All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · बान्ताः
॥ इति फान्ताः ॥
एकबाः ।
द्विबाः ।
बिम्बं फले स्यादपि बिम्बिकायाः ।स्यान्मण्डले ऽस्त्री प्रतिबिम्बके स्या-ड्डिम्बोऽस्त्रियां विप्लवभीतिशब्दे ।पञ्चाङ्गुलप्लीहसु फुप्फुसेऽथस्तम्बोऽप्रकाण्डे द्रुतृणादिगुल्मे ॥ २७ ॥
6.24.27 · p. 274
इन्द्रवज्राmetre not read in every line
शुल्बं तु ताम्रेऽपि च यज्ञकर्म-रज्जुप्रभेदे( ? )ऽपि समित्सुरज्जौ ।सम्बा स्त्रियां स्यान्मुसलाग्रलौह-वेष्टे पवौ पुंसि च संप्रदिष्टा ॥ २८ ॥
6.24.28 · p. 275
इन्द्रवज्रा
उल्बोऽस्त्रियां स्यात्कमले जरायौकम्बुः पुमान्स्याद्वलये गजे च ।शम्बूकके स्त्री तु न शङ्खवाचीजम्बूः स्त्रियां जम्बुरपि द्रुभेदे ॥ २९ ॥
6.24.29 · p. 275
इन्द्रवज्रा
द्वीपे च मेरोः सरिति स्त्रियां तुक्ली[28a]बे तथा जाम्बवनामनि स्यात् ।क[म्बिः] खजाकापि च वंशखण्डंतुम्बा तु लक्ष्म्यामपि तिक्ततुम्ब्याम् ॥ ३० ॥
6.24.30 · p. 275
इन्द्रवज्राmetre not read in every line
कम्बूः परद्रव्यहरेऽतिधूर्त्तेजम्बस्तु जम्बीरकदन्तयोश्च ।संख्यान्तरे खर्बमुशन्ति पुंसिविशेष्यवद्वामनवाचकं च ॥ ३१ ॥
6.24.31 · p. 275
उपजातिः
क्लीबं तृतीयाप्रकृतौ स्त्रियां ननिर्विक्रमे वाच्यसमानलिङ्गम् ।
6.24.7 · p. 275
इन्द्रवज्राtwo metres in one verse
त्रिबाः ।
सिद्धार्थके नीपतरौ कदम्बोवृन्देऽन्तिमे बाणकदम्बयोस्तु ।पुमान्कलम्बो वनिता तु शाकेकादम्ब उक्तः कलहंसबाणे ॥ ३२ ॥
6.24.32 · p. 275
इन्द्रवज्राtwo metres in one verse
हेरम्ब उक्तो नरि विघ्नराजेकासारके शौर्यबलेन दृप्ते ।स्कन्धे नितम्बः कटके तथाद्रे-स्तीरे स्त्रियाश्चापि कटीप्रदेशे ॥ ३३ ॥
6.24.33 · p. 275
इन्द्रवज्रा
प्रलम्ब उक्तो दनुजेऽङ्कुरे तुतालस्य शाखास्वपि संप्रदिष्टः ।हारप्रभेदे त्रपुसे च मेघेगोतुम्ब उक्तो नरि शीर्णवृन्ते ॥ ३४ ॥
6.24.34 · p. 276
उपजातिः
फले गवाक्ष्या अथ जन्ममृत्यु-मध्यस्थसत्त्वे हरिणप्रभेदे ।पुंस्कोकिलेऽश्वे सुरगायने चगन्धर्व उक्तो नरि कोषविज्ञैः ॥ ३५ ॥
6.24.35 · p. 276
उपजातिः
भूजम्बूर्गोधूमे विकङ्कतफले च [28b] संप्रोक्ता ।
6.24.12 · p. 276
उद्गीतिःmetre not read in every line
चतुर्बाः ।
गदिता तु राजजम्बूर्जम्बूभेदे च पिण्डखर्जुरे ॥ ३६ ॥
6.24.36 · p. 276
उद्गीतिःmetre not read in every line
पञ्चबाः ।
धूलीकदम्बस्तिनिशे[च]नीपेस्यात्तिक्तशाकेऽथ शृगालजम्बूः ।गोतुम्बघोण्टाफलवाचिकापिप्रोक्तात्र कोशाम्बुधिकर्णधारैः ॥ ३७ ॥
6.24.37 · p. 276
इन्द्रवज्रा
इति बान्ताः ।
एकभाः ।
भृगुजे भो भा तु रुचौ भं नक्षत्रे भूर्भुवि स्थाने ॥ ३८ ॥
6.24.38 · p. 276
अनुष्टुप्metre not read in every line
योगे शुभं स्यात्कुशले तु षण्ढेव्याजे निभोऽस्त्री सदृशेऽन्यवच्च ।दम्भस्तु कल्के नरि कैतवे चडिम्भोऽर्भके बालिशके तथैव ॥ ३९ ॥
6.24.39 · p. 276
इन्द्रवज्रा
जम्भस्तु दैत्ये नरि भक्षणे चजृम्भे रदे दन्तशठे तु न स्त्री ।कुम्भो घटे स्यान्मिथुने च कुम्भ-कर्णस्य पुत्रे गणिकापतौ च ॥ ४० ॥
6.24.40 · p. 277
इन्द्रवज्रा
राशिप्रभेदे गजमूर्द्धपिण्डेपुमांस्त्रिवृद्गुग्गुलुगस्तु षण्ढे ।स्त्री वारिपर्ण्यां गमि(?) पाटलायांगर्भोऽर्भके स्याज्जठरे च संधौ ॥ ४१ ॥
6.24.41 · p. 277
उपजातिः
भ्रूणे तथा गर्भककण्टके स्यात्स्या[29a]ज्जृम्भणेऽथ त्रिषु जृम्भ उक्तः ।जृम्भा विकासे गृहधारणे तुस्तम्भो जडत्वेऽप्यथ रम्भ उक्तः ॥ ४२ ॥
6.24.42 · p. 277
इन्द्रवज्राmetre not read in every line
वंशे तथा वांशिकदण्डके चस्त्रियां कदल्यां त्रिदिवाङ्गनासु ।सभाऽक्षवत्यां सभिके च गोष्ठ्यांगेहेऽथ शोभा द्युतिकाङ्क्षयोश्च ॥ ४३ ॥
6.24.43 · p. 277
उपजातिः
दृग्भूः पुमांश्चक्रभुजङ्गयोः स्या-द्विशेष्यवत्स्यात्कथकेऽथ नाभिः ।मुख्ये नृपे क्षत्रियमात्रके चचक्रे च पुंसि द्वितये तु तुण्ड्याम् ॥ ४४ ॥
6.24.44 · p. 277
उपजातिः
कस्तूरिकायां गदिता स्त्रियां चविभुः शिवे व्यापिनि तु त्रिषु स्यात् ।नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात्विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥
6.24.45 · p. 277
उपजातिः
त्रिभाः ।
कनिष्ठिकान्ते मणिबन्धनात्स्यात्तथोष्ट्रशावे करभः प्रदिष्टः ।अष्टापदे स्याच्छरभो नृलिङ्गोमृगप्रभेदेप्यृषभो वृषे स्यात् ॥ ४६ ॥
6.24.46 · p. 277
उपजातिः
स्वराष्टवर्गौषधभेदयोश्चवराहपुच्छे नरि कर्णरन्ध्रे ।श्रेष्ठे पदस्याग्रगतोऽन्यवत्स्यात्स्त्री शूकशिम्ब्यां[29b]विधवाङ्गनायाम् ॥ ४७ ॥
6.24.47 · p. 278
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 श्रे (wrong syllable); pāda 2, syllable 1 स्त्री (wrong syllable)
शिरालतायां नृसमस्त्रियां चश्रेष्ठे वृषे स्याद्वृषभस्तथैव ।स्याद्वल्लभो भर्त्तरि ना कुलीना-श्वे गोधिकारिण्यपि वाच्यवत्तु ॥ ४८ ॥
6.24.48 · p. 278
उपजातिः
मनोहरे धन्वथ( ? ) वासके तुस्याद्दुर्लभः कान्तदुरापयोश्च ।स्यात्कुम्भकर्णस्य सुते निकुम्भोदन्त्यां कुसुम्भं तु भवेत्स्त्रियां न ॥ ४९ ॥
6.24.49 · p. 278
उपजातिः
कमण्डलौ स्यात्कमलोत्तरे चतथा सुवर्णेऽपि बुधैः प्रदिष्टम् ।विष्टम्भ उक्तः प्रतिबन्धके चवैदर्भके तद्वदुशन्ति सन्तः ॥ ५० ॥
6.24.50 · p. 278
उपजातिः
विश्रम्भः प्रणये च केलिकलहे विश्वासहिंसार्थयो-र्विष्कम्भः प्रतिपन्नविस्तृतिगतः स्यान्नाटकाङ्कादिगे ।योगे योगसमाधिबन्धभिदि वाथास्त्री च वीणाङ्गकेपार्थद्रौ ककुभोऽथ दर्पवधयोरुद्योगसंभ्रान्तिषु ॥ ५१ ॥
6.24.51 · p. 278
शार्दूलविक्रीडितम्
आरम्भः सुरभिः पुमानृतुपतौ गन्धे च गन्धोपलेचाम्पेये सुमनःफले च कनके स्त्री शल्लकी गोगतः ।सद्गन्धे रुचिरे च वाच्यवदथ ज्ञातौ सनाभिः[30a] समेवर्षाभूर्नरि भेककिंचुलुकयोर्वृश्चीकभेक्योः स्त्रियाम् ॥ ५२ ॥
6.24.52 · p. 278
शार्दूलविक्रीडितम्metre not read in every line
भेरीदानवयोः पुमानपि विषे स्त्रीपाशबिन्दुत्रिक-द्वन्द्वे दुन्दुभिरप्यथ क्षितिपतौ वैदर्भ आम्नायते ।वक्रत्वे वचसः स्त्रियां नरि खरे गन्धान्तरे गर्दभः ॥ ५३ ॥
6.24.53 · p. 279
शार्दूलविक्रीडितम्metre not read in every line
योषित्स्यात्पिटिकान्तरे कृमिभिदि क्लीबं पुनः कैरवेशोभादिक्षु च चम्पकस्रजि ककुभ् स्त्री स्यात्प्रवेण्यामपि ।
6.24.32 · p. 279
शार्दूलविक्रीडितम्
चतुर्भाः ।