कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

प्रथमं काण्डम् · धीवर्गः

इति कालवर्गः

अथ धीवर्गः ।

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम् ।
1.5.2
अनुष्टुप्
अवधानं समाधानं प्रणिधानं तथैव च ॥
1.5.3
अनुष्टुप्
चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा ।
1.5.4
अनुष्टुप्
विमर्शो भावना चैव वासना च निगद्यते ॥ २ ॥
1.5.2
अनुष्टुप्
अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः ।सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥
1.5.3
अनुष्टुप्
मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् ।
1.5.7
अनुष्टुप्
समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥
1.5.4
अनुष्टुप्
संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः ।अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥
1.5.5
अनुष्टुप्
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
1.5.10
अनुष्टुप्
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् ।
1.5.11
अनुष्टुप्
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।
1.5.12
अनुष्टुप्
कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥
1.5.8
अनुष्टुप्
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥
1.5.9
अनुष्टुप्
विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।
1.5.15
अनुष्टुप्
आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् ॥ १० ॥
1.5.10
अनुष्टुप्
समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः ।इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥
1.5.11
अनुष्टुप्
पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् ।
1.5.18
अनुष्टुप्
शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः ॥ १२ ॥अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः ।
1.5.19
अनुष्टुप्
हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३ ॥
1.5.13
अनुष्टुप्
कृष्णे नीलासितश्यामकालश्यामलमेचकः ।
1.5.21
अनुष्टुप्
पीतो गौरो हरिद्राभः पलाशो हरितो हरित् ॥ १४ ॥
1.5.14
अनुष्टुप्
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ।
1.5.23
अनुष्टुप्
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥
1.5.15
अनुष्टुप्
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।
1.5.25
अनुष्टुप्
कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥
1.5.16
अनुष्टुप्
चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ।गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥
1.5.17
अनुष्टुप्