कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निर्हारिन्

nirhārinपुं · masc.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1390 · p. 53
गन्धो जनमनोहारी सुरभिर्घ्राणतर्पणः ।समाकर्षी तु निर्हारी स आमोदो विदूरगः ॥ १३९० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.11
समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः ।इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.172 · p. 74
गच्छति दूरं किल यो गन्धःस समाकर्षी नरि निर्हारी ।आमोदः स्यादतिनिर्हारीकस्तूरीवत्किल यो गन्धः ॥ १७२ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.284 · p. 87
कषायतुबरौ तुल्यौ निर्हारी घ्राणतर्पणः ।इष्टगन्धिः समाकर्षी सुगन्धिः सुरभिस्तथा ॥ २८४ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2526 · p. 410
सुरभिश्च समाकर्षी गन्धश्च घ्राणतर्पणः ।तथा जनमनोहारी निर्हारी नाम विद्यते ॥ २५२६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.335 · p. 24
समाकर्षी तु निर्हारी गन्धो दूरोपहारकः ।स्यादिष्टगन्धः सुरभिः सुगन्धो घ्राणतर्पणः ॥
अनुष्टुप्
genderपुंmasc.