सूत्रधार
sūtradhāraपुं · masc.In 10 kośas: 9 synonym verses, 3 as a nānārtha head word.
genderपुंmasc.
तत्तद्वेषो भूमिका स्यात्तद्धारी भूमिकागतः ।सूचकः सूत्रधारे स्यात्पार्श्वस्थाः पारिपार्श्विकाः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः ।स्याद्वीजदर्शकश्चापि सर्वार्थस्य प्रकाशकः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
भ्रकुंसश्च भ्रुकुंसश्च भ्र(भ्रू)कुंसश्च भृकुंसवत् ।सूत्रधारः सूचकः स्यात्स्थापकोऽप्ययमुच्यते ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
सूचकः सूत्रधारः स्यान्नन्दी नान्द्याः प्रपाठकः ।वेश्यासूरिः पीठमर्दश्चारणश्च कुशीलवः ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
पुनः स्यात् पीठमर्श्च वेश्याचार्यस्तथैव च ।सूचकः सूत्रधारः स्यात् स्थापको बीजदर्शकः ॥ ४८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
त्वष्टा तु वर्धकिस्तक्षा सूत्रधारोऽपि वर्धकी ।रथकारो रथकरः काष्टतट् काष्टतक्षकः ॥
अनुष्टुप्
genderपुंmasc.
नारीवेषधरो रङ्गे सूत्रधारस्तु सूचकः ।शक्रराघवदेवानां नर्तको भूमिकाधरः ॥ १५४९ ॥
अनुष्टुप्
genderपुंmasc.
तत्तद्वेषो भूमिका स्यात्तद्धारी भूमिकागतः ।पात्राणि नाट्येऽधिकृताः सूत्रधारस्तु सूचकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
शिङ्गोर्द्रुमे पुंसि च शालसारःस्यात्सूत्रधारो नरि नाट्यपात्रे ।शिल्पिप्रभेदे च शचीपतौ चस्यद्दण्डधारः क्षितिपे यमे च ॥ १४ ॥
इन्द्रवज्रा
स्थिरदंष्ट्रो भुजङ्गे स्यात्तथा चादिवराहके ।सूत्रधारः शिल्पिभेदे शके नान्द्यन्तचारिणि ॥
अनुष्टुप्