कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कषाय

kaṣāyaपुं · masc.

In 19 kośas: 25 synonym verses, 12 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1389 · p. 53
वक्त्रभेदी तु तिक्तोऽथ कषायस्तुवरो रसाः ॥ १३८९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.9
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.771 · p. 88
अपकारो भवेद्द्रोहो दोष आदीनवो मतः ।कषायं तुवरं प्रोक्तं सुरुङ्गा सन्धिरुच्यते ॥ ७७१ ॥
अनुष्टुप्
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.253 · p. 89
कषायो नागवाक् पूगः फले पर्कटमित्यपि ।पक्वे लघुः खरं शुष्के चिक्कणचिक्कणेऽपि च ॥ २५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात चतुःसंख्यावाचकाः शब्दाः- Ekādisaṃkhyāsaṃjñākoṣa 4.9 · p. 200
ब्रह्ममुख-वेद-हरिभुज-सुरगजरद-वर्ण-चतुरिकास्तम्भाः ।सङ्घ-समुद्राशमघात(?)-गोस्तना-ऽऽश्रम-कषाय-दिशः ॥ ९ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.321 · p. 168
बिम्बादौ दृश्यते सोथ तूवरो रसनाशठः ।तुवरोपि कषायः स्यादस्त्रियां स्यात्स चोत्तरः ॥ ३२१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.190 · p. 269
वल्लीवृक्षो वीरपर्णः शालः स्यादजकर्णकः ।कषायो ललनो गन्धवृक्षो रालोऽथ वंशकः ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.205 · p. 271
सुशोणः कलनश्चाथ धवस्तु मधुरत्वचः ।शुकवृक्षो दृढतरुः कषायो गौर इत्यथ ॥ २०५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.173 · p. 480
हिरण्यारण्यसख्यानां राजसूयकषाययोः ।स्याद्वाजपेयमलयशल्यानां वलयस्य च ॥ १७३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.49 · p. 58
लवणः स्यात्सर्वरसः * * पटुरथास्य मृट् (?) ।कटूषण-कटोलाश्च मुखभेदी तु तिक्तकः ।तीक्ष्णः क्षारश्च सकटु लवणात्मक उच्यते ।तुबरस्तूबरश्चास्त्री कषायस्तद्वति त्रिषु ॥ ४९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.57 · p. 114
क्षये( ? )तु जन्यं धननाम्नि दायंशल्यं च कुल्यं कवियं कषायम् ।मैरेयवत्कम्बलिबाह्यतूर्येस्फ्यराजसूयाव्ययवाजपेयाः ॥ ५७ ॥
उपजातिः
genderपुंक्लीm. n.
एते शब्दा नपुंसके भवन्ति । इदं धान्यं सस्यम् । द्विदलं मुद्गादीनाम् । अंशुकं वस्त्रम् । वितानं वस्त्रमयमावरणम् । वलयं सुवर्णादीनाम् । रत्नं मणिः । मिथुनं स्त्रीपुंसद्वन्द्वम् । श्मशानं मृतस्थानम् । बिसं पद्ममूलम् । तिमिरं तमः । अग्रं शिखरं श्रेष्ठं वा । खमाकाशम् ।पुञ्जाद्रिकोणकरीषकषायतरत्नपिण्याकगर्भदर्भार्भकश्च पुंसि स्युः ।पतनशुल्बताम्रचापनाम्नां नपुंसकता ॥ ६५ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.63 · p. 15
कषायो नागवाक्पूगः फले तस्य तु पर्कटम् ।तच्छुष्के खरमित्युक्तं चिक्कणं चक्कणं मतम् ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.284 · p. 87
कषायतुबरौ तुल्यौ निर्हारी घ्राणतर्पणः ।इष्टगन्धिः समाकर्षी सुगन्धिः सुरभिस्तथा ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.150 · p. 229
कुट्टिमः कुसुमः क्षेमक्षौमौ संगम इत्यपि ।कषायाः प्रमयो वाजपेयतूर्यौ च गोमयम् ॥ १५० ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.306 · p. 21
सुस्वादो मधुरो मिष्टः चुक्रोऽम्लः कटुकः कटुः ।कषायस्तूबरः क्षारी लवणः तिक्ततीक्ष्णकौ ॥ ३०६ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.79 · p. 42
मिष्टं स्वादुश्च मधुरः कषायस्तुवरो रसः ।पाचनोऽम्लो दन्तशठः कटुकः कटुरुषणः ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2525 · p. 409
कषायस्तुवरश्चैव तूवरोऽपि निगद्यते ॥ २५२५ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.332 · p. 23
अस्त्री कषायो मधुरो लवणः कटुरेव च ।तिक्तोऽम्लश्च षट्पुमांसो रसाः स्युर्गुणवाचकाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.290 · p. 39
गन्धे परिमलामोदौ सौरभ्यं सौरभोऽस्त्रियाम् ।घ्राणतर्पणगन्धे तु कषायः सुरभिः कटुः ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.40 · p. 55
वेधको मालयस्तु स्याच्छ्रीखण्डो रौहिणश्च सः ।विच्छित्तिस्तु कषायः स्यात्समालम्भनमित्यपि ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.19 · p. 84
विनाकृतं विरहितं मुक्तं निर्व्यूढमुच्यते ।तिक्तः कषायः सुरभिः कक्खटो निर्भरो दृढः ॥ १९ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.217 · p. 63
क्रमुके वाटिका घोण्टा गुवाकः क्रूर आसवः ।कषायो रागवान् पूगः फले पर्कटमस्य तत् ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.141 · p. 184
जायुः पुंस्यगदस्तन्त्रं भैषज्यौषधभेषजम् ।क्वाथः कषायो निर्यूहः फाण्टोऽतिक्वाथजो रसः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.27 · p. 198
कषायोऽस्त्री स्वप्रतिष्ठस्तुवरो मधुरांगकः ।मधुराम्लौ सलवणौ कटुतिक्तकषायकाः ॥ २७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.153
निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः ॥ १५३ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.813 · p. 93
कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः ।शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
अनुष्टुप्
meanings
धरणिकोश Dharaṇikośa · धरणिदास यश्लोकः Dharaṇikośa 25.3.21 · p. 161
कषायो रुधिरे विष्टे रसभेदे सुगन्धिके ।क्वाथे द्रव्येऽङ्गरागे च श्योनाके चेति सप्तसु ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.63 · p. 295
आहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजेतार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः सम्मतः ।क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदेनिर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥
शार्दूलविक्रीडितम्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.64 · p. 296
स्याच्छोणे सुरभौ भवेत्स परगोऽथाम्नाय उक्तः श्रुता-वभ्यासेऽपि च संततौ निगदितो ज्ञैः संप्रदायेऽपि च ।स्थाने पक्षिनिकेतने च गदितो विज्ञैः कुलायस्तथाऽथोपायो नरि सामभेदविषये चोपागतौ सम्मतः ॥ ६४ ॥
शार्दूलविक्रीडितम्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.347 · p. 76
कषायस्तुवराभिख्यरसे क्वाथरसे तथा ।निर्यासे सौरभे च स्यादनुरागाङ्गरागयोः ॥ ३४७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.348 · p. 76
रागद्रव्ये रक्तवर्णे रक्तपीतद्वयात्मके ।मिश्रवर्णे तथा क्रोधलोभादौ भेद्यवत् पुनः ॥ ३४८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.349 · p. 76
रक्तवर्णयुते रक्तपीतवर्णद्वयान्विते ।सुरभौ तुवराख्येन रसेन च समन्विते ॥ ३४९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.39 · p. 260
औचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके ।कषायः पुंसि निर्यासे रसभेदे विलेपने ॥अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु ।कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् ।क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके ।चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2073 · p. 251
काञ्चनं हेम्नि वृक्षे तु काञ्चनः काञ्चनी निशा ।क्वाथे कुथे कषायोऽस्त्री निर्यासे सौरभे रसे ॥ २०७३ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.308 · p. 198
उदयोऽद्रावुन्नतौ च कषायः सुरभौ रसे ।कायः स्वभावे लक्ष्ये च सङ्घे मूर्त्तौ कदैवते ॥ ३०८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.22 · p. 258
रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे ।कान्तार इक्षुभेदे ना न स्त्री व्यध्वे महावने ॥ २२ ॥
अनुष्टुप्

कषाय as a meaning in nānārtha verses