All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
स्वरादिकाण्डः · स्वर्गवर्गप्रकाशः (3/5)
स्त्रीपुंसयोर्मरीचिस्त्विड्दीधितिद्युतयः स्त्रियाम् ।आभाप्रभाविभाभारुग्रुचिभाश्छविदीप्तयः ॥
2.1.241 · p. 17
अनुष्टुप्
रश्मिर्भानुः करोऽभीषुर्महो ज्योतिर्महोऽपि च ।तथा रोचिः शोचित्विषी त्विषा पृश्निरपि स्त्रियाम् ॥
2.1.242 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 चि (wrong syllable)
अन्धकारोपशमे रश्मिकार्ये त्रयं भवेत् ।प्रकाश आतपो द्योतो रश्मिनामेति कुत्रचित् ॥
2.1.243 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कवोष्णं कोष्णं मन्दोष्णं कदुष्ण तद्वति त्रिषु ।तीक्ष्मं तिग्मं खरं चण्डममूनि त्रिषु तद्वति ॥
2.1.244 · p. 17
अनुष्टुप्metre not read in every line
मृगतृष्णा मृगतृषा मृगतृट् स्यान्मरीचिका ।कालः स्वयम्भूः समयस्त्वनेहा दिष्ट इत्यपि ॥
2.1.245 · p. 18
अनुष्टुप्
प्रतिपत् पक्षती स्त्री द्वे तदाद्यास्तिथयो द्वयोः ।पुंनपुंसकयोर्वारदिवसांशकवासराः ॥
2.1.246 · p. 18
अनुष्टुप्
घस्रो दिवाव्ययं व्युष्टमंशकं क्लीबमित्यपि ।प्रभातं गोस-गोसंज्ञौ प्रत्यूषप्रत्यूषे अपि ॥
2.1.247 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्यू (wrong syllable)
प्रत्यूष उषसी ऊषः प्रत्युषं कल्यमूषकम् ।अहर्मुखमुषापयूषा निशान्तञ्च विभातवत् ॥
2.1.248 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सायो दिनान्तः सायाह्णो विकालः सायमित्यपि ।सन्ध्या पितृप्रसूः सन्ध्या स्याद्ब्रह्मभूतिरित्यपि ॥
2.1.249 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्म (wrong syllable)
त्रिसन्ध्यं प्राङ्क्षु मध्याह्णापराह्णैः परिकीर्तितम् ।रात्रिर्विभावरी श्यामा घोरा याम्या तमस्विनी ॥
2.1.250 · p. 18
अनुष्टुप्
तुङ्गी त्रियामा क्षणदा निशा नक्तं निशीथिनी ।रजनी यामिनी दोषा वासतेयी तमी तमा ॥
2.1.251 · p. 18
अनुष्टुप्
क्षपा शताक्षी क्षणिनी निशीथ्या चक्रभेदिनी ।शर्वरी शार्वरी शय्या वासुरा च निषद्वरी ॥
2.1.252 · p. 18
अनुष्टुप्
ऊषा यामवती भौती निट् क्षिपा नक्तमव्ययम् ।यस्यां मत्तालिनिस्वानः श्वनिशंश्व (?) निशा च सा ॥
2.1.253 · p. 18
अनुष्टुप्
अथ सा तामसी या स्यात्तमोयुक्ता विभावरी ।ज्योत्स्नी ज्योत्स्ना ज्योत्स्निका सा भवेत् ज्योत्स्नान्विता निशा ॥
2.1.254 · p. 18
अनुष्टुप्
गणरात्रं निशाबृन्दे प्रदोषो रजनीमुखे ।अर्धरात्रौ निसम्पातो निशीथोऽवसरालयः ॥
2.1.255 · p. 18
अनुष्टुप्
उच्चन्द्रोऽपररावस्तु शेषरात्रौ भवेद्द्वयम् ।द्वौ यामप्रहरौ पुंसि भूतः कृष्णाचतुर्दशी ॥
2.1.256 · p. 18
अनुष्टुप्
पक्षान्तप्रतिपन्मध्ये पर्वसन्धिर्भवेत् पुमान् ।अमावास्या पौर्णमासी द्वयं पञ्चदशी किल ॥
2.1.257 · p. 18
अनुष्टुप्
अत्रैव पुंसि पक्षान्तः पक्षावसर इत्यपि ।अमावास्याऽप्यमावस्या तथैवामावसीति च ॥
2.1.258 · p. 18
अनुष्टुप्
अमावासी च दर्शः स्यादमासूर्येन्दुसङ्गमः ।यत्र चन्द्रकला दृष्ट्वा सिनीबालीति सा स्मृता ॥
2.1.259 · p. 18
अनुष्टुप्
नष्टचन्द्रकला सैव कुहूः कुहुरुदाहृता ।दीपान्विता च दीपाली दीपमालान्विता हि सा ॥
2.1.260 · p. 18
अनुष्टुप्
पूर्णिमा पूर्णमा चान्द्री पौर्णमासी च पौर्णमी ।पुण्यसारा पर्वमुखी धर्मवासर इत्यपि ॥
2.1.261 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
शारदी कौमुदी चाश्वयुजी स्याद्द्यूतपूर्णिमा ।शतपर्वा रङ्गभूतिः सैव कोजागराह्वया ॥
2.1.262 · p. 19
अनुष्टुप्
राहुग्रासयुते चण्डभानौ हिमकरेऽपि च ।सोपप्लवोपरक्तौ द्वावौपग्रस्तिक इत्यपि ॥
2.1.264 · p. 19
अनुष्टुप्
अग्नेरुत्पातयोगे स्यादग्न्युत्पात उपाहितः ।एकयोक्तया पुष्पवन्तौ चन्द्रभानुसुधाकरौ ॥
2.1.265 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्यञ्जनान्तमदन्तञ्च शब्दमेतद्द्विधा जगुः ।पक्ष्मस्पन्दनकाले तु निमेषो निमिषोऽपि च ॥
2.1.266 · p. 19
अनुष्टुप्
तैरष्टादशभिः काष्ठा काष्ठात्रिंशत् कला स्मृता ।कलास्त्रिंशत्क्षणः ते तु मुहूर्तो द्वादशक्षणाः ॥
2.1.267 · p. 19
अनुष्टुप्
पक्षः पूर्वोऽपरश्चापि शुक्लः कृष्ण इति द्वयम् ।पक्षद्वयेन मासः स्यान्मासश्च वर्षांश इत्यपि ॥
2.1.270 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मासाश्चतुर्विधाश्चान्द्रसौरनाक्षत्रसावनाः ।शुक्लप्रतिपदादिस्तु दर्शान्तश्चान्द्र उच्यते ॥
2.1.271 · p. 19
अनुष्टुप्
त्रिंशता दिवसैरेव सावनः परिकीर्तितः ।चान्द्रोऽपि द्विविधो ज्ञेयो गौणमुख्यविभेदतः ॥
2.1.273 · p. 19
अनुष्टुप्
गौणः कृष्णप्रतिपदादिः पौर्णमास्यन्त ईरितः ।मुख्यस्तु पूर्वमेवोक्तः सर्वत्र व्यापको हि सः ॥
2.1.274 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
एवं मासादिगदितगणनाक्रमयोगतः ।अविशेषान्मुख्यस्थानं विद्वद्भिर्योजयिष्यते ॥
2.1.275 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्मु (wrong syllable)
अथ षड्भिः सौरमासैरयनं परिकीर्तितम् ।अयने द्वे चन्द्रभानोरुत्तरा दक्षिणा गतिः ॥
2.1.276 · p. 19
अनुष्टुप्
भवेदुत्तरया गत्या मकरे चोत्तरायणम् ।गत्या दक्षिणया चैव कर्कटे दक्षिणायणम् ॥
2.1.277 · p. 20
अनुष्टुप्
रात्रिन्दिवं समं यत्र काले तद्विषुवद्भवेत् ।विषुवं विषुपं विष्वग् विश्वगित्यपि कुत्रचित् ।महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्णितम् ॥
2.1.278 · p. 20
अनुष्टुप्
विषुवाभ्यां वत्सरः स्यादिति शब्दविदां मतम् ।तथा स्याज्जलविषुवं क्रमादाश्विनचिह्णितम् ॥
2.1.279 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ज्ज (wrong syllable)
विशाखा तारकायुक्ता वैशाखीपूर्णिमा भवेत् ।सा वैशाखी यत्र मासे वैशाखः स प्रकीर्तितः ॥
2.1.280 · p. 20
अनुष्टुप्
ज्येष्ठायुक्ता पौर्णमासी ज्यैष्ठीमासे तु यत्र सा ।स मासो ज्यैष्ठ इत्येवाषाटाद्या दशापरे ॥
2.1.281 · p. 20
metre not recognisednearly अनुष्टुप्
तथाग्रहायणे मार्ग आग्रहायणिकः सहः ।मार्गशीर्षः सहामार्गशिरोऽग्रहायणोऽपि च ॥
2.1.282 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
पौषे तैष सहस्यश्च तिष्यः तिष्यक इत्यपि ।विद्वद्भिः कथितः सर्वैर्माघे च मकरस्तपाः ॥
2.1.283 · p. 20
अनुष्टुप्
फाल्गुने स्यात् फाल्गुनिकस्तपस्यः फल्गुनोऽपि च ।चैत्रे मधुश्चैत्रिकः स्यात् चैत्रकश्चित्रकोऽपि च ॥
2.1.284 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 फा (wrong syllable)
वैशाखे माधवो राधो ज्यैष्ठे ज्येष्ठश्च शुक्रवत् ।भवेदाषाट आसाटोऽप्यषाटः शुचिरित्यपि ॥
2.1.285 · p. 20
अनुष्टुप्
श्रावणः स्यात् श्रावणिकः नभाश्च नभ इत्यपि ।स्यान्नभस्यः प्रोष्ठपदो भाद्रो भद्रपदस्तथा ॥
2.1.286 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्रा (wrong syllable); pāda 3, syllable 5 प्रो (wrong syllable)
आश्विनः स्यादश्वयुज इष आश्वयुजोऽश्वयुक् ।कार्त्तिकः स्यात् कार्त्तिकिको बाहुलोर्जौ च कौमुदः ॥
2.1.287 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
हेमन्तः शिशिरश्चैव वसन्तो ग्रीष्म एव च ।वर्षा शरच्च संप्रोक्त ऋतुः षट्संख्यकः पुमान् ॥
2.1.288 · p. 20
अनुष्टुप्
हेमन्तो मार्गपौषाभ्यां शिशिरः माघफाल्गुनौ ।वसन्तश्चैत्रवैशाखौ ग्रीष्मो ज्यैष्ठशुची अपि ॥
2.1.289 · p. 20
अनुष्टुप्
वर्षा श्रावणभाद्रौ च शारदाश्विनकार्त्तिकौ ।हेमन्तहैमनावस्त्री शिशिरः शीतलस्तपाः ॥
2.1.290 · p. 20
अनुष्टुप्
वसन्तः सुरभिः पुष्पसमयो मधुरित्यपि ।ग्रीष्मे शुचिनिदाघोष्णतपोष्णोपगमा अपि ॥
2.1.291 · p. 20
अनुष्टुप्
तथा उष्णोपगम इत्येवमुष्माभिगम इत्यपि ।स्त्रियां बहुत्वे वर्षाः स्युर्घनकालो जलार्णवः ॥
2.1.292 · p. 20
अनुष्टुप्
स्त्रियां प्रावृट् प्रावृषौ च मेघागमघनाकरौ ।स्त्रियां शरच्च शरदा कालप्रभात इत्यपि ॥
2.1.293 · p. 21
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प्र (wrong syllable)
संवत्सरो हायनोऽस्त्री वत्सरः शरदा शरत् ।अब्दो वर्षञ्च वरिषं समाः स्त्री संवदित्यपि ॥
2.1.294 · p. 21
अनुष्टुप्
युगांशको मासमानः कालग्रन्थिश्च तर्वटः ।सत्यं त्रेता द्वापरश्च कलिरेवं चतुर्युगम् ॥
2.1.295 · p. 21
अनुष्टुप्
कृतं सत्यं सत्ययुगं त्रेता यज्ञियमेव च ।द्वापरः पार्थनीयश्च (?) झर्झरः कर्मजः कलिः ॥
2.1.296 · p. 21
अनुष्टुप्
अहोरात्रः पितॄणान्तु नृणां मासेन कीर्तितः ।देवतानामहोरात्रो नृणां वर्षेण कथ्यते ॥
2.1.297 · p. 21
अनुष्टुप्
द्वे सहस्रे युगे दैवे अहोरात्रः प्रजापतेः ।अहोरात्रेण तेनैव नृणां कल्पद्वयं भवेत् ॥
2.1.298 · p. 21
अनुष्टुप्
अथ मन्वन्तरं दैवयुगानामेकसप्ततिः ।प्रलयकल्पकल्पान्तसंवर्तलयसंक्षयाः ॥
2.1.299 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
दुरितं पातकं तूस्तं कल्कं दुष्कृतकिल्विषम् ।एनः शल्यं पङ्कमस्त्री पाप्मा पापकमित्यपि ॥
2.1.301 · p. 21
अनुष्टुप्
धर्मोऽस्त्री सुकृतं पुण्यं श्रेयो धर्त्रं वृषोऽपि च ।मुत्प्रीतिः प्रमोदामोदसम्मोदमोदसम्मदाः ॥
2.1.302 · p. 21
अनुष्टुप्metre not read in every line
प्रमोदो हर्ष इत्येष हर्षपर्याय इरितः ।आनन्दो नन्दथुर्नन्दः सुखमानन्दथुर्मुदा ॥
2.1.303 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 इ (wrong syllable)
सौख्यं शर्मोपजोषं स्यादानन्दं जोषमित्यपि ।मुदादिजोषमित्यन्तं एकपर्याय इत्यपि ॥
2.1.304 · p. 21
अनुष्टुप्
मङ्गलं भावुकं भव्यं कल्याणं भविकं शुभम् ।अस्त्री क्षेमं प्रशस्तञ्च भद्रं श्वश्रेयसं शिवम् ॥
2.1.305 · p. 21
अनुष्टुप्
अरिष्टं कुशलं रिष्टं मद्रञ्च शस्तमित्यपि ॥
2.1.306 · p. 21
मतल्लिका प्रकाण्डोऽस्त्री तल्लजः स्यान्मचर्चिका ।उद्घ इत्येष पर्यायः प्रशस्तवाचको मतः ॥
2.1.307 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
शुभावहो विधिर्यः स्यादय इत्यभिधीयते ।भागं भाग्यं भागधेयं नियतिः स्त्री विधिः पुमान् ॥
2.1.308 · p. 21
अनुष्टुप्
दैवं दृष्टमदृष्टञ्च भाग्यपर्याय ईरितः ।कारणं पुंसि हेतुः स्यात् करणं बीजमित्यपि ॥
2.1.309 · p. 22
अनुष्टुप्
आदिकारणमित्येतन्निदानं तत् प्रकीर्तितम् ।आत्मा स्वो जीवः पुरूषः क्षेत्रज्ञः पुरुषोऽपि च ॥
2.1.310 · p. 22
अनुष्टुप्
अन्तर्यामीश्वरश्चैव पुद्गलः परसंज्ञकः ।विशेषः कालिको यः स्यादवस्था परिकीर्तिता ॥
2.1.311 · p. 22
अनुष्टुप्
उत्पत्तिर्जन्मजनुषी जननञ्च जनिर्द्वयोः ॥
2.1.313 · p. 22
उद्भवः प्रभवो भावो भवः सम्भव इत्यपि ।जनूर्जनुः प्रजननं जन्म पर्याय ईरितः ॥
2.1.314 · p. 22
अनुष्टुप्
हृन्मानसं मनः स्वान्तं चेतश्चित्तमनङ्गकम् ।अङ्गञ्च हृदयञ्चेति मनःपर्याय ईरितः ॥
2.1.315 · p. 22
अनुष्टुप्
बुद्धि प्रज्ञा मनीषा धीः शेमुषी धिषणा मतिः ।चित् सम्बित् चेतना प्रेक्षा संज्ञोपलब्धिरात्मजा ॥
2.1.316 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
पण्डा स्यात् प्रतिपज्ज्ञप्तिर्ज्ञानं विज्ञानमित्यपि ।अथ मेधा निगदिता या बुद्धिर्धारणावती ॥
2.1.317 · p. 22
अनुष्टुप्
चित्तस्य परिपूर्णत्वे मनस्कारो निगद्यते ।विचरणे तु पर्यायश्चर्चा संख्या विचारणा ॥
2.1.319 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
तर्को वितर्को व्यूहः स्यादूह ऊहा वितर्करणम् ।अध्याहारोऽध्याहरणमूहनञ्च प्रतर्कणम् ॥
2.1.320 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यत्र न्यूनपूरणार्थं गृह्यते चाधिकं पदम् ।अध्याहार स विज्ञेय इति भेदः क्वचिद्भवेत् ॥
2.1.321 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
सन्देहो विचिकित्सा तु संशयो द्वापरोऽपि च ।स्यान्निर्नये निर्नयणं निश्चयो निचयोऽपि च ॥
2.1.322 · p. 22
अनुष्टुप्
अथ नास्तिकतायान्तु मिथ्यादृष्टिर्निगद्यते ।अपि द्रोहचिन्तने तु व्यापादः परिकीर्तितः ॥
2.1.323 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
चोद्यं देश्यं पूर्वपक्षः फक्किका चापि कुत्रचित् ।अथ सिद्धान्तराद्धान्तकृतान्ता वाढमेव च ॥
2.1.324 · p. 23
अनुष्टुप्
सत्यमुत्तरपक्षोऽपि समाधिर्वाद इत्यपि ।भ्रमो मिथ्यामतिर्भ्रान्तिर्मतिभ्रान्तिमतिर्भ्रमः ॥
2.1.325 · p. 23
अनुष्टुप्
आं प्रतिज्ञा प्रतिज्ञानं अङ्गीकारः प्रतिश्रवः ।ओम् समाधिः सम्बिदागूः स्त्रियामाश्रवसंश्रवौ ॥
2.1.326 · p. 23
अनुष्टुप्
नियमश्चाभ्युपगमो वाढमामोमिहाव्ययम् ।मोक्षे बुद्धिर्भवेज्ज्ञानं मोक्षादन्यत्र कुत्रचित् ॥
2.1.327 · p. 23
अनुष्टुप्
या बुद्धिः शिल्पशास्त्रादौ विज्ञानं तत् प्रकीतितम् ।मुक्तिर्निःश्रेयसं श्रेयः कैवल्यममृतं परम् ।मोक्षोऽपवर्गो निर्वाणं मुक्तिपर्याय ईरितः ॥
2.1.328 · p. 23
अनुष्टुप्
अविद्याऽहंमतिः स्त्री स्यादज्ञाने परिकीर्तिता ।रूपः शब्दस्तथा गन्धो रसः स्पर्शस्तु पञ्च वै ॥
2.1.329 · p. 23
अनुष्टुप्
इन्द्रियार्थगोचराः स्युर्विषयाः परिकीर्तिता ।स्यादिन्द्रियस्तु करणं हृषीकं विषयि स्मृतम् ।गुदोपस्थं हस्तपादं वाक् च कर्मेन्द्रियं भवेत् ॥
2.1.330 · p. 23
अनुष्टुप्metre not read in every line
मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके ।बुद्धीन्द्रियमिति प्राहुः शब्दकोषविचक्षणाः ॥
2.1.331 · p. 23
अनुष्टुप्
अस्त्री कषायो मधुरो लवणः कटुरेव च ।तिक्तोऽम्लश्च षट्पुमांसो रसाः स्युर्गुणवाचकाः ॥
2.1.332 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
गुणिवृत्ता वाच्यलिङ्गाः कषायस्तुवरो मतः ।तूवरश्चेति पर्यायः कषायस्य प्रकीर्तितः ॥
2.1.333 · p. 23
अनुष्टुप्
समाकर्षी तु निर्हारी गन्धो दूरोपहारकः ।स्यादिष्टगन्धः सुरभिः सुगन्धो घ्राणतर्पणः ॥
2.1.335 · p. 24
अनुष्टुप्
शुक्लः श्चेतः शितिर्गौरो विशदो विषदोऽपि च ।सितः श्येतः पाण्डरः स्यात् पाण्डुरो हरिणः शुचिः ॥
2.1.337 · p. 24
अनुष्टुप्
शुभ्रोऽवदातो धवलो बलक्षो रजतोऽर्जुनः ।पाण्डुरित्येष पर्यायो धवले परिकीर्तितः ॥
2.1.338 · p. 24
अनुष्टुप्
य ईषद्धवलो वर्णः कीर्तितः स च धूसरः ।कृष्णो नीलः शितिः कालः श्यामल-श्याम-मेचकाः ॥
2.1.339 · p. 24
अनुष्टुप्
असितश्चेति पर्यायः कृष्णवर्णस्य कीर्तितः ।पीतो गौरो हरिद्राभः पीतपर्याय ईरितः ॥
2.1.340 · p. 24
अनुष्टुप्
हरिद्वर्णे तु पालाशः श्यामश्च हरितो हरित् ।रक्तोत्पलनिभः शोणो रक्तो लोहित-रोहितौ ॥
2.1.341 · p. 24
अनुष्टुप्
अरुणोऽव्यक्तरागः स्यात् पाटलः श्वेतरक्तकः ।कृष्णपीतस्तु यो वर्णः स श्यावः कपिशोऽपि च ॥
2.1.342 · p. 24
अनुष्टुप्
कृष्णलोहितमिश्रस्तु धूम्रो धूमल उच्यते ।कपिलः पिङ्गलः पिङ्गः पिशङ्गः कापिलो हरिः ॥
2.1.343 · p. 24
अनुष्टुप्
बभ्रुः कद्रुः कडारश्च पर्यायः पिङ्गले मतः ।चित्रं विचित्र-शारङ्ग-शवलाः कर्वुरोऽपि च ॥
2.1.344 · p. 24
अनुष्टुप्
एतः कवरकिर्मीरकल्माषचित्रला अपि ।किर्मीरः चित्रवर्णस्य पर्यायः परिकीर्तितः ॥
2.1.345 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
इह किर्मीरपर्यन्ताः पुंसि शुक्लादयो गुणे ।गुणिवृत्ता वाच्यलिङ्गा इति शब्दविदो विदुः ॥
2.1.346 · p. 24
अनुष्टुप्
इरा सरस्वती ब्राह्मी भाषा वाणी च शारदा ।गिरा गीश्च गिरांदेवी गीर्देवी भारतीश्वरी ॥
2.1.347 · p. 25
अनुष्टुप्
वाक् वाचा वचसामीशा वाग्देवी वर्णमातृका ।वचनं भाषितञ्चोक्तिर्व्याहारो लपितं वचः ॥
2.1.348 · p. 25
अनुष्टुप्
वाग्देवी-वचसोरेष पर्यायः परिकीर्तितः ।यथास्थानं यथायोगं भेद उह्यो मनीषिभिः ॥
2.1.349 · p. 25
अनुष्टुप्
अपभ्रंशोऽपशब्दस्तु शास्त्रे यः स्यादसंस्कृतः ।संस्कृतः साधुशब्दश्चेत् शास्त्रे शब्द इतीरितः ॥
2.1.350 · p. 25
अनुष्टुप्
त्यादिस्याद्यन्तनिचयो वाक्यमेकं विदुर्बुधाः ।क्रियाकारकयुक्ता वा वाक्यमित्थं परे जगुः ॥
2.1.351 · p. 25
अनुष्टुप्
वेद आम्नायनिगमौ छन्दो ब्रह्म श्रुतिः स्त्रियाम् ।अथ वेदविधिर्यः स्यात् त्रयीधर्मस्तु स स्मृतः ॥
2.1.352 · p. 25
अनुष्टुप्
ऋक् स्त्रियां सामयजुषी वेदास्त्रय इति त्रयी ।शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ॥
2.1.353 · p. 25
अनुष्टुप्
च्छन्दश्चेति षडङ्गानि वेदानां वैदिको विदुः ।वेदादिः प्रणवो ब्रह्माक्षर उङ्कार ईरितः ।अथेतिहासो व्यासादिरचितो भारतादिकः ॥
2.1.354 · p. 25
अनुष्टुप्
स्यादुदात्तोऽनुदात्तश्च समाहारस्त्रयः स्वराः ।न्यायवैशेषिकादिः स्यात् तर्कविद्या प्रतिष्ठिता ॥
2.1.355 · p. 25
अनुष्टुप्
तस्यामान्वीक्षिकी ज्ञेया तत्रात्मज्ञानमुन्नयेत् ।बृहस्पतिप्रभृतिभिः प्रणीतञ्चार्थशास्त्रकम् ॥
2.1.356 · p. 25
अनुष्टुप्
तत्रैव दण्डनीतिः स्यादत्र ज्ञेयो नयानयौ ।आख्यायिकोपलब्धार्था कादम्बर्यादिषु द्वयम् ॥
2.1.357 · p. 25
अनुष्टुप्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितञ्चेति पुराणं पञ्चलक्षणम् ॥
2.1.358 · p. 25
अनुष्टुप्
सत्यासत्यविरचने दृष्टादृष्टे च या कृतिः ।प्रबन्धस्य कल्पना स्यात् कथा च परिकीर्तिता ॥
2.1.359 · p. 25
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 त्य (wrong syllable); pāda 3, syllable 4 स्य (wrong syllable)
कूटार्थभाषिता सैव प्रश्नदूती प्रहेलिका ।प्रवह्लिका च सा ज्ञेया प्रवह्लीका च कुत्रचित् ॥
2.1.360 · p. 25
अनुष्टुप्