All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · वनौषधिवर्गप्रकाशः (3/3)
काक्षी तुवरिका ताली कालकञ्च सुराष्ट्रजम् ।मृत्तालकञ्च मृत्तालमृदा तीमरिकेत्यपि ।कैवर्ति मुस्तं गोनर्दं कैवर्ती मुस्तकं प्लवम् ॥
3.4.241 · p. 75
अनुष्टुप्
दाशपूरं दासपूरं गोपूरञ्च कुटन्नटम् ।पारिपेलं दशपूरं बालेयं परिपेलवम् ॥
3.4.242 · p. 75
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 श (wrong syllable)
ग्रन्थिपर्णं शुकं पुष्पं वर्हिःकुक्कुरं कुक्कुरे ।शुकबर्हञ्च बर्हञ्च स्थौणेयं बर्हिपुष्पकम् ॥
3.4.243 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रं (wrong syllable)
पृक्का दैवीलता पृक्का समुद्रान्ता लघुर्वधूः ।कोटीवर्षा कोटिवर्षा मरुन्माला लता मरुत् ॥
3.4.244 · p. 76
अनुष्टुप्
माला लङ्काबिका कोटिः कोटी लङ्काविका लती ।अनिर्माल्या च निर्माल्या वर्षा लङ्कोपिकेत्यपि ॥
3.4.245 · p. 76
अनुष्टुप्
निशी तपस्विनी मांसी लोमशा च किरातिनी ॥
3.4.247 · p. 76
मिशिर्मिशी च नलदं मिषिका मिषिरित्यपि ।गुडत्वकमुत्कटं भृङ्गं त्वक्पत्रञ्च वराङ्गकम् ॥
3.4.248 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्वचं चोचं त्वचा पत्रं हृद्यं सुरभिवल्कलम् ।तेजपत्रं गन्धजातं पत्रं पत्रकमित्यपि ॥
3.4.249 · p. 76
अनुष्टुप्
कर्बूरकः कल्पिकश्च काल्पको वेधमुख्यकः ।कर्वुरः स्याद्द्राविडकः काल्पो द्रविडभूतिकः ॥
3.4.250 · p. 76
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्द्रा (wrong syllable)
ओषधिर्जातिमात्रे स्यादजातौ सर्वमौषधम् ।पत्रपुष्पादिकं शाकं लोकशास्त्रानुसारतः ॥
3.4.251 · p. 76
अनुष्टुप्
मूलपत्रकरीराग्रफलकाण्डविरूटकम् ।त्वक् पुप्पं कवकञ्चैव शाकं दशविधं स्मृतम् ॥
3.4.252 · p. 76
अनुष्टुप्
तण्डुलीकस्तण्डुलीयस्तण्डुकोऽल्पमारिषः ।फलिन्यनन्ताग्निशिखा विशल्या शक्रपुष्यपि ॥
3.4.253 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ऋक्षगन्धा वृष्यगन्धा छगला बृद्धदारकः ।आवेगी छगलान्त्री च भृङ्गः स्यात् छगलान्तिका ॥
3.4.254 · p. 76
अनुष्टुप्
ब्रह्मी ब्राह्मी वयस्या च मत्स्याक्षी सोमवल्लरी ।स्वर्णक्षीरी हैमवती पटुपर्णी हिमावती ।माषपर्णी तू काम्बोजी हयपुच्छी महासहा ॥
3.4.255 · p. 76
अनुष्टुप्metre not read in every line
पीलुपर्णी रक्तफला विम्बिका तुण्डिकेर्यपि ।विम्बा विम्बी च विम्बञ्च विम्बकं विम्बजेत्यपि ॥
3.4.256 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
वर्वरी वर्वरा तुङ्गी त्वजगन्धा च गन्धिका ।कवरी खरपुष्पा च कवरा खरपुष्पिका ॥
3.4.257 · p. 76
अनुष्टुप्
एलापर्णी युक्तरसा रास्ना च सुवहा रसा ।चाङ्गेरिका स्याच्चाङ्गेरी चुक्रिका चाम्ब्ललोलिका ॥
3.4.258 · p. 76
अनुष्टुप्
अम्ब्लो दन्तशठाम्बष्ठा तथा स्यादम्ब्ललोनिका ।सहस्रवेधी चुक्रश्च शतवेध्यम्ब्लवेतसौ ॥
3.4.259 · p. 76
अनुष्टुप्
खदिरा च नमस्कारी समङ्गा गण्डकाल्यपि ।कूर्चशीर्ष-मधुरक-ह्रस्वाङ्ग-शृङ्ग-जीवकाः ॥
3.4.260 · p. 77
अनुष्टुप्metre not read in every line
पञ्चाष्टवर्गपठिते जीवकाख्ये महौषधे ।जीवन्ती जीवनी जीव्या जीवनीया मधुस्वरा ॥
3.4.261 · p. 77
अनुष्टुप्
मधुर्जीवेति जीवन्तीलतायां कनकच्छरौ ।चिरतिक्तश्चिरातिक्तस्तिक्तकोऽनार्यतिक्तकः ॥
3.4.262 · p. 77
अनुष्टुप्
किराततिक्तो भूनिम्ब-किरातक-सुतिक्तकाः ।सप्तला विमला भूरिफेणा चर्मकषेत्यपि ॥
3.4.263 · p. 77
अनुष्टुप्
सातला स्याच्चर्मकषा तथा वर्मकषापि च ।काकली वायसोली च वयस्था वायसोलिका ॥
3.4.264 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्च (wrong syllable)
रसा स्वादुरसापि स्यात् काकोल्यामष्टवर्गके ।निकुम्भो दन्तिका दन्ती प्रत्यक् श्रेणी मुकुलकः ॥
3.4.265 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
स्यादुदुम्बरपर्णी च दन्तिजा दन्तिमूलिका ।उग्रगन्धोऽजमोदा स्यादजगन्धा च दीप्यकम् ॥
3.4.266 · p. 77
अनुष्टुप्
यमानी ब्रह्मदर्भा च यवानी च यवानिका ।केचित् क्षेत्रयमान्यान्तु पूर्वार्धं संप्रचक्षते ॥
3.4.267 · p. 77
अनुष्टुप्
अथ पौष्करकाश्मीरं पद्मपत्रञ्च पुष्करम् ।पद्मचारिन्यतिचरा पद्माऽव्यथा च चारटी ॥
3.4.268 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व्य (wrong syllable)
काम्पिल्योऽपि च काम्पिल्लो रोचनी रेचनीत्यपि ।कर्कशश्चन्द्र-रक्ताङ्ग-काम्पील-रेचना अपि ॥
3.4.269 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
दद्रुघ्नोऽपि च दद्रूघ्नो दद्रुघ्नश्चक्रमर्दकः ।प्रपुन्नडं प्रपुन्नाडं पद्माट उरणाख्यकः ॥
3.4.270 · p. 77
अनुष्टुप्
उरणाक्षस्त्वेडगजश्चक्रपद्माट इत्यपि ।स्यात् पलाण्डुः पलाण्डश्च मुकन्दकमुकुन्दकौ ॥
3.4.271 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वे (wrong syllable)
अस्मिन्नेव हरिद्वर्णे लतार्को दुर्द्रुमोऽपि च ।रसोनको महाकन्दो म्लेच्छकन्दोऽपि गृञ्जनम् ।महौषधमरिष्टश्च लशुनञ्च लशूनवत् ॥
3.4.272 · p. 77
अनुष्टुप्
वर्षाभूरपि वर्षाभ्वी शोथघ्नी च पुनर्नवा ।वितुन्नं सुनिषणरञ्च वितुन्नक निषण्णकम् ॥
3.4.273 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 षण (syllable split)
ज्योतिष्मती च ज्योतिष्कापिण्या तेजस्विनी लता ।पण्या पारावताङ्घ्रिश्च कटभी तेजनीति च ॥
3.4.275 · p. 77
अनुष्टुप्
त्रायन्ती त्रायमाना च वार्षिकं बलभद्रिका ।वराहक्रान्ता वाराही शूकरी वदरेति च ॥
3.4.276 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ता (wrong syllable)
विष्वक्सेनप्रिया घृष्टिर्गृष्टिर्विष्णुप्रियेत्यपि ।भृङ्गराजो भृङ्गरजो भृङ्गारो भृङ्ग इत्यपि ॥
3.4.277 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भृ (wrong syllable)
अजागरो भृङ्गरजा मार्कवो मार्करोऽपि च ।काकमाची वायसी स्यात् कामाची काकमाचिका ॥
3.4.278 · p. 78
अनुष्टुप्
शतपुष्पा सितच्छत्रा शताक्षी शतपुष्पिका ।अवाक्पुष्पी मधुरिकाऽतिच्छत्रा मधुरा मिसी ॥
3.4.279 · p. 78
अनुष्टुप्
शताह्वा कारवी छत्रा मिशिः स्याच्च मिसिर्मिशी ॥
3.4.280 · p. 78
प्रसारणी सारणी च सरणा सरणीति च ।राजबला भद्रबला भद्रपर्णी कटुम्बरा ॥
3.4.281 · p. 78
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 ज (wrong syllable)
भद्रालपत्रिका भद्रा भद्राली भलभा लता ॥
3.4.282 · p. 78
रजनी स्यात्तु यतुका जतूका जननी जनी ।संस्पर्शा जननिश्चैव जतुका चक्रवर्तिनी ॥
3.4.283 · p. 78
अनुष्टुप्
शटी सटी गन्धसटी सुगन्धा च शटिः सटिः ।गन्धमूला गन्धमूली पलाशः कर्वूरोऽपि च ॥
3.4.284 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्वू (wrong syllable)
षड्ग्रन्थिका च कर्वूरो गन्धो निर्गन्धमूलकः ।काचल्लः कारवेल्लः स्यात् सुषवी सुशवीत्यपि ॥
3.4.285 · p. 78
अनुष्टुप्
स्यात् पटोलस्तु कुलकं कटुकस्तिक्तकं पटुः ।कुष्माण्डोऽपि च कूष्माण्डः कर्कारूः शिम्बिवर्धनः ॥
3.4.286 · p. 78
अनुष्टुप्
बाल्लाङ्किका च बाल्लङ्की कर्कटिः कर्कटीटिति च ।स्फुटिः स्फुटी स्यादिर्वारु वीर्वारुरपि मुत्रला ॥
3.4.287 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चेनालः स्याच्चित्रफलं सुखाशो राजते मिषः ।इक्ष्वाकुः कटुतुम्बी च तिक्तिका कटुतिक्तिका ॥
3.4.288 · p. 78
अनुष्टुप्
तुम्बा तुम्बकतुम्बौ च तुम्बि तुम्बी च तुम्बिका ।अलावूरप्यलावः स्यादलावुर्लावुलावुके ॥
3.4.289 · p. 78
अनुष्टुप्
चित्रा गवाक्षी गोतुम्बा सेटुझाटा मृकौ समौ ।वन्रबन्ध्यस्थिसिंहारो हस्तिशुण्डी बलात्मिका ॥
3.4.290 · p. 78
अनुष्टुप्
लिम्पाको नलदम्पुः स्याद् विशाला त्विन्द्रवारुणी ।अर्शोघ्नस्तुलकन्दश्च शूरणः सूरणोऽपि च ॥
3.4.291 · p. 78
अनुष्टुप्
समल्वोऽपि च गण्डीरः समष्ठीला समष्ठिला ।कलम्बी च कडम्बी च कलम्बुश्च कलम्बिका ॥
3.4.292 · p. 78
अनुष्टुप्
उपोदिका पोतिका स्यादुपती पोतकीत्यपि ।महाकन्दो हस्तिदन्तो मूलकं मूलकोऽपि च ॥
3.4.293 · p. 79
अनुष्टुप्
हिलमोचिर्हिलमोची वोची च हिलमोचिका ।शाकश्रेष्ठस्तु वास्तूकं वास्तुकं वस्तुकञ्च तत् ॥
3.4.294 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
मुण्डीरिका च शालाञ्चिः श्रमणाङ्का पलङ्कषा ।कञ्चटग्राहिणीत्यादाः शाकभेदास्तथा परे ॥
3.4.295 · p. 79
अनुष्टुप्
दूर्वा सहस्रवीर्या स्यादनन्ता शतपर्विका ।रुहा नन्दा भार्गवी च शतपर्वा महावरा ॥
3.4.296 · p. 79
अनुष्टुप्
शतवीर्या च गण्डाली गोलोमी शकुलाक्षकः ।अस्त्रियां मुस्तको मुस्ता कुरुविल्लोऽभ्रनामकः ॥
3.4.297 · p. 79
अनुष्टुप्
श्रीभद्रो भद्रको भद्रा गुन्द्रा च भद्रमुस्तकम् ।उच्चटा चक्रला चूडा चूडाला चेचुडा भये ॥
3.4.298 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
उच्चटाख्ये त्वम्ब्लपत्रे क्वचित् केचित् प्रचक्षते ।वंशो वेणुर्यवफलो रम्भ-त्वकसार-तेजनाः ॥
3.4.299 · p. 79
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्वक (syllable split)
शतपर्वा च कर्मारत्वचिसारतृणध्वजाः ।मङ्करोऽपि तस्यैव त्वचि न स्ती तमालकम् ॥
3.4.300 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अनिलोत्थस्वने वंशे वंशमात्रे च कीचकः ।अथ वंशाङ्कुरे न स्त्री करीरं करिरं तथा ॥
3.4.301 · p. 79
अनुष्टुप्
ग्रन्थिर्ना परुषं क्लीबे परु पर्व च पर्वकम् ।शरो मुञ्जस्तेजनकः सरः स्यात् गुन्द्र इत्यपि ॥
3.4.302 · p. 79
अनुष्टुप्
अस्त्री काशः पोटगलो दर्भश्चामरपुष्पकम् ।ईषिका चेक्षुगन्धा च काशको वनहासकः ॥वारणीकास्तु वनजा पुंसि भूभ्रि तु वल्वजाः ।इक्षुर्मधुर्मधुतृणं गुडदारुगुडतृणम् ॥
3.4.304 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ड (wrong syllable)
कोशकारः कोषकारः रसाल इक्षुरोऽपि च ।इक्षुभेदाश्च पुण्ड्रः स्यात् पुण्ड्रकः पौण्ड्रकोऽपि च ॥
3.4.305 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
तथा कान्तारकाद्याश्च विज्ञेया लोकशास्त्रतः ।वीरणं स्याद्वीरतरं विरणञ्च कटायनम् ॥
3.4.306 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वी (wrong syllable)
मूलेऽस्योशीरमस्त्री स्यादवदाहं जलाशयम् ।अमृणालं लघुलयं त्विष्टकापथकापथम् ॥
3.4.307 · p. 79
अनुष्टुप्
मृणालं नलदं सेव्यं लाज-नामज्जकाभयम् ।तृणं नलादयो गर्मुच्छ्यामाककोद्रवादयः ॥
3.4.308 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
तृणधान्यन्तु नीवार-झारकाद्यास्तु लोकतः ।वर्हिः पवितं दर्भः स्यात् कुशोऽस्त्री कुतपः कुथः ।कत्तृणं रौहिषं पौरं ध्यामं स्याद्देवजग्धकम् ॥
3.4.309 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तं (wrong syllable)
सौगन्धादिकश्च सौगन्धं रामकर्पूरके तृणे ।छत्रातिछत्र-पालघ्न शूत्रेति छत्र इत्यपि ॥
3.4.310 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अतिच्छत्रा सुगन्धा च छत्रकं कुटुकं कटुः ।छत्राकारे सुगन्धाख्ये तृणभेदोजलोद्भवे ॥
3.4.311 · p. 80
अनुष्टुप्
अथ मालातृणकर्णभूस्तृणं गन्धखेडके ।शष्पं बालतृणञ्चेति नवीनतृणके द्वयम् ॥
3.4.312 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
अथ घासो यवासन्तु यवसं जवसं तथा ।गवादिभक्ष्ययोग्येषु तृणेष्वेतत् चतुष्टयम् ॥
3.4.313 · p. 80
अनुष्टुप्
तृणं त्रिणं खटं खेटं हरितार्जुनताण्डवम् ।तृण्यं तृणसमूहे स्यान्नाड्या तु नडसञ्चये ॥
3.4.314 · p. 80
अनुष्टुप्
नारीकेली रसफलो नारिकेलिश्च लाङ्गली ।नाडीकेरो नाडीकेरः करकाम्भःपयोधरौ ॥
3.4.316 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
मत्कुणः कौशिकफलं फलमुण्डशूटाफलम् ।तथा मुण्डफलश्चापि विश्वामित्रप्रियोऽपि च ॥
3.4.317 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 शू (wrong syllable)
गुवाकोऽपि गूवाकः क्रमुकः क्रमुकीत्यपि ।आसवः खपूरः कोडस्तन्तुसारः सुरञ्जनः ॥
3.4.318 · p. 80
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पू (wrong syllable)
करमट्टो राजतालो घोण्टा पूगी च पूगवत् ।उद्वेगः स्यात्तथोद्वेगं क्लीबे पूगफले द्वयम् ॥
3.4.319 · p. 80
अनुष्टुप्
रुद्राक्षस्तु नमेरुः स्यादमलः पुष्पचामरः ।केतकः पुष्पमूचिः स्याद् जम्बालः कृकरच्छदः ॥
3.4.321 · p. 81
अनुष्टुप्