कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चित्रा

citrāस्त्री · fem.

In 18 kośas: 31 synonym verses, 10 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.112 · p. 8
त्वाष्ट्री चित्रानिली स्वातिर्विशाखेन्द्राग्निदेवताः ॥ ११२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.134
चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ॥ ८७ ॥प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.156
चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी ॥ १५६ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रनामानि Gaṇitanāmamālā 1.9 · p. 1
उग्रार्यमास्ततो हस्त अर्कं चैव तथार्कभम् ।करं सवित्तृ सूर्यर्क्षं चित्रा त्वाष्ट्रं चत्वष्ट्रभम् ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.372 · p. 174
भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा ।मण्डूकपर्णी विजया रागाढ्या रक्तयष्टिका ॥ ३७२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.405 · p. 294
चित्रा द्रवन्ती कृशिरा सुकर्णी बहुकर्णिका ।न्यग्रोधिकाऽऽखुकर्णी स्याच्चण्डा भूमिचरी वृषा ॥ ४०५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.505 · p. 305
बरा कुष्ठघ्नी मत्स्याक्षा स्याच्छ्रवन्ती तु मूषिका ।न्यग्रोधी च श्रुतश्रेणी चित्रा मूषकमार्यपि ॥ ५०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घ्नी (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.580 · p. 314
द्रवन्ती शम्बरी चित्रा न्यग्रोधी शणमूलिका ।प्रत्यक्श्रेणी विषा चण्डा पुत्रश्रेण्याखुपर्ण्यपि ॥ ५८० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.191 · p. 401
हस्तः सवितृदैवत्यं चित्रा पुंस्यपि च स्त्रियाम् ।त्वष्टृपर्यायदैवत्यमथ स्वातिस्तु पुंस्त्रियोः ॥ १९१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.90 · p. 36
रविदेवो द्वयोर्हस्तस्तज्जे हस्तोऽथ नृस्त्रियोः ।चित्रा त्वाष्ट्र्यथ तज्जा स्त्री चित्रा चैत्रो परो द्वयोः ॥ ९० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.40 · p. 57
श्येता श्येनी हरिणी हरिताकपिला तुलिता भवति पिशङ्गी ।एता त्वेनी शबली चित्रासा कल्माषी किल सारङ्गी ॥ ४० ॥
metre not recognised
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.18 · p. 76
ततभेदाः कैंनदी(री) स्याच्चित्रार्थालापिनीमुखाः ।वीणायास्तु गुणस्तन्त्रीः स्त्रियां कोलम्बकस्तु ना ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.41 · p. 171
निकुम्भो दन्तिका शीघ्रा हस्तिदन्त्युपचित्रका ।चित्रा च चित्रकूला च तथोदुम्बरपर्ण्यपि ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 171
काला मालविकाथ स्याद्गवाक्षी सुरवारणी ।चित्रा मृगाक्षी गोदुग्धा सूर्याह्वा गजचिर्भिटी ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.67 · p. 102
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र लताकाण्डः Nighaṇṭuśeṣa 3.326 · p. 175
आखुपर्ण्यां पुष्पश्रेणी न्यग्रोधी शम्बरी वृषा ।चित्रोपचित्रा रण्डा च प्रत्यक्श्रेणी द्रवन्त्यपि ॥ ३२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.108 · p. 18
योनिभं फाल्गुनी पूर्वा अर्यम्णश्च तथोत्तरा ।हस्तः सवितृदेवस्तु चित्रा स्यात्त्वष्ट्टभं स्मृतम् ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.126 · p. 17
अप्येवमुत्तरायाश्च चित्रा चित्ता च चित्रिणी ।स्वाती स्त्रीपुंसयोः प्रोक्ता विशाखा विशिखा द्वयोः ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.98 · p. 15
उत्तरफल्गुनी चार्यमदेवा हस्त नामकः ।सवितृदैवतस्त्वाष्ट्री चित्रा स्वातिस्तथाऽऽनिली ॥ ९८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 3, syllable 3 तृ (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2080 · p. 344
चित्रा गवाक्षी गोडुम्बा विशाला चेन्द्रवारुणी ।एतन्नामानि मन्यन्ते विशालायाश्च साक्षरैः ॥ २०८० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.165 · p. 69
चित्रोपचित्रा सञ्चित्रा मूषिकर्णी स्वकर्णिका ।अपामार्गः शैखरेयश्चमत्कार-मयूरकौ ।धामार्गवः शैखरिकं शिखरी खरमञ्जरी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.290 · p. 78
चित्रा गवाक्षी गोतुम्बा सेटुझाटा मृकौ समौ ।वन्रबन्ध्यस्थिसिंहारो हस्तिशुण्डी बलात्मिका ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.375 · p. 106
अथावगुण्ठिका चावगुण्ठनञ्च निरिङ्गिनी ।अन्तःपटो यवनिका स्यात् तिरस्करिणी पटी ।प्रतिसीरा जवनिका चित्रा कान्तपटोऽपि च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.403 · p. 108
तूली च तूलिका तूला वर्ती वर्तिश्च वर्तिका ।वर्णको वर्णिका चेति स्यात् चित्रा चित्रकापि च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.239 · p. 237
दन्त्य-तालव्याद्याथाखुपर्ण्यां चित्रोपचित्रया ।ऐलवालुके वेलेयं वालुकं हरिवालुकम् ॥ २३९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable); pāda 3, syllable 5 के (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.541 · p. 70
चित्रोपचित्रा न्यग्रोधी रण्डा मूषिकपर्णिका ।कपिकच्छूस्त्वात्मगुप्ता कण्डूरा शूकशिम्बिका ॥ ५४१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.60 · p. 22
तामसी सात्त्विकी चित्रा चित्रोपघ्ना च राजसी ।खण्डता चेति शर्वर्यः प्रावृडाद्यृतुषु क्रमात् ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.113 · p. 54
प्रत्यक्छ्रेण्यां सुतश्रेणी द्रवन्ती शंबरी वृषा ।चित्रोपचित्रा न्यग्रोधी रण्डा मूषिकपर्ण्यपि ॥ ११३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.138 · p. 56
रेचनी महती श्वासा माया कुठरुणात्र तु ।कृष्णायां रोचनी श्यामा काला चित्रा सुषेण्यपि ॥ १३८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.173 · p. 59
अथो गवाक्ष्यां गोडुंबा चित्रा च कदले पुनः ।वृषा वारबुसा रंभा काष्ठीलानंशुमत्फला ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.117 · p. 145
स्यात्कण्ठकूणिका चाथ स्याच्चित्रा परिवादिनी ।तन्त्र्यश्चेत्सप्त ताश्चेत्स्युश्चतुर्दश चतुर्दशी ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.4 · p. 179
चित्रा मूषिकपर्णिका निगदिता चित्रा सुभद्रा स्मृतागोडुम्बापि च दन्तिकापि च तथा सर्पप्रभेदेऽपि सा ।हस्तालम्भनतारका निगदिता चित्रा तथा शाम्बरीचित्रं कर्बुरमद्भुतं तु तिलकं चालेख्यमुत्कीर्तितम् ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.417 · p. 78
देवतानुक्रमे प्रोक्त आखुराजे चिरन्तने ।कर्बुराख्यगुणेऽथ स्त्री चित्रा हेमन्तरात्रिषु ॥ ४१७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.418 · p. 78
पशुकामेष्टिभेदे च विश्रुते श्रुतिशालिनाम् ।कृष्णत्रिवृल्लताभेदे न्यग्रोधीसंज्ञभूरुहे ॥ ४१८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.419 · p. 78
गोदुम्बाख्यलताजातौ सुभद्राधुनिभेदयोः ।वेदशालिमुखे चापि नक्षत्रे चन्द्रदैवते ॥ ४१९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.420 · p. 78
तद्युक्ते कालमात्रेऽन्ये तत्कालोत्पन्नयोषिति ।द्वयोस्तु पाठीनाभिख्यमत्स्यभेदेऽथ चिल्लवाक् ॥ ४२० ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चकारादयः Paramānandīyanāmamālā 5.11.177 · p. 184
शस्त्रे दम्भान्तरे दुष्टे चित्रा दन्तीसुभद्रयोः ।दिव्यस्त्रियां च नक्षत्रमेदे चित्रमथाद्भुते ॥ १७७ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रद्विः Śivakoṣa 22.2.377 · p. 34
चित्रो हुतभुजि स्त्री तु दन्त्यैन्द्रीशम्बरीषु च ।चुक्र्यम्बष्टाचिञ्चयोर्ना वेतसाख्येऽम्लवेतसे ॥ ३७७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.11 · p. 265
कुम्भकारोपकरणे क्लीबं ना चक्रवाकके ।चारो गतौ पियालद्रुबन्धापसर्पणेषु च ॥चित्रा नक्षत्र गोडुम्बा नदी भिद्दन्तिकासु च ।मायासर्पाखुपर्णीषु नाडीसुभद्रयोः स्त्रियाम् ॥आलेख्यतिलकाश्चर्यकर्बुरेषु च न द्वयोः ।चीरं वस्त्रान्तरे रेखागोस्तनलेखनेषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.349 · p. 213
कर्ब्बुरे तिलके चित्रं सुभद्रातारयोः स्त्रियाम् ।चन्द्रः शशिनि कर्पूरे चारो बन्धापसर्पयोः ॥ ३४९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.30 · p. 232
घनाः कठिनसंघातमेघकाठिन्यमुद्गराः ।चित्रा सुभद्रा तारा च चित्रमालेख्यमिश्रयोः ॥ ३० ॥
अनुष्टुप्

चित्रा as a meaning in nānārtha verses