All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
स्वर्गकाण्डः · नाट्यवर्गः (1/2)
॥ इति धीवर्गः ॥
नाट्यं तौर्यत्रिकं तच्च गीतवादित्रनर्तनैः ।संगीतं प्रेक्षणीयं तच्छास्त्रोक्तं नाट्यधर्मिका(कैः?) ॥ १ ॥
1.6.1 · p. 74
अनुष्टुप्
गीतिर्गीतं गानं गेयं गान्धर्वमप्यस्मिन् ।अग्रस्थिततन्त्रीकं गेयपदं शुष्क[48a]गानं यत् ॥ २ ॥
1.6.2 · p. 74
उपगीतिः
प्राकृतसंस्कृतयुक्तं कामाद्युत्तापनैर्गीतम् ।स्थितपाठ्यं तदवाद्यं विज्ञैरासीननामकं गदितम् ॥ ३ ॥
1.6.3 · p. 75
उद्गीतिः
स्यात्पुष्पगण्डिका स्त्री स्त्रीपुंसव्यत्ययाद्भुतं गानम् ।प्रच्छन्दस्त्वपराधे पत्युः सासूयमङ्गनागीतिः ॥ ४ ॥
1.6.4 · p. 75
metre not recognised
भ्रष्टनिकेतः प्राकृतवाण्या व्यक्तं गायति वीणायुक्तः ।यत्तत्सैन्धवमुदितं रसवद्भावसमेतं चोत्तमसंज्ञम् ॥ ६ ॥
1.6.6 · p. 75
metre not recognised
रसवत्पदसंदर्भश्लोकबन्धं सहावकम् ।विलासान्वितगीतार्थमुक्तप्रत्युक्त उच्यते ॥ ७ ॥
1.6.7 · p. 75
अनुष्टुप्
त्रिगूढकं तु तद्भवेद्भ्रकुंसगीतिमञ्जुलंद्विगूढमेतदीरितं चतुःस्वरैः पदैर्युतम् ॥ ८ ॥
1.6.8 · p. 75
पञ्चचामरम्
पारापती स्त्रियां गोधुगीतिर्गातरि गाथकः ।कर्णाटो गायनो गेष्णुर्गान्धर्वो गातुरित्यपि ॥ ९ ॥
1.6.9 · p. 75
अनुष्टुप्
हारिकण्ठत्रिषु भवेत्स्वरो यस्य मनोहरः ।वीणाकण्ठोत्थिताः सप्त स्वराः षड्जादयो नरि ।षड्जो मयूरशब्दाभ ऋषभो वृषशब्दवत् ॥ १० ॥
1.6.10 · p. 75
अनुष्टुप्
गान्धारोऽजाविशब्दाभो मध्यमः क्रौञ्चशब्दवत् ।पञ्चमः पिकशब्दाभो धैवतोऽश्वध्व[48b]निप्रभः ।निषादो निषदोऽपि स्याद्गजशब्दितसंनिभः ।कलः स मधुराव्यक्तेस्त्रिषु सूक्ष्मस्तु काकलिः ॥ ११ ॥
1.6.11 · p. 75
अनुष्टुप्metre not read in every line
काकली च स्त्रियौ मंज्ञो(द्रो?) गम्भीरोऽसावुरोभवः ।उच्चैस्तरः स तारः स्याच्छिरोभूर्द्वाविमौ त्रिषु ॥ १२ ॥
1.6.12 · p. 75
अनुष्टुप्
ग्रामः स्यात्स्वरसंदोह आरोहस्त्ववरोहणम् ।क्रमात्स्वराणां सप्तानां मूर्छना प्रोच्यते बुधैः ॥ १३ ॥
1.6.13 · p. 75
अनुष्टुप्
तानः स्यान्मूर्छनाभेदे रागः कामगुणः समौ ।रागालापनमालप्तिर्गमकः स्वरकम्पनम् ॥ १४ ॥
1.6.14 · p. 76
अनुष्टुप्
प्लुतमाना प्लाविता स्यान्नमितो नमितस्वरः ।ध्रुवाद्यो द्वयो गीति भघः(?)पाटो वाद्योद्भवो ध्वनिः ॥ १५ ॥
1.6.15 · p. 76
metre not recognisednearly अनुष्टुप्
एकतालो गीतवाद्यनृत्यसाम्यसमन्वितः ।वाद्यं वादित्रमातोद्यं कटम्बश्च स्वरध्वजः ॥ १३ ॥
1.6.13 · p. 76
अनुष्टुप्
दर्दरीकं तुरत्यूर्यः(?)धूमलाभ्ये(?)स्त्रियां तथा ।वीणादिकं ततमथो मुरजप्रकार-मानद्धमेतदवनद्धमपि प्रदिष्टम् ।वंश्यादिकं तु सुषिरं सुशिरं च कांस्य-तालादिकं घनमितीह चतुर्विधं तत् ॥ १४ ॥
1.6.14 · p. 76
अनुष्टुप्two metres in one verse
वीणा भवेद्घोषवती च वल्लकीस्त्रियां विपञ्ची किल कं[49a]ठकूणिका ।सा सप्ततन्त्रीः परिवादिनी तथानालम्बिका सा गदिता पिनाकिनः ॥ १५ ॥
1.6.15 · p. 76
इन्द्रवंशाmetre not read in every line
सरस्वत्याः कच्छपी सा महती नारदस्य च ।प्रभावती गणानां स्यात्तुम्बरोस्तु कलावती ॥ १६ ॥
1.6.16 · p. 76
अनुष्टुप्
विश्वावसोः स्याद्बृहती सूत्रवीणा तु लावुकी ।चाण्डालानां तु कण्डोलवीणा चाण्डालिका च सा ॥ १७ ॥
1.6.17 · p. 76
अनुष्टुप्
ततभेदाः कैंनदी(री) स्याच्चित्रार्थालापिनीमुखाः ।वीणायास्तु गुणस्तन्त्रीः स्त्रियां कोलम्बकस्तु ना ॥ १८ ॥
1.6.18 · p. 76
अनुष्टुप्
कायो स्यात् शारिका कोणोऽस्त्रियां वीणादिवादनम् ।न स्त्री प्रवालो दण्डोऽस्या उपनाहो निबन्धनम् ॥ १९ ॥
1.6.19 · p. 77
अनुष्टुप्
प्रसेवकः स्यात्ककुभो मूले वंशशलाकिका ।कलिका कूणिका चाथ मृदङ्गो मुरजः समौ ॥ २० ॥
1.6.20 · p. 77
अनुष्टुप्
हरीतक्याकृतिः सोऽङ्क्यो यवमध्यस्तथोर्द्ध्वकः ।अर्धकाभोगिकालिङ्ग्या आनकः पटहोऽस्त्रियौ ॥ २१ ॥
1.6.21 · p. 77
अनुष्टुप्
ढक्का कुहकगुञ्जा च यशःपटह इत्यपि ।क्रोशध्वनिश्च निःस्वानो लम्पापटह इत्यपि ।प्रतिप[49b]त्पटहः क्रोकाना(?) लोटगुञ्जा तु सोल्पकः ।आनको दुन्दुभिः पुंसि भेरिर्भम्भा*हावुभौ ॥ २३ ॥
1.6.23 · p. 77
अनुष्टुप्metre not read in every line
काहला काहलं शब्दमाला दीर्घरवाथ सा ।क्रीडनार्थं पत्रकृता वालाद्यैश्चण्डकाहला ।पिच्छला स्यादथ द्वंद्वे हुडुक्कस्तालमर्द्दलः ॥ २५ ॥
1.6.25 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
सूत्रकोणो डमरुको मड्डुः पणीय(?)वाद्यकम् ।डिण्डिमः क्षुद्रपटहो गोमुखो गोमुखाकृतिः ॥ २६ ॥
1.6.26 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
पणवो मध्यतन्त्रीको झर्झरोऽस्त्री च झल्लरी ।मुखघण्टा कुलकुटी किङ्किणी क्षुद्रघण्टिका ।किङ्किणीका प्रतिसरा घर्घरीका तु पादगा ॥ २७ ॥
1.6.27 · p. 77
अनुष्टुप्
पाठिका स्यान्मधुकरी पाठो वंशश्च कीर्त्यते ।द्रगण(ड)स्तूर्यगण्डः स्याद्वंशी तु मुरली स्त्रियौ ॥स्यात्पुष्करं वाद्यमुखं टट्टरी पटहध्वनि ।वीणया तूपगायेद्यस्त्रिष्वसावुपवीणयन् ॥वीणावादो वैणिकः स्यान्नाडिध्व(?)स्ताडवादकः ॥ २८ ॥
1.6.28 · p. 78
अनुष्टुप्
वेणुध्मः स्याद्वैणविको भेरिको भेरिवादकः ।मार्दङ्गिको मौरजिकस्तद्वत्पाणविकादयः ॥ २९ ॥
1.6.29 · p. 78
अनुष्टुप्
पाणिंधमः पाणिघः स्या[50a]त्पाणिवादसमार्थकः ।मुष्टिंधमो मुष्टिवादोऽथो माडुकिक-माडुकौ ॥ ३० ॥
1.6.30 · p. 78
metre not recognised
स्याज्झार्झरो झार्झरिकस्त्रिषु स्युर्वैणिकादयः ।कालस्य क्रियया मानं तालोऽथ करनिर्मितः ॥ ३१ ॥
1.6.31 · p. 78
अनुष्टुप्
करताली करर्द्धिः स्त्री तालमध्ये तु कुक्कुटी ।स्त्रियां गुणनिका च स्यात्ताण्डवं तु न योषिति ।नृत्यं नृत्तं नर्तनं च नाट्यं नटनं लास्ययुक् ॥ ३२ ॥
1.6.32 · p. 78
अनुष्टुप्metre not read in every line
नारीणां मण्डली नृत्यं क्लीबं हल्लीस(श?)कं मतम् ।ग्रामीणतोषकं नृत्यं तरामञ्जी भवेत्स्त्रियाम् ॥ ३३ ॥
1.6.33 · p. 78
अनुष्टुप्
पानगोष्ठ्यां तूच्चतालं रणे वीरजयन्तिका ।नर्तको लासको लिष्वो लष्वोऽपि स्यान्नृतूरपि ॥ ३४ ॥
1.6.34 · p. 78
अनुष्टुप्
लीलावसर एकोऽसौ नर्तकी लासिकाङ्गना ।स्त्रीनर्तकः प्राकषिकोऽथासौ स्त्रीवेषधारकः ॥ ३५ ॥
1.6.35 · p. 78
अनुष्टुप्
भ्रकुंसश्च भ्रुकुंसश्च भ्र(भ्रू)कुंसश्च भृकुंसवत् ।सूत्रधारः सूचकः स्यात्स्थापकोऽप्ययमुच्यते ॥ ३६ ॥
1.6.36 · p. 79
अनुष्टुप्
पारिपार्श्विक उद्दिष्टः सूत्रधारस्य पार्श्वगः ।नन्दी[50b] नान्दीकरो नान्दिवादी नान्दीकरी वधूः ॥ ३७ ॥
1.6.37 · p. 79
अनुष्टुप्metre not read in every line
अस्त्री नटः कृशाश्वी शैलाली सर्ववेशि-रसिकौ च ।भरतोघः(?) शैलूषो रङ्गाजीवोऽङ्गनाजीवी ॥ ३८ ॥
1.6.38 · p. 79
आर्या
धर्मीसुतो भौमिकः स्याद्भ*तोऽथ महानटः ।कटप्रूः पुंस्यथ स्तोत्रकारे चारण-वर्णकौ ॥ ३९ ॥
1.6.39 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भौ (syllables merged)
कुशीलवोऽथ वेश्यानामाचार्यः पीठमर्द्दकः ।नर्मदः केलिसचिवः पीठमर्दोऽपि सम्मतः ।वासन्तिकः केलिकलो विदूषकोवैहासिकः प्रतिबुधः प्रहासः ।भवेद्विटः पल्लविकोऽपि षिद्ग-कोष्ठ(?)क्षुद्रा नटी तत्र च कारिका स्यात् ॥ ४० ॥
1.6.40 · p. 79
अनुष्टुप्metre not read in every linenearly upajati mixed: pāda 2, syllable 5 प्र (wrong syllable)
नेपथ्यं रङ्गभूमिः स्यादानर्तो वेषधारणम् ।भूमिका वर्णका द्वंद्वे पात्राण्यत्राधिकारिणः ॥ ४१ ॥
1.6.41 · p. 79
अनुष्टुप्
नाट्योक्तिषु स्याद्बहुधा प्रकाशंश्रव्यं वचोऽथ स्वगतं तदन्यत् ।रहस्यमाप्ते परिवृत्य मन्यांयदुच्यते स्यादपवारितं तत् ॥ ४२ ॥
1.6.42 · p. 79
उपजातिः
मध्ये कथापवार्यान्यांस्त्रिपताकेन पाणिना ।क्लीबे जनान्तिकं तत्स्यान्निःशलाकोऽस्त्रियामपि ॥ ४३ ॥
1.6.43 · p. 80
अनुष्टुप्
तत्रभ[51a]वत्तत्र भवन्भगवन्नेवं च संबोध्याः ।तत्तन्नाम्नश्च परैः पादाद्यैर्यजनीया ये ॥ ४४ ॥
1.6.44 · p. 80
metre not recognised
राजा भट्टारको देवः स स्वामी मन्त्रिभाषिते ।अधमोक्तौ स भट्टः स्यादथ वैहासिकोक्तिषु ॥ ४५ ॥
1.6.45 · p. 80
अनुष्टुप्
संबोधनं वयस्येति भूपे भावेति पण्डिते ।देवी कृताभिषेकान्या भट्टिनी भोगिनी च सा ॥ ४६ ॥
1.6.46 · p. 80
अनुष्टुप्
युवराजो राजपुत्रः कुमारो भर्तृदारकः ।राज्ञः श्यालो राष्ट्रियः स्यात्तत्सुता भर्तृदारिका ॥ ४७ ॥
1.6.47 · p. 80
अनुष्टुप्
विदूषकोक्तौ राजी(?) च भवति गदितोऽस्त्रियाम् ।द्विजभार्या भट्टिनी स्यादार्या गोस्वामिनी च सा ।आर्यपुत्रस्तथार्यः स्यात्स्त्रीणामामन्त्रणे पतिः ॥ ४५ ॥
1.6.45 · p. 80
अनुष्टुप्metre not read in every line
आवुकः स्यात्पितावुत्तो भावुको भगिनीपतिः ।ज्यायानार्यः प्रसूरम्बाथान्तिका चान्तिका स्वसा ॥ ५० ॥
1.6.50 · p. 80
अनुष्टुप्
बाला वासूः स्त्रियां शिष्टे त्वार्य-मारिष-मार्षकाः ।अज्जुकानुचरैर्वेश्या वाच्या राज्ञानुनामतः ॥ ५१ ॥
1.6.51 · p. 80
अनुष्टुप्
सेनान्तं नाम[51b] वेश्यानां दत्तान्तं वणिजामिदम् ।हण्डे हञ्जे अव्यये द्वे नीचां चेटीं प्रति क्रमात् ॥ ५२ ॥
1.6.52 · p. 80
metre not recognised
वृद्धस्तातोऽथ वत्सः स्यात्पुत्रकश्च कनीयसि ।आयुष्मन्निति संबोध्यो रथी सूतेन सर्वदा ॥ ५३ ॥
1.6.53 · p. 80
अनुष्टुप्
सखीसंबोधने तु स्याद्धला स्त्री च हलाव्ययम् ।अवध्य इति फूत्कृत्य शब्देऽब्रह्मण्यमन्तिमे ॥ ५४ ॥
1.6.54 · p. 81
अनुष्टुप्
सुगृहीतं क्लीबमामेत्यव्ययं स्वीकृतौ भवेत् ।असूचितप्रवेशे स्यादपटीक्षेप इत्यपि ॥ ५५ ॥
1.6.55 · p. 81
अनुष्टुप्
दृश्यं तु काव्यं किल रूपकं स्यान्नाकेतर(?)स्तत्तु दशप्रकारम् ।अष्टादशोक्तान्युपरूपकाणिस्युः प्रायशो नाटकलक्षणानि ॥ ५६ ॥
1.6.56 · p. 81
इन्द्रवज्रा
दिव्यादिव्यनृपर्षिनायकवरप्रख्यातवृत्तान्वितंपञ्चाद्यादशनिर्मिताङ्करचनं शृङ्गारवीराधिकम् ।निष्ठोक्ताद्भुतपञ्चसंधिसरसं गोपुच्छतुल्याङ्गकंभूयो भूतिगुणौचितीप्रचुरितं दृश्योत्तमं नाटकम् ॥ ५७ ॥
1.6.57 · p. 81
शार्दूलविक्रीडितम्
एतदेव यदा सर्वैः पताकास्थानकैर्युतम् ।अङ्कैश्च दशभिर्भव्यं महानाटकमुच्यते ॥ ५८ ॥
1.6.58 · p. 81
अनुष्टुप्
धीरप्रशान्तसु[52a]कृतादिमतिद्विजाति-सन्मन्त्रवाणिजनवीनकथाविधानम् ।शृङ्गारमुख्यमिह नाटकलक्ष्मशालितद्वर्णितं प्रकरणं शरणं रसानाम् ॥ ५८ ॥
1.6.58 · p. 81
वसन्ततिलकाmetre not read in every line
आकाशोक्त्या वर्णितामन्त्रणोक्ति-प्रत्युक्त्याढ्यो भारतीवृत्तिशाली ।एकाङ्कः स्याद्वीरशृङ्गारभाजाभाणो युक्तो नायकेनैककेन ॥ ५९ ॥
1.6.59 · p. 81
शालिनी
नेता धीरोद्धतक्ष्मापतिरपि दिविजो हास्यशृङ्गारशान्तायत्र स्युर्नाङ्गिनोऽमी सुबहुतरनरः स्वल्पनारीजनश्च ।एकेनाङ्केन युक्तो विरहितसुदतीहेतुयुद्धप्रयोगोव्यायोगोऽयं विमर्शं न कलयति तथा कैशिकीं गर्भसंधिम् ॥ ६० ॥
1.6.60 · p. 81
स्रग्धरा
वीरो यत्र प्रधानं सुरदितिजगतं वृत्तमङ्कत्रयं स्यात्आद्येऽङ्के द्वौ च संधी पृथगितरकयोर्निर्विमर्शः स एकः ।नेतारो द्वादश स्युर्विविधनिजफला नात्र बिन्दुप्रवेशोकैशिक्यो नोद्यतार्थो भवति समवकाराह्वयोऽनल्परूपः ॥ ६१ ॥
1.6.61 · p. 81
स्रग्धरा
इन्द्रजालरणरोषमायिकोद्भ्रान्तचेष्टितबहूपरागकः ।रौद्रमुख्यचतुरङ्कसं[52b]युतः कैशिकीप्रभृतिवर्जितो डिमः ॥ ६२ ॥
1.6.62 · p. 82
रथोद्धताmetre not read in every line
एकोऽङ्कश्चतुरङ्कको भवति वा धीरोद्धतो नायकोमुख्यः स्यात्करुणो रसः क्वचिदहो शृङ्गार आभासतः ।यस्मिन्निर्वहणं मुखं प्रतिमुखं मिश्रं च वृत्तं भवेत्स्यादीहामृग एष केऽपि विबुधा उत्सृष्टिकाङ्कं विदुः ॥ ६३ ॥
1.6.63 · p. 82
शार्दूलविक्रीडितम्
आकाशभाषिताद्यैरुक्तिप्रत्युक्तिभिश्चित्रा ।वीथ्येकनायकाङ्का साङ्गा शृङ्गारभूयिष्ठा ॥ ६४ ॥
1.6.64 · p. 82
metre not recognised
यद्भाणवद्रचितसंधि तदङ्गशोभंहास्यप्रधानमपि लास्यविराजदङ्गम् ।विष्कम्भकादिरहितं कविकल्पवृन्दंतत्प्रोच्यते प्रहसनं बहुनायकं च ॥ ६५ ॥
1.6.65 · p. 82
वसन्ततिलका
नाटिका तु कविक्लृप्तचरित्रा सानुरागनृपवंश्यनायिका ।किं च धीरललितोत्तमनेत्री ज्यायसी वशगतद्वययोगा ॥ ६६ ॥
1.6.66 · p. 82
स्वागताmetre not read in every line
सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् ।त्रोटकं भूरिशृङ्गारं प्रत्यङ्कं सविदूषकम् ॥ ६७ ॥
1.6.67 · p. 82
अनुष्टुप्
शृङ्गारहासबहुला किल कैशिकीयुग्गर्भावमर्शरहिताप्यनुदात्तवृत्ता ।[53a]यस्यां नराश्च दश वा नव वा स्त्रियः स्युःषट् पञ्च वा विलसदङ्कवरा च गोष्ठी ॥ ६८ ॥
1.6.68 · p. 82
वसन्ततिलका
नाटिकालक्षणोपेतं प्राकृतप्रायमद्भुतम् ।निर्विष्कम्भं जवनिकानामाङ्कं षट्टकं भवेत् ॥ ६९ ॥
1.6.69 · p. 82
अनुष्टुप्
एकाङ्कके हास्यरसप्रधानेयस्मिन्नुदात्तः खलु नायकः स्यात् ।स्यान्नायिका वासकसज्जिका चतन्नाट्यवासं प्रवदन्ति सन्तः ॥ ७० ॥
1.6.70 · p. 82
इन्द्रवज्रा
प्रस्थानमङ्कद्वयसंयुतं स्यात्नेतात्र दासो रमणी च दासी ।स्यात्कैशिकी यत्र विलासभूमास्यात्संहृतोऽर्थोऽत्र सुरादिपानात् ॥ ७१ ॥
1.6.71 · p. 83
इन्द्रवज्रा
शृङ्गारहासकरुणग्रथितार्थवृत्तंदिव्याश्रयं बहुरणं सदुदात्तवीरम् ।शिल्पाङ्गगीतिमसवर्णवधूचतुष्क-मुल्लाप्यमेतदुदितं त्रिभिरङ्ककैः स्यात् ॥ ७२ ॥
1.6.72 · p. 83
वसन्ततिलका
त्रिसंध्यारभटीहीनमेकाङ्कं हास्यसंकुलम् ।उदात्तनायिकाशालि काव्यं स्याद्भग्नतालकम् ॥ ७३ ॥
1.6.73 · p. 83
अनुष्टुप्
गर्भावमर्शरहितमेकाङ्कं हीननायकम् ।असूत्रधारविष्कम्भं प्रेङ्खणं सर्ववृत्तियुक् ॥ ७४ ॥
1.6.74 · p. 83
अनुष्टुप्
[53b] भाषाविभाषायुतमेककाङ्क-मसूत्रधारं हृतवीथिरीति ।संश्लिष्टनान्दीसहितं कलायुक्स्याद्वा(द्रा?)सकं मन्दमतिप्रधानम् ॥ ७५ ॥
1.6.75 · p. 83
उपजातिः
पाखण्डनायकं यत्त्रिभिश्चतुर्भिर्युतं चाङ्कैः ।शृङ्गारशोकरहितं छलभूयिष्ठं च संलापम् ॥ ७६ ॥
1.6.76 · p. 83
metre not recognised
श्रीगदितं तद्गदितं प्रख्यातोदात्तवृत्तं यत् ।युक्तं गर्भविमर्शैः श्रीशब्दाढ्यं सभारतीवृत्ति ॥ ७७ ॥
1.6.77 · p. 83
metre not recognised
चतुरङ्कं चतुर्वृत्ति हास्यशान्तविवर्जितम् ।सप्तविंशत्यङ्गयुतं विप्रनेतृ च शिल्पकम् ॥ ७८ ॥
1.6.78 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्य (wrong syllable)
शृङ्गारबहुलैकाङ्का हीना गर्भविमर्शतः ।हीननेत्री सनृत्याङ्गा स्वल्पवृत्ता विलासिका ॥ ७९ ॥
1.6.79 · p. 83
अनुष्टुप्
तिस्रः पञ्च तथा च षड्दशवरा नाडीर्दधानैः क्रमाद्वेदाङ्कैः सहिता विटादिललिता सद्भारती कैशिकी ।गर्भं नैव दधाति नागरयुता न्यूनेन नेत्रा युताशृङ्गारप्रचुरैर्युताखिलरसैर्दुर्मल्लिका सा मता ॥ ८१ ॥
1.6.81 · p. 84
शार्दूलविक्रीडितम्
नाटिकैव प्रकरणी सार्थवाहादिनायका ।कैशिकीभारतीवृत्तियुतैकाङ्का सु[54a]नायका ॥ ८२ ॥
1.6.82 · p. 84
अनुष्टुप्metre not read in every line
भाणिका श्लक्ष्णनेपथ्यतुल्यवंशोत्थनायिका ।हल्लीशः पुनरेकाङ्कः सप्तादिस्त्रीजनैर्युतः ॥ ८३ ॥
1.6.83 · p. 84
अनुष्टुप्
उदात्तनायकः संधिद्वययुक्कैशिकीयुतः ।बहुतानलयस्थानं शृङ्गारैकप्रधानकः ॥ ८४ ॥
1.6.84 · p. 84
अनुष्टुप्
अष्टौ द्वादश षोडश क्वचन वा चत्वारि वा प्रायशोबिभ्राणा सुपदानि चन्द्रकमलक्षेमाभिधाभाञ्जि या ।विघ्नौघक्षतिकृद्विवक्षितकथासंसूचिकाशीर्नति-प्राया स्यादिह पूर्वरङ्ग उदितो नान्दी च नान्दिः स्त्रियाम् ॥ ८५ ॥
1.6.85 · p. 84
शार्दूलविक्रीडितम्
श्लेषादिभिः प्रस्तुतार्थसूचनं मुखमुच्यते ।प्रस्तुतेष्वभिनेयेषु प्रशंसा स्यात्प्ररोचना ॥ ८६ ॥
1.6.86 · p. 84
अनुष्टुप्
स्याद्यत्र सूत्रधारादेः संलापः प्रकृतोचितः ।प्रस्तावना चामुखं च सा पुनः पञ्चधोदिता ॥ ८७ ॥
1.6.87 · p. 84
अनुष्टुप्
पदानि त्वगतार्थानि तदर्थगतये नराः ।योजयन्ति पदैरन्यैः स उद्घात्यक उच्यते ॥ ८८ ॥
1.6.88 · p. 84
अनुष्टुप्
सूत्रधारस्य वाक्यं वा वाक्यार्थो वापि कारणम् ।भवेत्पात्रप्रवेशस्य कथोद्घातः स उच्यते[54b] ॥ ८९ ॥
1.6.89 · p. 84
अनुष्टुप्
यदि प्रयोग एकस्मिन्प्रयोगोऽन्यः प्रयुज्यते ।तेन पात्रप्रवेशश्चेत्प्रयोगातिशयो हि सः ॥ ९० ॥
1.6.90 · p. 84
अनुष्टुप्
कालप्रवृत्तिमाश्रित्य सूत्रधृग्यत्र वर्तयेत् ।तदाश्रयस्य कार्यस्य प्रवेशः स प्रवर्तकः ॥ ९१ ॥
1.6.91 · p. 84
अनुष्टुप्
यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते ।प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ॥ ९२ ॥
1.6.92 · p. 85
अनुष्टुप्
आवर्षं द्व्यहतो निबद्धचरितः संलग्नबिन्दुः क्वचिन्नातिश्लोकयुतो रसादिबहुलश्चासन्नसन्नायकः ।अन्ते निर्गतपात्रकस्त्रिचतुरैः पात्रैर्युतो बीजवान्साक्षाद्युद्धवधादिभिर्विरहितः स्पष्टोक्तिरङ्को मतः ॥ ९३ ॥
1.6.93 · p. 85
शार्दूलविक्रीडितम्
अङ्कोदरप्रविष्टो यो रङ्गद्वारा मुखादिमान् ।अङ्कोऽपरः स गर्भाङ्कः स बीजः फलवानपि ॥ ९४ ॥
1.6.94 · p. 85
अनुष्टुप्
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।संक्षिप्तार्थश्च विष्कम्भः स भवेदङ्कपूर्वगः ॥ ९५ ॥
1.6.95 · p. 85
अनुष्टुप्
मध्येन मध्यमाभ्यां वा पात्राभ्यां स प्रयोजितः ।शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ॥ ९६ ॥
1.6.96 · p. 85
अनुष्टुप्
अङ्कद्वयस्य मध्यस्थो विष्क[55a]म्भोदितलक्षणः ।अनुदात्तोदितैर्नीचपात्रैर्युक्तः प्रवेशकः ॥ ९७ ॥
1.6.97 · p. 85
अनुष्टुप्metre not read in every line
अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका ।अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ॥ ९८ ॥
1.6.98 · p. 85
अनुष्टुप्
यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः ।यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला ॥ ९९ ॥
1.6.99 · p. 85
अनुष्टुप्
बीजार्थख्यापनं तत्स्यात्तथाङ्कमुखमित्यपि ।विष्कम्भप्रमुखाः पञ्च ह्यर्थोपक्षेपकाभिधाः ॥ १०० ॥
1.6.100 · p. 85
अनुष्टुप्
यथार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते ।आगन्तुकेन भावेन पताका साभिधीयते ॥ १०१ ॥
1.6.101 · p. 85
अनुष्टुप्
वृत्तं वस्तु प्रसङ्गस्थं तन्नेतुः प्रकरी स्त्रियाम् ।अपेक्षितं तु साध्यं तन्निष्पन्नं कार्यमुच्यते ॥ १०२ ॥
1.6.102 · p. 85
अनुष्टुप्
एकप्रयोजनो येन कथांशानामवान्तरे ।प्रयोजनैर्भवेद्योगः स संधिः परिकीर्तितः ॥ १०३ ॥
1.6.103 · p. 85
अनुष्टुप्
यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा ।प्रारम्भेण समायुक्ता मुखसंधिः स उच्यते ॥ १०४ ॥
1.6.104 · p. 86
अनुष्टुप्
फलप्रधानोपायस्य मुखसंधिनिवेशिनः ।लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं मतम् ॥ १०५ ॥
1.6.105 · p. 86
अनुष्टुप्
[55b] प्रागुद्भिन्नस्य यः किंचित्समुद्भेदो हि गर्भकः ।यत्र मुख्यफलापाय उद्भिन्नो गर्भतोऽधिकः ॥ १०६ ॥
1.6.106 · p. 86
अनुष्टुप्
शापाद्यैः सान्तरायः स्यात्स विमर्श इति स्मृतः ।बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥ १०७ ॥
1.6.107 · p. 86
अनुष्टुप्
ऐकार्थ्यमुपनीयन्ते निष्ठा निर्वहणं च तत् ।समापनं च संहारोऽथोपक्षेपोऽर्थसंभवः ॥ १०८ ॥
1.6.108 · p. 86
अनुष्टुप्
समुत्पन्नार्थबाहुल्यं भवेत्परिकरः पुमान् ।परिन्यासोऽर्थनिष्कारो गुणाख्यानं विलोभनम् ॥ १०९ ॥
1.6.109 · p. 86
अनुष्टुप्
या श्लक्ष्णनेपथ्यविशेषचित्रास्त्रीसंकुला प्रोज्ज्वलगीतनृत्या ।शृङ्गारसारा प्रचुरोपचारास्यात्कैशिकी चारुविलासयुक्ता ॥ ११० ॥
1.6.110 · p. 86
इन्द्रवज्रा
शौर्यदयार्जवयुक्ता बहुसत्त्वा स्तोकशृङ्गारा ।हृतशोका धृतहर्षाद्भुतयुक्ता सात्वती वृत्तिः ॥ १११ ॥
1.6.111 · p. 86
metre not recognised
वधबन्धादिनिबद्धा क्रोधोद्भ्रान्तादिचेष्टिता या च ।उद्धतवर्णनिबन्धा प्रचण्डवीरा मतारभटी ॥ ११२ ॥
1.6.112 · p. 86
आर्या
बन्धुरसंस्कृतयुक्ता मधुरसुधाधौ[त]वर्णार्था ।औचित्यचातुरीणां पात्रं सर्वत्र भारती वृत्तिः ॥ ११३ ॥
1.6.113 · p. 86
metre not recognised
संस्कृता सौर[56a]सेनी च पैशाची मागधी तथा ।राक्षसी दैशिकी चेति भाषाभेदाः षडीरिताः ॥ ११४ ॥
1.6.114 · p. 86
अनुष्टुप्metre not read in every line
अङ्गहारोऽङ्गविक्षेपोऽङ्गाहारिस्तु स्त्रियां भवेत् ।प्रसह्योर्ध्वीकृतः पादो दण्डपादोऽभिधीयते ॥ ११५ ॥
1.6.115 · p. 86
अनुष्टुप्
व्यञ्जकः स्यादभिनयो वाङ्निर्वृत्तः स वाचिकः ।आङ्गिकस्त्वङ्गनिर्वृत्तः सत्त्वोत्थः सात्त्विको भवेत् ॥ ११६ ॥
1.6.116 · p. 87
अनुष्टुप्
आरोप्यः पुनराहार्यो वाचिकाद्या विशेष्यगाः ।प्रसारिताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि ॥ ११७ ॥
1.6.117 · p. 87
अनुष्टुप्
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ।अयं तु त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ॥ ११८ ॥
1.6.118 · p. 87
अनुष्टुप्
पताकस्य यदाङ्गुष्ठो भवेदुच्चैः स्वदेशजः ।अर्द्धचन्द्राकृतिर्यस्मादर्धचन्द्रः स कथ्यते ॥ ११९ ॥
1.6.119 · p. 87
अनुष्टुप्
त्रिपताकस्य हस्तस्य मध्यमा दृष्टदेशगा ।तर्जनी स्यात्तदा हस्तः कर्तरीमुख उच्यते ॥ १२० ॥
1.6.120 · p. 87
अनुष्टुप्