सुगन्धि
sugandhiपुं · masc.In 18 kośas: 37 synonym verses, 3 as a nānārtha head word, 3 as a meaning of another word.
विमर्दोत्थः परिमलोऽथामोदी मुखवासनः ।इष्टगन्धः सुगन्धिश्च दुर्गन्धः पूतिगन्धिकः ॥ १३९१ ॥
अनुष्टुप्
genderविadj.
समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः ।इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥
अनुष्टुप्
genderविadj.
एलावालुकमैलेयं सुगन्धि हरिवालुकम् ।वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
सुगन्ध्यल्पफला मेचा घनः कर्पूरभूरुहे ।बन्धुको बन्धुजीवश्च सप्रलापा विभावरी ॥ २४३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुगन्धिः कोमलः शालिः षष्टिगस्तस्य भेदके ।प्रवरः शालिकः षष्टिः कमलस्तु कलावकः ॥ २५९ ॥
अनुष्टुप्
genderपुंmasc.
चम्पा सितेतरा च स्यात्सुगन्ध्यल्पफला स्मृता ।बृहत्फला तु माहेन्द्री सबीजा सुरशाल्मली ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
शम्बूकस्तन्मलेऽपि स्याज्ज्येष्ठाम्बु तु तदम्बुनि ।सिंहे सुगन्धि पारीन्द्रो वृषाङ्गः पञ्चमङ्गलः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
पुंसि क्लीबे शालियोग्यः सुगन्धिः सूक्ष्मपत्रकः ।जनप्रियो बीजधान्यं धान्यं बीजश्च वेधकम् ॥ १९२ ॥
अनुष्टुप्
genderपुंmasc.
विषरूपा श्यामकन्दा शृङ्गी श्वेतवचारुणा ।उपात्प्रप्रत्योर्विषाथ सुगन्धिर्ग्रन्थिला हिमा ॥ ३८७ ॥
अनुष्टुप्
genderस्त्रीfem.
मधूली स्त्रीष्टगन्धि स्यात्सुगन्धिः सौरभोऽपि च ।सौरभ्यः सुरभिः पुंसि घ्राणतर्पण इत्यपि ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
सुगन्धिः स्यात्स्फुटफलो रुद्राक्षस्तु शिवप्रियः ।पावनोक्षश्च सर्पाक्षो नमेरुर्भूतनाशनः ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
दोषक्लेशी विषघ्नः स्यात्सुगन्धिर्वनवर्वरी ।प्रसन्नकः सूक्ष्मपत्रो निद्रालुः शोफहार्यपि ॥ २९२ ॥
अनुष्टुप्
genderपुंmasc.
अतिच्छत्रो गुह्यबीजः सुगन्धिः पुंस्त्वविग्रहः ।व्यङ्गरोधश्च बधिरोऽप्यन्यो भूतृण इत्यपि ॥ ३५९ ॥
अनुष्टुप्
genderपुंmasc.
सुरसः सुरभिग्रन्थिः स च स्यान्मुखवासनः ।सुगन्धिरूषरो भूरिपत्रोऽपि च तृणोत्तमः ॥ ३६० ॥
अनुष्टुप्
genderपुंmasc.
सुगन्धिः पूर्णिमासश्च पौर्णमासो यमोऽपि च ।वलाकश्च सुवीरश्च महाराजिकसंज्ञकः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
मिश्रकेशी सुगन्धिश्च विद्युत्स्पर्शा तिलोत्तमा ।अदृश्या लक्ष्मणा क्षेमाप्यसिता रुचिका तथा ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्पूरस्य समानः स्यादामोदी मुखवासनः ।इष्टगन्धः सुगन्धिः स्यात्सुरभिर्घ्राणतर्पणः ॥ १७३ ॥
अनुष्टुप्
genderपुंmasc.
असनश्चासनश्च स्यादथान्यः कृष्णसर्जकः ।सुगन्धिर्नीलनिर्यासः पुष्पवृक्षोऽलकप्रियः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कटुकं कटुकासस्यं तथा कटुफलं च तत् ।कङ्कोलकं पूगफलं लवङ्गं सुमनःफलम् ॥घनसारश्चेति पञ्च सुगन्धि समुदीरितम् ।ताम्बूलवल्ली ताम्बूली नागवल्ली च नागिनी ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
एल्वालुकं कुष्ठगन्धि वालुकं च सुगन्धि च ।सुवर्णप्रसरं चाथ स्थौणेयं ग्रन्थिपर्णकम् ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
ब्रह्मतीर्थं पद्मवर्णं धीरं स्यात्पुण्यसागरम् ।सुगन्धि स्याद्वृक्षरुहमथ हट्टविलासिनी ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
सुगन्धिर्नीलनिर्यासस्तिष्यः पुष्पोऽलकप्रियः ।स तु द्विधा शिखिग्रीवः श्रेष्ठो गोमूत्रकोऽधमः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
एलावालुके त्वैलेयं वालुके हरिवालुकम् ।सुगन्ध्यालुकमेल्वालं दुर्वर्णं प्रसरं दृढम् ॥ २३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
genderक्लीneut.
तत्पर्णं विदलं प्राहुस्तत्फलं पुष्कलं विदुः ।सुगन्धिस्तद्वितरणे तच्छाया चन्द्रिका स्मृता ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
सिंहः सुगन्धिः पारीन्द्रः शार्दूलः श्वेतपिङ्गलः ।कण्ठीरवो महानादो हरिः शार्दूलविक्रमः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
कषायतुबरौ तुल्यौ निर्हारी घ्राणतर्पणः ।इष्टगन्धिः समाकर्षी सुगन्धिः सुरभिस्तथा ॥ २८४ ॥
अनुष्टुप्
genderविadj.
इष्टगन्धोऽतिसुरभिः सुगन्धि घ्राणतर्पकः ।आमोदः सुखकृद्गन्धो दुर्गन्धः पूतिगन्धकः ॥ ३३० ॥
अनुष्टुप्
genderविadj.
आमोदश्च परिमलो गन्धो वासो विमर्दजः ।इष्टगन्धः सुगन्धिः स्यात्सुरभिर्घ्राणतर्पणः ॥ ६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंmasc.
genderविadj.
एलवालुकामैलेयमेलबालञ्च वालुकम् ।स्यादैलवालुकं वालु सुगन्धि हरिवालुकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderक्लीneut.
मनोज्ञगन्धे सुरभिगन्धिरुच्छ्रितगन्धिनि ।उद्गन्धिरिष्टगन्धी तु सुगन्धिर्विस्रमित्यदः ॥ २९१ ॥
अनुष्टुप्
genderविadj.
वीरद्रुश्च सुगन्धिः स्यादर्जुनश्च (नाख्यो ?) धनंजयः ।अश्वकर्णो लतावृक्षः कुशिको दीर्घवृन्तकः ॥ ४६० ॥
अनुष्टुप्
genderपुंmasc.
जतु द्रुमामयो यावोऽलक्तो रागश्च दीपकः ।एलवालुकमैलेयं सुगन्धि हरिवालुकम् ॥ १४९४ ॥
अनुष्टुप्
genderक्लीneut.
सुगन्ध्यल्पफला मोचा साष्ठी काष्ठी कदल्यपि ।आमलक्यां षडस्रा स्याच्छुक्लपुष्पा हरीतकी ॥ १८०१ ॥
अनुष्टुप्
genderस्त्रीfem.
कण्ठीरवो मृगरिपुः सुगन्धिर्हरितो हरिः ।हलीक्ष्णस्तृणसिंहः स्यात् कुटरुर्मूगासिंहकः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 गा (wrong syllable)
genderपुंmasc.
मागधश्चाथ सूक्ष्मोऽसौ कणजीरण ओसरः ।अग्निमन्थो हृद्यगन्धः सुगन्धिः कालिका कणा ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ।एलावालुकमैलेयं सुगन्धि हरिवालुकम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
सुगन्धि as a meaning in nānārtha verses
- धरणिकोश शैलेयआत्रेयो मुनिरात्रेयी सरिद्भेदो रजस्वला । शैलेयं तु सुगन्धि स्याच्छैलेयं तु शिलान्तरम् ॥ Dharaṇikośa 25.2.32
- शब्दरत्नावली सुरभिवल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु । वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥ विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः । योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥ विस्रम्भः प्रणये केलिकोपविश्वासयोरपि । विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥ वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि । शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥ सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च । सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥ वसन्ते चम्पके जातीफलगन्धफले पुमान् । क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥ Śabdaratnāvalī 7.24.13
- त्रिकाण्डशेष तिक्तव्याप्तविस्तृतवाद्येषु ततं तिक्तं सुगन्ध्यपि । चापे तृणत्वे तृणता तातः पित्रनुकम्पयोः ॥ १५८ ॥ Trikāṇḍaśeṣa 3.3.158