ।प्रकृष्टासादने तु स्यात् प्रासादो मन्दिरान्तरे ॥ १६० ॥
3.2.160 · p. 25
अनुष्टुप्
नृपाढ्यदेवतादीनां प्राणथस्तु प्रजापतौ ।मदनाख्यद्रुमे चाथ पार्यरो रभसोदितः ॥ १६१ ॥
3.2.161 · p. 25
अनुष्टुप्
भक्तसिक्थे कदम्बस्य केसरे रभसः पुनः ।पाटीरो मूलके वङ्गे वातिके लितहैन्यपि(?)* ॥ १६२ ॥
3.2.162 · p. 25
अनुष्टुप्
केदारे वेणुसारे च प्राह वारिधरेऽपि च ।इत्येव पुलकस्तु स्याच्छत्रस्थास्वणुराजिषु ॥ १६३ ॥
3.2.163 · p. 25
अनुष्टुप्
हीरके रभसस्त्वत्र पठति श्लोकमुत्तरम् ।कृमिप्रभेदे गल्वर्कमणिदोषप्रभेदयोः ॥ १६४ ॥
3.2.164 · p. 25
अनुष्टुप्
रोमाञ्चे हरिताले च रत्नभेदेऽप्यथोदितः ।स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ १६५ ॥
3.2.165 · p. 25
अनुष्टुप्
पुद्गलस्तु शरीरे स्यात् परमाणौ तथात्मनि ।पुङ्गवस्त्वृषभे पुंसां श्रेष्ठे पुन्नागवाक् पुनः ॥ १६६ ॥
3.2.166 · p. 25
अनुष्टुप्
केसराख्यद्रुमे पुंसां श्रेष्ठे जातिफलेऽपि च ।पुरन्ध्रिः पुनरिन्द्रे च वरुणे चाथ बण्ठरः ॥ १६७ ॥
3.2.167 · p. 25
अनुष्टुप्
करीरकोशे तालस्य पल्लवे रभसोदितः ।बिन्दुलस्तु भवेदम्बुवेतसे वेतसेऽपि च ॥ १६८ ॥
3.2.168 · p. 25
अनुष्टुप्
भरतस्त्वृत्विजि नटे रामस्य च कनीयसि ।आद्यक्षत्रियभेदे च वर्षेऽस्मिन्नृत्तशास्त्रके ॥ १६९ ॥
3.2.169 · p. 26
अनुष्टुप्
भास्करस्तु भवेद्वह्नावादित्ये रभसः पुनः ।भाकूटः शैलभेदे स्यात् तथैवानिमिषान्तरे ॥ १७० ॥
3.2.170 · p. 26
अनुष्टुप्
भुवन्युर्भास्करे वह्नौ भूतात्मा तु विरिञ्चने ।जीवात्मनि शरीरे च पवने चाथ मन्दरः ॥ १७१ ॥
3.2.171 · p. 26
अनुष्टुप्
अब्धिमन्थनशैले च हारभेदेऽष्टयष्टिके ।महेन्द्रस्तु भवेच्छैलविशेषेऽपि पुरन्दरे ॥ १७२ ॥
3.2.172 · p. 26
अनुष्टुप्
मगधस्तु भवेद्राजभेदे तस्य तु नीवृति ।मगधां भूम्नि च स्यात्तु वाद्यभेदे च मड्डुके ॥ १७३ ॥
3.2.173 · p. 26
अनुष्टुप्
मुष्टौ च फलकादीनां मारिषस्तु निरूपितः ।जीवशाकाह्वये शाकस्तम्बे नाट्योक्तिगोचरे ॥ १७४ ॥
3.2.174 · p. 26
अनुष्टुप्
आर्ये स्यादथ मारीचः काकोले याजके द्विपे ।रक्षोभेदे मासरस्तु भक्तमण्डे तथैव च ॥ १७५ ॥
3.2.175 · p. 26
अनुष्टुप्
मद्यस्य साधनद्रव्ये बल्कसाख्येऽथ मारुतिः ।भीमसेने हनुमति मुदिरो मेघसूर्ययोः ॥ १७६ ॥
3.2.176 · p. 26
अनुष्टुप्
मुकुरस्तु कुलालस्य दण्डे चादर्शनेऽपि च ।बकुले चाथ मुरवः खण्डिकाद्वितयात्मके ॥ १७७ ॥
3.2.177 · p. 26
अनुष्टुप्
मानभेदे वाद्यभेदे मुर्मुरस्तु तुषानले ।ज्वलदङ्गारपूर्णाग्नौ त्वपरेऽथ मुकुन्दवाक् ॥ १७८ ॥
3.2.178 · p. 26
अनुष्टुप्
नवानां निधिभेदानामेकस्मिंश्च निधावपि ।वासुदेवेऽथ मुहरिः सूर्ये चाप्यनडुह्यपि ॥ १७९ ॥
3.2.179 · p. 26
अनुष्टुप्
मोरटः कृष्णजीरे च रम्भास्थ्नि मलयोद्भवे ।यजतस्तु शशाङ्के स्याद् यज्ञद्रव्येऽथ मन्मथे ॥ १८० ॥
3.2.180 · p. 26
अनुष्टुप्
रमतिः स्वर्गसभयोर्लुब्धकस्तु निगद्यते ।आर्द्रायां मृगयौ चाथ लोहित्यो दक्षिणाम्बुधौ ॥ १८१ ॥
3.2.181 · p. 27
अनुष्टुप्
वीहौ च नदभेदे च वञ्चुलस्तु द्रुमान्तरे ।तिमिशाख्येऽप्यशोके च वेतसेऽथ वरूथवाक् ॥ १८२ ॥
3.2.182 · p. 27
अनुष्टुप्
रथगुप्तौ मृगे चाथ वण्डालः स्यात् खनित्रके ।नौकायां शूरयोर्युद्धे वरण्डस्त्वपि सहतौ ॥ १८३ ॥
3.2.183 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 स (wrong syllable)
तृणकाष्ठादिभारे च मुखरोगान्तरे तथा ।पुम्बलाख्येऽन्तरावेदौ प्राकारेऽथ वटम्बवाक् ॥ १८४ ॥
3.2.184 · p. 27
अनुष्टुप्
शैले च तृणपुञ्जे च वन्दीकस्तु पुरन्दरे ।तथैव तोरणस्तम्भे वराणस्तु पुरन्दरे ॥ १८५ ॥
3.2.185 · p. 27
अनुष्टुप्
वात्स्यायनमुनौ चाथ व्यवायो मैथुनेऽपि च ।व्यवधानेऽथ वहतिः कुटुम्बेऽमात्यपुत्रयोः ॥ १८६ ॥
3.2.186 · p. 27
अनुष्टुप्
वहतुस्तु बलीवर्दे कालेऽग्नौ वमथुः पुनः ।वमने गजहस्तोत्थशीकरे चाथ वारिदे ॥ १८७ ॥
3.2.187 · p. 27
अनुष्टुप्
अमोघ उत्पत्तिक्षेत्रेऽप्युक्तो वावीर इत्यथ ।व्यायामः पौरुषे व्यामे स्पर्धायां दुर्गसञ्चरे ॥ १८८ ॥
3.2.188 · p. 27
अनुष्टुप्
आकर्षणे च वस्त्रादेः स्याद्दीर्घीकरणेऽपि च ।आयासेऽप्यथ विज्ञेयो व्याघातो व्याहतावपि ॥ १८९ ॥
3.2.189 · p. 27
अनुष्टुप्
आरग्वधद्रुमे कालयोगभेदे च भाषितः ।वाग्योनिर्वचने कल्पे व्याघ्रपात् तु विकङ्कते ॥ १९० ॥
3.2.190 · p. 27
अनुष्टुप्
ऋषिभेदेऽथ विस्रम्भो विश्वासस्नेहयोरपि ।स्यात् केलिकलहाभिख्यविप्रलम्भे च संस्तवे ॥ १९१ ॥
3.2.191 · p. 27
अनुष्टुप्
विष्कम्भः प्रतिबन्धे च प्रतिबन्धस्य साधने ।अर्गलादौ मूढगर्भभेदयोः शस्त्रदार्ययोः ॥ १९२ ॥
3.2.192 · p. 28
अनुष्टुप्
कूपकाङ्गप्रभेदे च कालयोगान्तरे तथा ।विस्तारे चाथ विष्टम्भः प्रतिबन्धे प्रकीर्तितः ॥ १९३ ॥
3.2.193 · p. 28
अनुष्टुप्
महावैराजनाम्नश्च साम्नः प्रस्तावभक्तितः ।परेषु दशसु स्तोमेष्वथ क्रान्तौ च विक्रमः ॥ १९४ ॥
3.2.194 · p. 28
अनुष्टुप्
तथैव शक्तिसम्पत्तौ क्षान्तौ च रभसोऽपठीत् ।विष्टरस्त्वासने वृक्षे दर्भमुष्टौ च भाषितः ॥ १९५ ॥
3.2.195 · p. 28
अनुष्टुप्
रभसस्त्वाह विस्तारं विस्तृतिस्तम्बयोरथ ।विपाकः पचने स्वेदे* विरुद्धे कर्मणः फले ॥ १९६ ॥
3.2.196 · p. 28
अनुष्टुप्
विस्मयस्त्वद्भुते दर्पे विशयस्त्वपि संशये ।वे(श्या?श्वा)पि शयने ज्ञेयो विषयस्त्वपि गोचरे ॥ १९७ ॥
3.2.197 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
देशे रूपरसादौ च तथा स्यान्नित्यसेविते ।पृथक् तु रभसः प्राह देशाज्जनपदेऽप्यमुम् ॥ १९८ ॥
3.2.198 · p. 28
अनुष्टुप्
विदुलस्तु भवेदम्बुवेतसे वेतसेऽप्यथ ।विद्रुमः पादपे च स्याद् प्रवालेऽप्यजयः पुनः ॥ १९९ ॥
3.2.199 · p. 28
अनुष्टुप्
ब्रूते किसलये चापि तथैव मणिभूरुहे ।विलम्बस्त्वपरैरुक्तो विषभेदे विलम्बके ॥ २०० ॥
3.2.200 · p. 28
अनुष्टुप्
विटङ्कः पादपाङ्गे च गृहस्यावयवेऽपि च ।विसर्गस्तु परित्यागे पुरीषेऽथ विवेकवाक् ॥ २०१ ॥
3.2.201 · p. 28
अनुष्टुप्
पृथक्कारे पृथग्भावे जलद्रोण्यां विचारणे ।विश्लेषस्तु पृथक्कारे विरहेऽथ विलासवाक् ॥ २०२ ॥
3.2.202 · p. 28
अनुष्टुप्
लीलायां भावभेदे च स च स्याच्छ्लिष्टविक्रिया ।विकुस्रस्तु समुद्रे च चन्द्रे चाथ विकारवाक् ॥ २०३ ॥
3.2.203 · p. 28
अनुष्टुप्
रोगे चाप्यन्यथाभावे विवधस्तृदितः पथि ।पर्याहारे च भारे च विश्वप्सा त्वन्तरेऽनिले ॥ २०४ ॥
3.2.204 · p. 29
अनुष्टुप्
पुरन्दरेऽथ विश्वात्मा विरिञ्चेऽपि च भास्करे ।वीवधस्तु भवेन्मार्गे स्यात् पर्याहारभारयोः ॥ २०५ ॥
3.2.205 · p. 29
अनुष्टुप्
वीकाशस्तु रहस्युक्तः प्रकाशे वृषभः पुनः ।उक्ष्णि श्रेष्ठेऽथ वृत्तान्तः प्रकारे कात्म्यवार्तयोः ॥ २०६ ॥
3.2.206 · p. 29
अनुष्टुप्
भवेत् प्रकरणे चाथ भल्लाते स्याद्वृषाङ्कवाक् ।महादेवेऽथ वेशन्तः पल्वलाकाशयोरथ ॥ २०७ ॥
3.2.207 · p. 29
अनुष्टुप्
वैकुण्ठः केशवे शक्रे शपथस्तु सुतादिभिः ।शपने कार आक्रोगे शमथः पुनरप्सु च ॥ २०८ ॥
3.2.208 · p. 29
अनुष्टुप्
शान्तौ चाप्याश्रमपदे श्वयीचिस्तु निशाकरे ।श्वयथौ च शिखण्डस्तु चूडायां बर्हिबर्हके ॥ २०९ ॥
3.2.209 · p. 29
अनुष्टुप्
श्रीवत्सः श्रीपतौ तस्य लाञ्छनेऽप्यथ शार्ङ्गिणि ।श्रीपिष्टाख्ये च निर्यासे श्रीवासो वसतौ श्रियः ॥ २१० ॥
3.2.210 · p. 29
अनुष्टुप्
श्रीगर्भस्तु श्रियो गर्भे खड्गे श्रीह्रदवाक् पुनः ।हृदे श्रियः प्रपायां च श्रीकण्ठस्तु महेश्वरे ॥ २११ ॥
3.2.211 · p. 29
अनुष्टुप्
द्वितीयमर्थमाचष्टे रभसः कुरुजाङ्गले ।इत्येवमथ शुद्धान्तो गुह्ये कक्ष्यान्तरे तथा ॥ २१२ ॥
3.2.212 · p. 29
अनुष्टुप्
अन्तःपुरे च जानीयादथ विद्याद्विचक्षणः ।सम्भवः कारणोत्पत्त्योः सङ्केते सजनेऽपि च ॥ २१३ ॥
3.2.213 · p. 29
अनुष्टुप्
मात्यर्थे मापयत्यर्थे तौ चार्थौ सद्भिरीरितौ ।अकर्मको मातिधातुः प्रस्थादीनां घटादिषु ॥ २१४ ॥
3.2.214 · p. 29
अनुष्टुप्
प्रवर्ततेऽन्तर्भावेऽसौ सम्भूत ति सूत्रतः ।सकर्मको मारयतिः स्थाल्याद्याकरवस्तुना ॥ २१५ ॥
3.2.215 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तेऽ (syllables merged)
ग्रहणेऽन्तर्भावनायामाढकादेः प्रवर्तने ।स चायं सम्भवत्यादिमुन्ने सूत्रकृतोदितः ॥ २१६ ॥
3.2.216 · p. 30
अनुष्टुप्
तत्र ह्याकृष्यते कर्म तद्धरत्यादिसूत्रतः ।'असम्भवो हेमम(या?य)जन्तो' 'रेपामसम्भवे' ॥ २१७ ॥
3.2.217 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हे (syllables merged)
इत्यादिपु प्रयोगेषु भूयिष्ठेषु कृतात्मभिः ।अर्थः सम्भवशब्दस्य चिन्तनीयोः विचक्षणैः ॥ २१८ ॥
3.2.218 · p. 30
अनुष्टुप्
संरम्भः पुनराटोपे क्रोधे सम्भेदवाक् पुनः ।भेदे च मिश्रणे चाथ सम्भोगो रतभोगयोः ॥ २१९ ॥
3.2.219 · p. 30
अनुष्टुप्
कश्चित् करिकरे ब्रूते वयं तु ब्रूमहे ध्रुवम् ।गजस्य करमङ्गुल्यां विभज्योर्ध्वं हि सप्तधा ॥ २२० ॥
3.2.220 · p. 30
अनुष्टुप्
अङ्गुल्या परतो भागे तृतीये सम्भ्रमः पुनः ।अत्यादरे च सवेगे व्यग्रतायां च साध्वसे ॥ २२१ ॥
3.2.221 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
सङ्ग्रहस्तु महोद्रङ्गे स्वीकारे च समुच्छ्रये ।स्त्रीसङ्ग्रहेऽपि संक्षेपे सङ्ग्राहस्तूदितः परैः ॥ २२२ ॥
3.2.222 · p. 30
अनुष्टुप्
प्रदेशे फलकादीनां ग्रहणार्थे परैः पुनः ।मुष्टिमात्रेऽथ सन्तानः कल्पवृक्षान्तरे कुले ॥ २२३ ॥
3.2.223 · p. 30
अनुष्टुप्
परम्परायां चापत्ये सञ्चारस्त्वपि सङ्गतौ ।अपि सङ्क्रमणे चारभेदे सोऽपीदृशः स्मृतः ॥ २२४ ॥
3.2.224 · p. 30
अनुष्टुप्
संस्थाचराख्यचाराणां गत्वा गत्वा परं प्रति ।जिज्ञासते यः संवालः पुनश्चन्द्रस्य दीधितौ ॥ २२५ ॥
3.2.225 · p. 30
अनुष्टुप्
विभज्य गजलाड्गूलं चतुर्धारभ्य मूलतः ।द्वितीयभागे संवासः पुनः स्याद्वसने सह ॥ २२६ ॥
3.2.226 · p. 30
अनुष्टुप्
राजधान्यां च संयावः पुनः सम्मिश्रणे तथा ।भक्ष्यभेदे च तस्यापि तज्ज्ञैर्लक्षणमीरितम् ॥ २२७ ॥
3.2.227 · p. 30
अनुष्टुप्
शमिता त्वम्लदुग्धार्द्रा पक्का खण्डे घृतोत्तरे ।संयावोऽथ युतश्चूर्णैः खण्डैलामरिचाद्रकैः ॥ २२८ ॥
3.2.228 · p. 31
अनुष्टुप्
इत्येवमथ सङ्घातः समूहे हननेऽप्यपि ।काव्यजातिविशेषे च तथैव नरकान्तरे ॥ २२९ ॥
3.2.229 · p. 31
अनुष्टुप्
संस्त्यायस्तु गृहे चैव सन्निवेशसमूहयोः ।रभसो विस्तृतौ चाथ सं(स्ता?स्त)रः सुस्तरेऽध्वरे ॥ २३० ॥
3.2.230 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्वस्तरस्तु स्तृतौ स्वस्य विक्षिप्ततृणसञ्चये ।संस्कार उत्कर्षाधाने मतः सङ्कल्प एव च ॥ २३१ ॥
3.2.231 · p. 31
अनुष्टुप्
स्यमीकस्त्वपि वल्मीके नृपगोत्रे च कुत्रचित् ।वृक्षेऽप्यथ समीकः स्यादर्णवे मिथुनेऽपि च ॥ २३२ ॥
3.2.232 · p. 31
अनुष्टुप्
सम्मर्दो मर्दने युद्धेऽप्यथ सन्दंश इत्ययम् ।लोहकारोपकरणभेदे सन्दशनेऽपि च ॥ २३३ ॥
3.2.233 · p. 31
अनुष्टुप्
एकाहक्रतुभेदे चाप्यभिचारात्मके द्विषाम् ।सन्नयः समवाये च पृष्ठस्थायिबलेऽपि च ॥ २३४ ॥
3.2.234 · p. 31
अनुष्टुप्
संवर्तस्त्वृषिभेदे स्याद् वत्सरे च जगत्क्षये ।संवर्तनायां संवृत्तौ सङ्घर्षः स्पर्धने तथा ॥ २३५ ॥
3.2.235 · p. 31
अनुष्टुप्
सङ्घर्षणे संपुटस्तु समुद्ने मन्त्रवादिनाम् ।मन्त्राक्षरप्रग्रथनप्रभेदे चाजयः पुनः ॥ २३६ ॥
3.2.236 · p. 31
अनुष्टुप्
कलिकायां शवरुकेऽप्यथ सम्मर्श इत्ययम् ।तर्के सम्मर्शने चाथ सन्देहः संशये तथा ॥ २३७ ॥
3.2.237 · p. 31
अनुष्टुप्
आत्मसंज्ञे मध्यकाये सहोरस्तु महीधरे ।विष्णौ चाप्यथ संरोधः क्षये सरोधनेऽपि च ॥ २३८ ॥
3.2.238 · p. 31
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 स (wrong syllable)
समिधस्तु समूहेऽग्नौ युद्धगोधूमपिष्टयोः ।स्वापे तु संलयश्चैकीमावे च स्वधितिः पुनः ॥ २३९ ॥
3.2.239 · p. 32
अनुष्टुप्
वज्रे कुठारे स्थपतिः पुनः स्यात् सोविदल्लके ।तक्षण्यधिपतौ चापि बृहस्पतिसवेष्टिनि ॥ २४० ॥
3.2.240 · p. 32
अनुष्टुप्