कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पारिपार्श्विक

pāripārśvikaपुं · masc.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.330 · p. 17
नन्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपार्श्विकः ॥ ३३० ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.123 · p. 77
तत्तद्वेषो भूमिका स्यात्तद्धारी भूमिकागतः ।सूचकः सूत्रधारे स्यात्पार्श्वस्थाः पारिपार्श्विकाः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.37 · p. 79
पारिपार्श्विक उद्दिष्टः सूत्रधारस्य पार्श्वगः ।नन्दी[50b] नान्दीकरो नान्दिवादी नान्दीकरी वधूः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.97 · p. 17
माठराद्यास्तथा भानोः पारिपार्श्विकनामकाः ।चन्द्रो निशापती राजा निशारत्नकलाभृतौ ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.486 · p. 60
नन्दी स्यात् पाठको नान्द्याः पार्श्वस्थः पारिपार्श्विकः ।विदूषकः प्रहासी स्याद् वासन्तिकश्च प्रीतिदः ॥ ४८६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.69 · p. 141
नान्दी तु पाठको नान्द्याः पार्श्वस्थाः पारिपार्श्विकाः ।विदूषकः केलिकिलः प्रहासी प्रतिभोऽपि च ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.