कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (8/18)

तपस्वी शिशिरर्तौ च चन्द्रे च त्रिस्तु तापसे ।शोच्ये च स्त्री तु मास्याख्यगन्धद्रव्ये तपखिनी ॥ ८४१ ॥
4.841 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
तरस्वीति द्वयोर्व्याघ्रे वानरेऽप्यथ भेद्यवत् ।वेगवद्बलिनोरन्ये पुनः शूरेऽप्यधीयते ॥ ८४२ ॥
4.842 · p. 121
अनुष्टुप्
तरङ्गवति तु त्रि स्यात् तरङ्गी स्त्री तु कीर्तिता ।तरङ्गिणी हरिद्रायां निम्नगायां च ना पुनः ॥ ८४३ ॥
4.843 · p. 121
अनुष्टुप्
स्वर्गे स्यात् ताविषः स्त्री तु ताविषीन्द्रसुताभुवोः ।वात्यायां देवकन्यायां क्ली तु तेजसि ताविषम् ॥ ८४४ ॥
4.844 · p. 121
अनुष्टुप्
तारका त्वपुमानक्षितारानक्षत्रयोस्तथा ।दैत्यभेदे तु ना क्ली तु तारकं सर्वविन्मतौ ॥ ८४५ ॥
4.845 · p. 121
अनुष्टुप्
भेद्यलिङ्गं तु तरितृतारयित्रोरथो नपि ।कवाटोद्घाटयन्त्रे च तालकं भूषणान्तरे ॥ ८४६ ॥
4.846 · p. 121
अनुष्टुप्
पुमांस्तूष्णगुणे त्रिस्तु तद्वत्यथ नपुंसकम् ।ताम्बूलं वृक्षपत्रेऽपि मुखभूषणवस्तुनि ॥ ८४७ ॥
4.847 · p. 121
अनुष्टुप्
शुक्तिचूर्णं पूगफलं नागवल्लीदलं तथा ।इति त्रयाणां वस्तूनां समाहारात्मके भवेत् ॥ ८४८ ॥
4.848 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पू (wrong syllable)
रभसस्तूक्तवानेतद् गुवाकफलमात्रके ।ताम्बूली तु स्त्रियां नागवल्ल्यां स्यात् स्त्री तु तामसी ॥ ८४९ ॥
4.849 · p. 121
अनुष्टुप्
प्रावृण्निशायां दुर्गायां निशामात्रे तु कश्चन ।त्रिस्तमोगुणसंयुक्ते तम सम्बन्धिमात्रके ॥ ८५० ॥
4.850 · p. 121
अनुष्टुप्
ताण्डवस्त्वस्त्रियां नृत्ते तृणभेदे च भाषितः ।तारणस्तु पुमान् मासे सङ्क्रान्त्यवधिके रवेः ॥ ८५१ ॥
4.851 · p. 121
अनुष्टुप्
तारणी तु स्त्रियां गोष्ठ्यामथ स्यात् तारणा न ना ।अर्थे तारयतेस्त्रिस्तु तरणेस्तरणस्य च ॥ ८५२ ॥
4.852 · p. 121
अनुष्टुप्
सम्बन्धिनि त्रापुषं तु रजते क्ली त्रिषु त्वदः ।विकारे त्रपुणो ना तु तातलो लोहकूटके ॥ ८५३ ॥
4.853 · p. 121
अनुष्टुप्
मनोजवे तु त्रि स्याच्च तप्तेऽथो तातगुः पुमान् ।क्षुद्रताते त्रि तु हिते तातायाथास्त्रियां भवेत् ॥ ८५४ ॥
4.854 · p. 122
अनुष्टुप्
तिलकः पुण्ड्रके क्षुद्रतिले त्वेष पुमांस्तथा ।श्रीमत्संज्ञे वृक्षभेदे तथा कुरवकाह्वये ॥ ८५५ ॥
4.855 · p. 122
अनुष्टुप्
तिलकालकसंज्ञे च पिप्लुभेदे नपि त्वदः ।जठरावयवे क्लोमसंज्ञे द्वे तु हयान्तरे ॥ ८५६ ॥
4.856 · p. 122
अनुष्टुप्
एतद्रभसकोशोक्तमथ स्यात् तिमिरोऽस्त्रियाम् ।अन्धकारेऽक्षिरुग्भेदे तिमिरा तु स्त्रियामियम् ॥ ८५७ ॥
4.857 · p. 122
अनुष्टुप्
वाद्यभेदे तिरीटस्तु रक्तलोध्रे पुमानयम् ।मकुटे तु नपि स्त्री तु बदर्यां स्यात् तिरीटिका ॥ ८५८ ॥
4.858 · p. 122
अनुष्टुप्
त्रिकूटस्तु सुवेलाख्यगिरिभेदे नृलिङ्गकः ।सामुद्रलवणे तु क्ली समासाद्यत्र पूर्ववत् ॥ ८५९ ॥
4.859 · p. 122
अनुष्टुप्
तिलित्सस्तु द्वयोः सर्पभेदे गोनससंज्ञके ।तरक्षुसंज्ञके व्याघ्रभेदे त्रिदिववाक् पुनः ॥ ८६० ॥
4.860 · p. 122
अनुष्टुप्
ना स्वर्गाकाशयोः क्लीबे त्वन्ये केचित् स्त्रियां पुनः ।एलायां निम्नगाभेदे त्रिदिवां त्रिपदी पुनः ॥ ८६१ ॥
4.861 · p. 122
अनुष्टुप्
हस्त्यङ्घ्रिबन्धरज्जौ स्त्री पदत्रयसमाहृतौ ।त्रि तु यस्य पदानि स्युस्त्रीणि तत्र स्त्रियां पुनः ॥ ८६२ ॥
4.862 · p. 122
अनुष्टुप्
श्वेतासंज्ञलतायां स्यात् त्रिपुटा त्रिपुटीति च ।एलायां त्रिपुटैव स्यात् सूक्ष्मायां रभसः पुनः ॥ ८६३ ॥
4.863 · p. 122
अनुष्टुप्
मल्लिकायामपि प्राह नरः तीरसतीनयोः ।बहुव्रीहौ पुनस्त्रि स्यात त्रिवृता तु लतान्तरे ॥ ८६४ ॥
4.864 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्रिवृ (syllable split)
श्वेताख्ये स्त्री त्रिगुणिते पुनः स्यात् त्रिरथ स्त्रियाम् ।चिञ्चायां तिन्त्रिणी दैत्यविशेषे तु पुमानयम् ॥ ८६५ ॥
4.865 · p. 123
अनुष्टुप्
त्रिष्टुभा तु स्त्रियां गौरसर्षपे सितसर्षपे ।पुनर्नाथ त्रिपक्षी स्त्री पक्षत्रयसमाहृतौ ॥ ८६६ ॥
4.866 · p. 123
अनुष्टुप्
पक्षत्रयान्तकर्तव्यश्राद्धे प्रेतस्य च त्रि तु ।बहुव्रीही त्रिमार्गा तु स्त्री गङ्गायां त्रिमार्ग्यसौ ॥ ८६७ ॥
4.867 · p. 123
अनुष्टुप्
मार्गत्रयसमाहारे बहुव्रीहौ तु स त्रिषु ।अथ त्रिगन्धमेलात्वक्पत्राणां क्ली समुच्चये ॥ ८६८ ॥
4.868 · p. 123
अनुष्टुप्
अर्थलिङ्गसमासास्तु तर्कयेदत्र पूर्ववत् ।पुरत्रये तु त्रिपुरी नप्स्त्रियोस्त्रिपुरस्तु ना ॥ ८६९ ॥
4.869 · p. 123
अनुष्टुप्
मदमत्ताख्यधुर्धूरभेदेऽथ द्वे त्रिरेखवाक् ।चिक्रोडसंज्ञाखुभेदे ना तु शङ्खेऽथ भेद्यवत् ॥ ८७० ॥
4.870 · p. 123
अनुष्टुप्
बहुव्रीहावथ क्लीबं त्रिशिखं स्यात् त्रिशूलके ।शिरोभूषणभेदे च भेद्यलिङ्गं तु मन्यताम् ॥ ८७१ ॥
4.871 · p. 123
अनुष्टुप्
बहुव्रीहौ तित्तिरस्तु स्वरक्वाणाख्यपक्षिणि ।ऋषिभेदे च नाथ द्वे त्रिकेतुः शुकपक्षिणि ॥ ८७२ ॥
4.872 · p. 123
अनुष्टुप्
बहुव्रीहौ पुनस्त्रि स्यात् त्रिशङ्कुस्तु पुमानयम् ।तार्क्ष्ये मतङ्गराजे च मार्जारे तु द्वयोरयम् ॥ ८७३ ॥
4.873 · p. 123
अनुष्टुप्
त्रिधामा तु पुमान् विष्णावग्नौ चाथाभिधेयवत् ।बहुव्रीहौ वैश्रवणे पुनर्ना त्रिशिरा अयम् ॥ ८७४ ॥
4.874 · p. 123
अनुष्टुप्
दशास्यसम्बन्धिनि च रक्षोभेदेऽथ भेद्यवत् ।त्रिमूर्धे स्त्री तु गङ्गायां त्रिस्रोता रभसः पुनः ॥ ८७५ ॥
4.875 · p. 124
अनुष्टुप्
अन्यस्यामपि कस्याञ्चिन्नद्यामाहाथ भेद्यवत् ।बहुव्रीहौ त्रिवारं तु क्ली बलेऽथ द्वयोर्भवेत् ॥ ८७६ ॥
4.876 · p. 124
अनुष्टुप्
धीवर्यां ब्राह्मणाज्जाते मर्त्यजात्यन्तरेऽप्यथ ।तुषारः शीकरे पुंसि हिमभेदेऽपि कश्चन ॥ ८७७ ॥
4.877 · p. 124
अनुष्टुप्
प्रालेये शैत्यधर्मे च भेद्यलिङ्गं तु तद्वति ।तुवरो ना कषायाख्यरसे त्रिषु तु तद्वति ॥ ८७८ ॥
4.878 · p. 124
अनुष्टुप्
तुवरी तु स्त्रियां धान्य आढकीसंज्ञके तथा ।सुराष्ट्रकाह्वये चापि भेषजेऽथ तुरुष्कवाक् ॥ ८७९ ॥
4.879 · p. 124
अनुष्टुप्
ना सिल्हसंज्ञे निर्यासे राजभेदे च तस्य तु ।स्त्र्यपत्ये स्यात् तुरुष्की स्त्री देशे त्वस्य नृभूमनि ॥ ८८० ॥
4.880 · p. 124
अनुष्टुप्
तुरुष्कास्तुमुलं तु क्ली व्यामिश्रसमरेऽथ ना ।स्वरे स्याद्व्याकुले त्रिस्तु वैजयन्त्यामभाषत ॥ ८८१ ॥
4.881 · p. 124
अनुष्टुप्
रभसस्तु नरि प्राह विभीतकमहीरुहे ।तुरगी त्वश्वगन्धायां स्त्री द्वयोस्तु तुरङ्गमे ॥ ८८२ ॥
4.882 · p. 124
अनुष्टुप्
गन्धर्वाधिपभेदे तु तुम्बुरुः पुंसि भाषितः ।तिन्दुकीसंज्ञवृक्षे च क्लीबलिङ्गं तु तत्फले ॥ ८८३ ॥
4.883 · p. 124
अनुष्टुप्
तूबरस्तु पुमान् कालेऽप्यजातश्मश्रुपूरुषे ।वैजयन्त्यां तु कथितं भेद्यलिङ्गं त्रिषु त्वदः ॥ ८८४ ॥
4.884 · p. 124
अनुष्टुप्
कालेऽप्यजातशृङ्गे स्यात् पशौ शुष्कतृणे पुनः ।तृफलं शुष्कपर्णे च क्ली लतायां तु सा स्त्रियाम् ॥ ८८५ ॥
4.885 · p. 125
अनुष्टुप्
तृफलाथ तृतीयः स्यात् त्रयाणां पूरणे त्रिषु ।तृतीया तु तृतीयस्यां विभक्तौ स्त्री तथा तिथौ ॥ ८८६ ॥
4.886 · p. 125
अनुष्टुप्
धनदस्याथ वेणौ ना तेजनः शरसंज्ञके ।स्तम्बे च स्त्री तु मूर्वायां ज्योतिष्मत्यां च तेजनी ॥ ८८७ ॥
4.887 · p. 125
अनुष्टुप्
रुधिरे च विचार्य तु सूत्रकारप्रयोगगम् ।दृषंट न तेजनीदन्तादिति (?) यत् तदा न ना ॥ ८८८ ॥
4.888 · p. 125
metre not recognised
आकर्णकर्षणाच्चापि यदध्यर्धाधिकाङ्गुलम् ।आकर्षणमथाकृष्य धानुष्कैर्यदिषोर्भवेत् ॥ ८८९ ॥
4.889 · p. 125
अनुष्टुप्
सन्धानं तेजना तत्र निशाने चाथ तैतिलम् ।कायविन्यासरूपाणां करणानां क्वचिद्भवेत् ॥ ८९० ॥
4.890 · p. 125
अनुष्टुप्
एकस्मिन् करणे क्लीबं गण्डके तिलपिर्जडे (१) ।नीवृद्भेदे तु पुम्भूम्नि कलिङ्गाख्ये हि तैतिला ॥ ८९१ ॥
4.891 · p. 125
अनुष्टुप्
त्रैष्टुभं तु नपि व्योम्नि त्रिष्टुप्छन्दसि च त्रिषु ।त्रिष्टुप्सम्बन्धिनि स्यात् तु प्रगाथे त्रिष्टुबादिके ॥ ८९२ ॥
4.892 · p. 125
अनुष्टुप्
तोरणस्त्वस्त्रियां गेहे (१)बहिर्द्वारे नपि त्वदः ।तरुप्रभेदेऽस्य फले त्वरायां चाथ तोषणम् ॥ ८९३ ॥
4.893 · p. 125
अनुष्टुप्
तुष्टौ क्ली तोषणी तु स्त्री हरिद्रायामना पुनः ।तोषणा तोषयत्यर्थे तोदकस्तु पुमान् सिते ॥ ८९४ ॥
4.894 · p. 125
अनुष्टुप्
सर्षपे तोत्तरि त्वेष त्रिर्नृलिङ्गस्तु तोयदः ।मेधे क्लीबं तु धनुषि स्यादथो दक्षिणस्त्रिषु ॥ ८९५ ॥
4.895 · p. 125
अनुष्टुप्
विदग्धे च परच्छन्दानुवर्तिन्यपि भाषते ।कुशले हर्षनन्दीमं तथा यमककुब्भवे ॥ ८९६ ॥
4.896 · p. 126
अनुष्टुप्
शरीरावयवे चापि वामस्य प्रतियोगिनि ।दक्षिणा तु स्त्रियां याम्याशायामृत्विम्भृतावपि ॥ ८९७ ॥
4.897 · p. 126
अनुष्टुप्
पठति त्वत्र रभस इमां दानप्रतिष्ठयोः ।दक्षार्यस्तु पुमानग्नौ वैनतेयेऽप्यथ द्वयोः ॥ ८९८ ॥
4.898 · p. 126
अनुष्टुप्
गृध्रेऽथ दहनः पुंसि वह्नावुष्णगुणेऽपि च ।त्रि तु तद्वति शण्डे तु दाहेऽथ दरणं नपि ॥ ८९९ ॥
4.899 · p. 126
अनुष्टुप्
द्विधाभावे शुके तु द्वे दण्डकस्त्वस्त्रियामयम् ।समासप्रायवाक्ये स्यादुत्कृतेरधिकेषु च ॥ ९०० ॥
4.900 · p. 126
अनुष्टुप्
छन्दःसु नीवृद्भेदे तु महाराष्ट्राह्वये नरि ।दण्डका भूम्नि च स्त्री तु दण्डिकाल्पकलस्वने ॥ ९०१ ॥
4.901 · p. 126
अनुष्टुप्
वाद्यभेदे दण्डरूपेऽथो दण्डयितरि त्रिषु ।अथ स्याद्दर्दुरो भेके द्वयोः पुंसि तु हस्तिनः ॥ ९०२ ॥
4.902 · p. 126
अनुष्टुप्
गलस्य पार्श्वयोरुक्तो रभसस्त्वाह वारिदे ।वाद्यभेदे च सा तु स्त्री चण्डिकायां प्रकीर्तिता ॥ ९०३ ॥
4.903 · p. 126
अनुष्टुप्
दर्दरस्तु पुमाञ्छैलप्रभेदे कलशीमुखः ।इति प्रसिद्धवाद्ये च त्रि त्वीषद्भग्नवस्तुनि ॥ ९०४ ॥
4.904 · p. 126
अनुष्टुप्
दण्डिकस्तु पुमान् बाणभेदे सोऽप्युक्तलक्षणः ।त्रिभागशल्यनाराचरूप इत्यथ भेद्यवत् ॥ ९०५ ॥
4.905 · p. 126
अनुष्टुप्
दण्डवत्यथ पुल्लिङ्गो दन्तिको गृहभित्तिगे ।नागदन्ताह्वये शङ्कावथ दन्तवति त्रिषु ॥ ९०६ ॥
4.906 · p. 126
अनुष्टुप्
निकुम्भसंज्ञौषधौ तु स्त्रीलिङ्गा द(न्त?न्ति)का भवेत् ।दहरस्तु द्वयोरल्पमूषिके बालके त्रिषु ॥ ९०७ ॥
4.907 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ञौ (syllables merged)
अल्पेऽथ भ्रातरि पुमान् रभसेन समीरितः ।अथ त्रैराज्यजे द्वे स्यान्मर्त्यजात्यन्तरेऽपि च ॥ ९०८ ॥
4.908 · p. 127
अनुष्टुप्
वैश्यपूर्वक्षत्रियायां व्रात्याज्जाते प्रयुज्यते ।द्रमिलो दर्शनं तु क्ली नेत्रे शास्त्रे मते धियाम् ॥ ९०९ ॥
4.909 · p. 127
अनुष्टुप्
ज्ञाने च स्वप्नवीक्षासु क्रियायां पश्यतेरपि ।धर्मदर्पणयोस्त्वाह रभसः शब्दवित्तमः ॥ ९१० ॥
4.910 · p. 127
अनुष्टुप्
दर्शनी तूपरथ्यायां स्त्री पुरादेर्गदस्य च ।यन्त्रभेदे दर्शनार्थे दर्शना तु न ना तथा ॥ ९११ ॥
4.911 · p. 127
अनुष्टुप्
दर्शनं दर्शयत्यर्थे दर्शकस्तु पमानयम् ।द्वाःस्थेऽथ भेद्यवद्द्रष्टदर्शयित्रोरथो पुमान् ॥ ९१२ ॥
4.912 · p. 127
अनुष्टुप्
दन्ते स्याद्दशनो दंष्टिक्रियायां तु नपुंसकम् ।दशमं तु दशानां स्यात् पूरणे त्रि स्त्रियां पुनः ॥ ९१३ ॥
4.913 · p. 127
अनुष्टुप्
दशमी यमतिथ्यां स्याद् दर्वरस्तु पुमानयम् ।वज्रे स्त्रियां तु सेनायां दर्वरी स्याद्द्वयोः पुनः ॥ ९१४ ॥
4.914 · p. 127
अनुष्टुप्
दशेरः सारमेये च सर्पे चाथो नृभूमनि ।मरुसंज्ञे जनपदे दशेरा दर्पकस्तु ना ॥ ९१५ ॥
4.915 · p. 127
अनुष्टुप्
कन्दर्पे त्रिः पुनर्दृप्तदर्पयित्रोरथो पुमान् ।आदर्शे दर्पणः क्ली तु दृप्तौ दर्पयतेः पुनः ॥ ९१६ ॥
4.916 · p. 127
अनुष्टुप्
क्रियायां दर्पणा तेन(१) दमयन्ती पुनः स्त्रियाम् ।स्याद्ब्रह्मचारिदण्डे च भार्यायां च नलस्य हि ॥ ९१७ ॥
4.917 · p. 127
अनुष्टुप्
त्रिस्तु स्याद्दमयितरि दमयत् तनये पुनः ।दायादो द्वे सपिण्डेऽपि यस्त्वन्यो दायभाग्भवेत् ॥ ९१८ ॥
4.918 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्द (wrong syllable)
तत्र त्रि रभसस्त्वाह त्रिलिङ्गा दाडिमी बुधः ।एलायां मुच्चिलि(ङ्गा?न्दा)ख्यपादपे ब्रूमहे वयम् ॥ ९१९ ॥
4.919 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्लीबलिङ्गं तु विज्ञेयं प्रसवे तस्य नप् पुनः ।व्याधौ स्याद्दारुणं भेद्यलिङ्गं तु स्याद्भयङ्करे ॥ ९२० ॥
4.920 · p. 128
अनुष्टुप्
पुंल्लिङ्गो रभसेनोक्तो द्रावको घोषकाश्मनोः ।अथ द्रावयितर्येष द्रोतर्यपि च भेद्यवत् ॥ ९२१ ॥
4.921 · p. 128
अनुष्टुप्
दारकस्तु द्वयोर्बाले कश्चित्तु तरुणेऽवदत् ।धनञ्जयस्तु ब्रूते स्म पत्त्रे शब्दविदां वरः ॥ ९२२ ॥
4.922 · p. 128
अनुष्टुप्
त्रि तु भेत्तर्यथो कृष्णसारथौ दारुकः पुमान् ।दैत्यभेदे च नृनपोः पुनः कुत्सितदारुणि ॥ ९२३ ॥
4.923 · p. 128
अनुष्टुप्
दात्यूहः कालकण्ठाख्यखगे द्वे चातके तथा ।दारदस्तु पुमान् सिन्धुसंज्ञके नीवृदन्तरे ॥ ९२४ ॥
4.924 · p. 128
अनुष्टुप्
पारदे क्ष्वेडभेदे तु पुन्नपुंसकयोरयम् ।कतकाख्ये तु वृक्षे ना द्रावणो लवणान्तरे ॥ ९२५ ॥
4.925 · p. 128
अनुष्टुप्
विडसंज्ञे फले तु क्ली कतकस्याथ नप्स्त्रियोः ।द्रावणा द्रावयत्यर्थे क्लीबलिङ्गं तु दानवम् ॥ ९२६ ॥
4.926 · p. 128
अनुष्टुप्
गन्धे दमनकाख्ये स्याद् दनुजे तु द्वयोरथ ।द्वापरोऽस्त्री तृतीये स्याद् युगे संशयनेऽप्यथ ॥ ९२७ ॥
4.927 · p. 128
अनुष्टुप्
द्वादशो द्वादशानां त्रि पूरणे द्वादशी पुनः ।स्त्रियां विष्णुतिथौ त्रिस्तु द्वितीयं पूरणे द्वयोः ॥ ९२८ ॥
4.928 · p. 128
अनुष्टुप्
स्त्री तु द्वितीया भार्यायामजदैवतके तिथौ ।द्वितीयस्यां विभक्तौ च द्विजिह्वस्तु त्रि सूचके ॥ ९२९ ॥
4.929 · p. 128
अनुष्टुप्
द्वे तु सर्पे दिक्करी तु स्त्री किञ्चित्प्रौढयोषिति ।बहुव्रीही पुनस्त्रि स्याद् द्विजातिस्तु द्वयोरयम् ॥ ९३० ॥
4.930 · p. 129
अनुष्टुप्
ब्राह्मणे क्षत्त्रिये वैश्ये पक्षिण्यपि पुमान् पुनः ।पुना दिधिषुः पत्योः दिधिषूस्तु स्त्रियामियम् ॥ ९३१ ॥
4.931 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कनिष्ठपत्न्यामरतौ पुनर्भूपरिविन्नयोः ।आहुतौ च द्विजन्मा तु ना दन्ते रभसोदितः ॥ ९३२ ॥
4.932 · p. 129
अनुष्टुप्
द्वयोस्तु पठितः पूर्वैः स्याद्ब्रह्मक्षत्त्रविट्सु च ।पक्षिण्यथ दिवौकास्तु देवचातकयोर्द्वयोः ॥ ९३३ ॥
4.933 · p. 129
अनुष्टुप्
काव्यालङ्कारभेदे तु स्वरूपे चापि दीपकम् ।क्ली त्रि तु स्याद्दीपयितृदीपित्रोर्ना तु पक्षिणि ॥ ९३४ ॥
4.934 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दी (wrong syllable)
पक्षिणा येन गृह्यन्ते पक्षिणोऽन्येऽत्र ना पुनः ।महाकदम्बे नीपाख्ये दीपनः क्ली तु दीपनम् ॥ ९३५ ॥
4.935 · p. 129
अनुष्टुप्
दीपिक्रियायां त्रिषु तु दीपनी दीप्तिसाधने ।दीदिविस्तु पुमान् स्वर्गे पावके च बृहस्पतौ ॥ ९३६ ॥
4.936 · p. 129
अनुष्टुप्
नृस्त्रियोस्त्वोदनेऽथ द्वे दीर्घवाक् कुक्कुटे त्रि तु ।बहुव्रीहौ द्वीपवांस्तु समुद्रे च नदे च ना ॥ ९३७ ॥
4.937 · p. 129
अनुष्टुप्
स्त्री तु द्वीपवती नद्यां भूमौ चाथ नृलिङ्गकः ।दीर्घायुः शल्मलीवृक्षे तथा जीवतरावपि ॥ ९३८ ॥
4.938 · p. 129
अनुष्टुप्
मार्कण्डेये च काके तु द्वे त्रिः स्याच्चिरजीविनि ।दुर्वारस्तु यमे पुंसि दूरोधे त्वभिधेयवत् ॥ ९३९ ॥
4.939 · p. 129
अनुष्टुप्
दुराशः कृकलासे द्वे दुष्टाशे त्वभिधेयवत् ।दुरितं क्ली दुर्गमनेऽप्यथ स्याद्भेद्यलिङ्गकम् ॥ ९४० ॥
4.940 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दु (wrong syllable)
दुर्गते दुष्कृतं तु क्ली पापे त्रिस्त्वशुभं कृते ।द्रुहिणस्तु नृलिङ्गः स्याद् वासुदेवविरिञ्चयोः ॥ ९४१ ॥
4.941 · p. 129
अनुष्टुप्
भेद्यवत् तु भवेत् क्षुद्रे क्लीबलिङ्गं तु पाप्मनि ।दुष्टगन्धे तु दुर्गन्धः पुमान् सौवर्चले तु नप् ॥ ९४२ ॥
4.942 · p. 130
अनुष्टुप्
बहुव्रीहौ तु त्रिरथो दुर्वर्णं रजते नपि ।एलावालुकसंज्ञे च भेषजे रभसोऽपठीत् ॥ ९४३ ॥
4.943 · p. 130
अनुष्टुप्
दुष्टवर्णे तु नृनपोर्बहुव्रीहौ पुनस्त्रिषु ।दुर्जातं व्यसने क्ली त्रिरसम्यग्जातवस्तुनि ॥ ९४४ ॥
4.944 · p. 130
अनुष्टुप्
दुर्धरस्तु नृलिङ्गः स्याद् वृषभाह्वयभेषजे ।भेद्यलिङ्गं तु दुर्वारे दुर्भरे च प्रकीर्तितम् ॥ ९४५ ॥
4.945 · p. 130
अनुष्टुप्
दुर्लभस्त्वतिदुष्प्रापे यवाषे तु पुमानयम् ।दुर्मुखस्तु पुमान्नागराजभेदे द्वयोः पुनः ॥ ९४६ ॥
4.946 · p. 130
अनुष्टुप्
वानरे भेद्यलिङ्गं तु मुखरे कविभिः स्मृतम् ।दुर्दर्शा त्वविवाह्यासु कन्यास्वेकत्र या भवेत् ॥ ९४७ ॥
4.947 · p. 130
अनुष्टुप्
कुब्जा तत्र त्रिषु पुनर्दुष्प्रेक्षेऽथ नृलिङ्गकः ।दुःस्पर्शोऽथ(?) यवाषे स्याद् दुःस्पर्शा तु स्त्रियामियम् ॥ ९४८ ॥
4.948 · p. 130
अनुष्टुप्
कण्डकार्यां परस्त्वात्मगुप्तायां पठति त्रि तु ।दुःखस्पर्शे दुर्गमस्तु पुमान् स्याद्भूधरे त्रि तु ॥ ९४९ ॥
4.949 · p. 130
अनुष्टुप्
दुष्प्रवेशे दुर्गतिस्तु नरके स्त्री नरः पुनः ।पठत्यमरदत्तोऽमुं दारिद्र्ये तु स्त्रियामियम् ॥ ९५० ॥
4.950 · p. 130
अनुष्टुप्
दुष्टायां च गतौ त्रिस्तु बहुव्रीहावथो पुमान् ।भेर्यां स्याद्दुन्दुभिदैत्यविशेषे वरुणेऽपि च ॥ ९५१ ॥
4.951 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)
स्त्री तु द्यूतशलाकायां द्वे तु कीटान्तरे भवेत् ।दुग्धाशी तु शुके द्वे स्यात् क्षीराशिनि तु भेद्यवत् ॥ ९५२ ॥
4.952 · p. 130
अनुष्टुप्
दुर्नाम त्वर्शसि क्लीबं क्रिमौ तु द्वे स्त्रियां पुनः ।स्याद्दीर्घकोशिकासंज्ञजलजन्तौ त्रिषु त्वदः ॥ ९५३ ॥
4.953 · p. 130
अनुष्टुप्
दुःसंज्ञे दुष्टसंज्ञायां पुनः क्ली दूषिका पुनः ।स्त्री क्रोधवशकन्यायां त्रिषु दूषयितर्यसौ ॥ ९५४ ॥
4.954 · p. 131
अनुष्टुप्
दूषिकं त्वक्षिजमले नप्स्त्रियोः स्यात् पुनः स्त्रियाम् ।वीणाजातौ च वर्तौ च लतायां चापरः पुनः ॥ ९५५ ॥
4.955 · p. 131
अनुष्टुप्
लूतायामित्यभाषिष्ट दृष्टान्तस्तु पुमानयम् ।शास्त्रे तथोदाहरणे बहुव्रीहौ तु भेद्यवत् ॥ ९५६ ॥
4.956 · p. 131
अनुष्टुप्
दृशानस्तु त्रियु द्रष्टर्यादित्ये त्वभ्यधुर्नरम् ।दृशीकस्तु त्रिषु वपुष्मति क्लीबं तु लोचने ॥ ९५७ ॥
4.957 · p. 131
अनुष्टुप्
देवार्हं तु सुवर्णे स्याद् रसविद्धे नपुंसकम् ।देवयोग्ये पुनस्त्रि स्यादथ स्यात् पुंसि देवनः ॥ ९५८ ॥
4.958 · p. 131
अनुष्टुप्
ज्ञेयो द्यूतशलाकायां क्ली क्रीडाविजिगीषयोः ।व्यवहारे द्युतौ कान्तौ स्तुतिगत्योरना पुनः ॥ ९५९ ॥
4.959 · p. 131
अनुष्टुप्
देवना देवयत्यर्थे परिदेवन एव च ।देवयुस्त्वृत्विजि पुमान् होमे च त्रि तु धार्मिके ॥ ९६० ॥
4.960 · p. 131
अनुष्टुप्