कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

स्वर्गकाण्डः · धीवर्गः (2/2)

प्रवह्लिका प्रहेलिकानुयोगदूतिका तथा ।विपादिका च सा भवेद्दुरूहकानुयोजनम् ॥ १९ ॥
1.5.19 · p. 67
पञ्चचामरम्
समासार्था समस्या स्यात्कविशक्तिपरीक्षिणी ।पदसंघटना रीतिर्वैदर्भी मधुराक्षरा ॥ २० ॥
1.5.20 · p. 67
अनुष्टुप्
ओ[43b]जःप्रकाशिवर्णाढ्या गौडी साडम्बरा भवेत् ।तत्संकीर्णा तु पाञ्चाली लाटी सार्थविशेषणा ॥ २१ ॥
1.5.21 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उत्साहवर्धनं त्वोजो माधुर्यं मानसद्रवः ।काव्यात्मा तु प्रसादः स्याच्छ्रुत्यैवार्थप्रकाशकः ॥ २२ ॥
1.5.22 · p. 67
अनुष्टुप्
अन्त्यमक्षरमादाय प्रतिश्लोकं क्रमेण यः ।यथान्यः पठ्यते श्लोकः प्रतिमालेति सा मता ॥ २३ ॥
1.5.23 · p. 67
अनुष्टुप्
जनश्रुतिः किंवदन्ती निन्द्या त्वेषाभिशंसनम् ।लोकापवादः कौलीनं विगानं वचनीयता ॥ २४ ॥
1.5.24 · p. 67
अनुष्टुप्
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स पुरातनम् ।इति हाव्ययमैतिह्यं वर्णौकोऽस्त्री तु पुस्तकम् ।उत्थानं पुस्तमस्त्रीयाथादर्शः प्रतिपुस्तकम् ॥ २५ ॥
1.5.25 · p. 67
अनुष्टुप्
लेखकोऽक्षरचणोऽक्षरचञ्चुर्वार्णिको * * * * क्षरजीवः ।गान्धिको लिपिकरो लिपिशिल्पी स्यादसौ लिपिकरो लिपिवृत्तिः ॥ २६ ॥
1.5.26 · p. 68
स्वागताmetre not read in every line
लिपिर्लिबिः स्त्रियौ लेखे यवनानी पुनर्भवेत् ।लिपिर्या यवनानां स्यादथ वाचिकहारकः ॥वर्णदूतः स्वस्तिमु[44a]खश्चीरकोऽधिक्रिया युतः ।अभिलाषयुतो यूनोरसौ कामार्त्तिवेदकः ॥ २७ ॥
1.5.27 · p. 68
अनुष्टुप्metre not read in every line
अनङ्गलेखोऽथ मसी निशिश्च मिथुनमसि(?) ।मलिनाम्बुः काञ्चनिका मेला धातुपलः पुमान् ॥ २८ ॥
1.5.28 · p. 68
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 न (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
क्लीबे पत्राञ्जनं च स्यान्मेलान्धुर्मषिकूपिका ।स्याद्वार्गनं चाथ मेलानन्दो मसिमणिर्द्वयोः ॥ २९ ॥
1.5.29 · p. 68
अनुष्टुप्
कलमो लेखनी वर्णतूलिका वर्ण(र्णि?)का स्त्रियः ।तूलिका कूचिका चित्रलेखनी च स्त्रियो मताः ॥चरमे चित्रमालेख्यं लिषिः स्त्री चित्रलेखनम् ।लेखीलको लेखहारो चित्रयन्त्रेषु संचकः ॥लेखबर्हं लेखपत्रं वाचनं तु प्रहेलनम् ॥ ३१ ॥
1.5.31 · p. 68
अनुष्टुप्
आख्याभिक्षा(ख्या?)भिधा संज्ञाह्वा गोत्रं नाम चास्त्रियाम् ।शर्माह्वया नामधेयमभिधानं च न स्त्रियाम् ॥ ३२ ॥
1.5.32 · p. 68
अनुष्टुप्
संबोधनमामन्त्रणमाह्वानं त्वभिमन्त्रणं गदितम् ।आकारणा तु हूतिः संहूतिः सा कृता बहुभिः ॥ ३२ ॥
1.5.32 · p. 68
आर्याmetre not read in every line
व्यवहारस्तु विवादः स्थेयं तु स्थानमेतस्य ।वाङ्मुखमत्यादानं (?) स्यादुद्ग्रा[44b]हो स्वप(?)न्यासः ॥ ३३ ॥
1.5.33 · p. 68
metre not recognised
उपोद्घात उदाहारः प्रकृतौपयिकं वचः ।समयः शपथः पुंसि शपनं तु नपुंसके ॥ ३४ ॥
1.5.34 · p. 69
अनुष्टुप्
कथंकथिकता पृच्छा ज्ञीप्सा प्रश्नोऽनुयोगवत् ।तत्रोपालम्भसहिते भवेत्पर्यनुयोजनम् ॥ ३६ ॥
1.5.36 · p. 69
अनुष्टुप्
विना तु पात्रं यः प्रश्नो नभोदर्शनपूर्वकम् ।आकाशभाषितं तत्स्याद्दैवप्रश्न उपश्रुतिः ।उत्तरं प्रतिवचः प्रतिवाक्यमस्त्रियां तु चटुलं चटु चाटु ।चाटुकं च हृदयंगमहृद्ये सूनृतं त्रिषु त(भ)वेत्प्रियसत्ये ॥ ३८ ॥
1.5.38 · p. 69
अनुष्टुप्two metres in one verse
मिथ्याभियोगस्तु मृषाविवादोऽभ्याख्यानमन्त्येऽथ मृषाभिशस्तिः ।मनोभिशापोऽथ भवेत्प्रणादः शब्देऽनुरागप्रभवेऽत्र पुंसि ॥ ३९ ॥
1.5.39 · p. 69
उपजातिः
श्लोको वर्णो ना यशोऽन्ते समाज्ञा-भिक्षा(ख्या) कीर्तिः सा समज्ञा प्रशस्तिः ।श्लाघा क्रीडा स्त्री स्तुतिः स्यान्नुतिश्चस्तोत्रं नूतिः स्त्री स्तवश्चार्थवादः ॥ ४० ॥
1.5.40 · p. 69
शालिनी
विकल्प(त्थ?)नं मृषाश्लाघा निन्दा कुत्सा च धिक्कृतिः ।जुगुप्सा गर्ह[45a]णा क्षेपोऽपवादोऽवर्ण इत्यपि ॥ ४१ ॥
1.5.41 · p. 69
अनुष्टुप्metre not read in every line
निर्वादश्च परीवाद उपक्रोशोऽथ भर्त्सनम् ।अपकारवचोऽथ स्यात्पारुष्यं दुष्टभाषणम् ॥ ४२ ॥
1.5.42 · p. 69
अनुष्टुप्
शाप आक्रोश आक्षेपोऽभिषङ्गः क्षारणा त्वसौ ।आक्षारणा दूषणा च क्षारणं मैथुनं प्रति ॥ ४३ ॥
1.5.43 · p. 69
अनुष्टुप्
आक्रोशे स्यादकरणिः स्त्रियामजननिस्तथा ।हू(?)त्कारस्तारशब्दः स्यात्त्राणार्थो महतां पुरः ॥ ४४ ॥
1.5.44 · p. 69
अनुष्टुप्
पृष्ठमांसादनं क्लीबे परोक्षे दोषकीर्तनम् ।मन्मनं मन्दवचनं दंपत्योः केलिकालजम् ॥ ४५ ॥
1.5.45 · p. 69
अनुष्टुप्
उच्चैर्घुष्टं घोषणाम्रेडितं तुद्विस्त्रिः प्रोक्तं काकु वाक्ये न पुंसि ।उल्लापने स्याद्गह्वरो पुष्टशब्दोवारं वारं भाषणे चानुलापः ॥ ४५ ॥
1.5.45 · p. 70
शालिनीmetre not read in every linenearly शालिनी
व्यलीकाविष्कृतिरुपालम्भः स तु सगर्हणः ।परिभाषणमालापस्त्वापृच्छाऽऽभाषणं तथा ॥ ४६ ॥
1.5.46 · p. 70
अनुष्टुप्
आशीः स्त्री मङ्गलाशंसानिष्टाशंसा तु गालिका ।नमोवाको नमःशब्दः संनतिस्तत्र च स्त्रियाम् ॥ ४७ ॥
1.5.47 · p. 70
अनुष्टुप्
वचोऽनर्थकं स्यात्प्रलापो विरुद्धंत्विदं विप्रलापः [45b] शुभं सुप्रलापः ।वचः सोपहासं भवेच्चर्चरी स्त्रीतथा चर्भटी चर्चरं चर्चरीकम् ॥ ४८ ॥
1.5.48 · p. 70
भुजङ्गप्रयातम्metre not read in every line
स्याद्विलापो विलपनं न नरः परिदेवनम् ।संलापः संकथा स्त्री स्यादन्योन्यपरिभाषणम् ॥ ४९ ॥
1.5.49 · p. 70
अनुष्टुप्
विभाषा तु स्त्रियामुक्ता विकल्पवस(च?)नार्थकाः ।अपलापो निह्नवः स्यात्संदेशोक्तिस्तु वाचिकम् ।प्रसिद्धिशब्दे टंकारो म्लेच्छितं पारभाषिके ॥ ५० ॥
1.5.50 · p. 70
अनुष्टुप्
चित्रोक्तिः पुष्पशकटी ब्रह्मवादः श्रुतिध्वनिः ।काकुर्द्वयोः शिरःकम्पपूर्वा या विकृतिध्वनिः ॥अहेतुर्व्योमशब्दः स्यान्निर्घाते व्योममुद्गरः ।स्त्रियामुद्धूतकलिका भवेदुत्कण्ठवाचिकम् ॥ ५१ ॥
1.5.51 · p. 70
अनुष्टुप्
विशेष्यलिङ्गास्तु परे शुभा वाक्-कल्पा च कल्या रुशती त्वभव्या ।तथा रुशन्ती मधुरं तु भूयःसान्त्वं वचोऽवाच्यमनक्षरं स्यात् ॥ ५१ ॥
1.5.51 · p. 71
उपजातिः
विक्रुष्टं किल निष्ठुरं च परुषं रूक्षं तथाश्लीलकंग्राम्यं ग्रस्तमिदं विलुप्तपदकं म्लिष्टं पुनश्चास्फुटम् ।क्षिप्रोक्तं तु निरस्तमाहतमिदं मिथ्यार्थकं स्यादथा-वध्य(द्यं?)व्यर्थ[46a]मबद्धकं तु विफलं चोच्चावचं तद्भवेत् ॥ ५२ ॥
1.5.52 · p. 71
शार्दूलविक्रीडितम्metre not read in every line
परस्परपराहतं भवति संकुलं क्लिष्टकंव्यलीकमनृतप्रियं तुमुलमाकुलं सम्मतम् ।अलीकमनृतं तथा वितथमत्र मिथ्या मृषामृषोद्यमयथातथं न विकृतयथास्त्रियां(?) टट्टरी ॥ ५३ ॥
1.5.53 · p. 71
पृथ्वीmetre not read in every line
अयाथातथ्यमायाथातथ्यं भावे नपुंसके ।अम्बूकृतं सनिष्ठीवं गद्गदं श्लिष्टवर्णकम् ॥ ५४ ॥
1.5.54 · p. 71
अनुष्टुप्
सत्यं तथ्यं भूतं सम्यगृतं स्यात्समीचीनम् ।सदथाव्ययं यथार्थं यथातथं स्याद्यथास्थितं च मतम् ॥ ५५ ॥
1.5.55 · p. 71
उद्गीतिः
शब्दो निनादो निनदो नदोऽपिनादो ध्वनि-ध्वान-रवारवाः स्युः ।आराव-संराव-विराव-घोष-निर्घोष-निःस्वान-रण-स्तनाश्च ॥ ५६ ॥
1.5.56 · p. 71
इन्द्रवज्रा
ह्रादः स्वरो निःस्वनवत्कृतः स्यान्निह्रादि-मायू अपि रुत्पुनः स्त्री ।सीत्कार एष प्रमदाजनस्यदन्तक्षताद्यैरुदितः प्रदिष्टः ॥ ५७ ॥
1.5.57 · p. 71
इन्द्रवज्रा
रतिभवो रणितं मणितं समेवसनपर्णभवः स च मर्मरः ।पिकभवः स कुहू रुतमन्तिमेपतगजे त्विह कूजि[46b]तकूजने ॥ ५८ ॥
1.5.58 · p. 72
द्रुतविलम्बितम्metre not read in every line
भूषणजन्मनि शिञ्जितमन्त्येशिञ्जा गुञ्जा गुञ्जितमलिजे ।वाशित-विरुते स्तश्च तिरश्चांक्रन्दनकणिते पीडाभाजाम् ॥ ५९ ॥
1.5.59 · p. 72
metre not recognised
शर्द्धनं पर्द्दनं पायुजे कर्द्दनंकुक्षिजे सूतिजे कुन्थनं कुन्थितम् ।क्षीजनं वेणुजे भेरिजे दर्दुरोदर्दुरोत्थे रवो हंभ-रंभे गवाम् ॥ ६० ॥
1.5.60 · p. 72
स्रग्विणी
रेषा रेषणमेष वृकोत्थःकुक्कुरजे स्तो बुक्क[न]भषणे ।विस्फारः स्याद्धनुषो नादोमौर्वीनिनदष्टंकारः स्यात् ।समरेषु पराक्रम्य शूराणां हर्षजे ध्वनौ ।घु(बु)क्कारः सिंहनादः स्यात्क्ष्वेडा क्ष्वेडितमन्तिमे ॥ ६१ ॥
1.5.61 · p. 72
अनुष्टुप्metre not read in every line
मर्द्दलशब्दो गुन्दल उक्तःप्रक्वाणस्तु प्रक्वद(ण) उदितः ।संक्वाणः*संक्वणयुक्तोवीणाशब्देऽन्येऽपि तथेह ॥ ६२ ॥
1.5.62 · p. 72
metre not recognised
क्वणः क्वाणो निक्वणश्च निक्वाणः क्वणनं तथा ।वीणान्यवाद्यजे शब्दे प्रतिश्रुत्स्त्री प्रतिध्वनिः ।समन्ततस्तु संरावे क्लीबे सांराविणं भवेत् ।कोलाहलः कलकलोऽत्र च डिम्बमस्त्रीभेरी[47a]सहस्रशतके पटहायुते च ।अभ्याहते युगपदारव एष कोणा-घातः पुमान्विशिखपक्षरवस्त्रिसूत्कः (?) ॥ १६४ ॥
1.5.164 · p. 73
अनुष्टुप्two metres in one verse
स्पार्शनः स्पर्शनः स्पर्शस्त्वङ्मयः स चतुर्विधः ।उष्णः शीतः कठोरश्च मृदुस्तद्वत्त्वमी त्रिषु ॥ १६५ ॥
1.5.165 · p. 73
अनुष्टुप्
क्रूरः खरः कठोरः कर्क्कशमस्त्री कठो जरठः ।कक्खट-खक्खट-परुषा निष्ठुर-कठिनौ च कर्करोऽप्यत्र ॥ १६६ ॥
1.5.166 · p. 73
उद्गीतिः
मृदु मृदुलं सुकुमारं कोमल-सोमाल-पेलवान्याहुः ।म्रदिमा पुंसि मृदुत्वं मार्द्दवमन्त्ये स्त्रियां तु मृदुता स्यात् ॥ १६७ ॥
1.5.167 · p. 73
गीतिः
स्याद्विकाशो व्यजस्तालवृन्तं व्यजनमाम्बरम् ।आलावर्तं तज्जलार्द्रं जलार्द्रा सा तु वारिमुक् ॥ १६८ ॥
1.5.168 · p. 73
अनुष्टुप्
ऊर्ध्वाधो मत उत्क्षेपो विस्तृतो वीजने ततः ॥ १६९ ॥
1.5.169 · p. 73
धुवित्रं च धवित्रं च व्यजनं मृगचर्मणः ।मयूरपिच्छजं बार्हं व्यजने वीजनं न ना ॥ १७० ॥
1.5.170 · p. 73
अनुष्टुप्
गन्धस्तु स्यान्नासाबन्धुरथायं मनोहरा(रो?) जगतः ।समर्द्दस्तु परिमलः स बकुलसुमनः[47b] समान इत्यन्ये ॥ १७१ ॥
1.5.171 · p. 74
गीतिःmetre not read in every line
गच्छति दूरं किल यो गन्धःस समाकर्षी नरि निर्हारी ।आमोदः स्यादतिनिर्हारीकस्तूरीवत्किल यो गन्धः ॥ १७२ ॥
1.5.172 · p. 74
metre not recognised
कर्पूरस्य समानः स्यादामोदी मुखवासनः ।इष्टगन्धः सुगन्धिः स्यात्सुरभिर्घ्राणतर्पणः ॥ १७३ ॥
1.5.173 · p. 74
अनुष्टुप्
दुर्गन्धः पूतिगन्धिः स्यात्पूतिरप्यत्र सम्मतः ।आमगन्धि भवेद्विस्रं दन्तोष्ठ्याद्यपि सम्मतम् ॥ १७४ ॥
1.5.174 · p. 74
अनुष्टुप्
गन्धेनोद्गतमुद्गन्धि त्रये सुरभिगन्ध्यपि ।उपमाने पद्मगन्धि स्तोकार्थे घृतगन्धि च ॥ १७५ ॥
1.5.175 · p. 74
अनुष्टुप्
सौगन्ध्यं सौरभ्यं सौरभमपि तस्य भावेऽन्त्ये ।गन्धद्रव्यक्रेतरि गान्धिक-सौगन्धिकौ त्रितये ॥ १७६ ॥
1.5.176 · p. 74
metre not recognised
उशीरिको नलदिकस्तद्वत्किसरिको मतः ।तत्तत्क्रेता स्त्री तथा चेदुशीरिक्यादिका हि सा ॥ १७७ ॥
1.5.177 · p. 74
अनुष्टुप्