All kośas › Suśīlanāmamālā
सुशीलनाममाला Suśīlanāmamālā
3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)
देवविभागः (4/4)
संलापो विप्रलापस्तु विरुद्धोक्तिश्च कथ्यते ।निह्नवश्वाऽपलापः स्यात् सुप्रलापस्तथा पुनः ॥ ३९९ ॥
3.399 · p. 51
अनुष्टुप्
ज्ञेयं सुवचनं चापि सन्देशवाक् तु वाचिकम् ।अथाऽऽज्ञा शासनं शिष्टिः निर्देशश्च नियोगकः ॥ ४०० ॥
3.400 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
आदेशश्च निदेशो वै अववादश्च कथ्यते ।सेवकादिकमाहूय प्रेषणं प्रतिशासनम् ॥ ४०१ ॥
3.401 · p. 51
अनुष्टुप्
अथाऽऽस्था संश्रवः सन्धा संवित् प्रतिश्रवाऽऽश्रवौ ।आगूश्चापि प्रतिज्ञा वै समाधिः सङ्गरस्तथा ॥ ४०२ ॥
3.402 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
अङ्गीकारोऽभ्युपायश्च स्यादभ्युपगमस्तथा ।गीतनृत्यवाद्ययुक्तं नाट्यं तौर्यत्रिकं भवेत् ॥ ४०३ ॥
3.403 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्य (wrong syllable)
सङ्गीतमीक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्यधर्मिका ।गीतं गानञ्च गान्धर्वं गेयं गीतिश्च कथ्यते ॥ ४०४ ॥
3.404 · p. 51
अनुष्टुप्
नर्तनं नटनं नृत्यं नृत्तं नाट्यं च ताण्डवम् ।लास्यञ्चेति हि वामानि कथ्यन्ते कोविदैः किल ॥ ४०५ ॥
3.405 · p. 52
अनुष्टुप्
स्त्रीमण्डलेन यन्नृत्यं ज्ञेयं हल्लीसकं हि तत् ।मद्यपानेन यन्नृत्यमुच्चतालं तु कथ्यते ॥ ४०६ ॥
3.406 · p. 52
अनुष्टुप्
समराङ्गणे च य नृत्यं ज्ञेयं वीरजयन्तिका ।नाट्यस्थानं तु रङ्गः स्यात् पूर्वरङ्गोऽप्युपक्रमः ॥ ४०७ ॥
3.407 · p. 52
अनुष्टुप्metre not read in every line
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयो भवेत् ।चतुर्विधानि नामानि प्रथितानि च यथाक्रमाम् ॥ ४०८ ॥
3.408 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रथि (syllable split)
प्राहार्योऽभिनयो ज्ञेयो रचितो भूषणादिना ।वाचिको वचसा चैव तथाऽङ्गेनाऽऽङ्गिकः किल ॥ ४०९ ॥
3.409 · p. 52
अनुष्टुप्
सत्त्वेन सात्त्विकश्चैव कथ्यते कोविदैः खलु ।अथ स्यान्नाटकं भाणः तथा प्रहसनं डिमः ॥ ४१० ॥
3.410 · p. 52
अनुष्टुप्
अङ्कः प्रकुरणं चैव व्यायोगेहामृगौ तथा ।वीथ्यसमवकारश्च नाटकादौ प्रयुज्यते ॥ ४११ ॥
3.411 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
षट् संस्कृतादिकाः भाषाः कथ्यन्ते क्रमशो यथा ।संस्कृतं प्राकृतं शौरसेनी पैशाचमागधी ॥ ४१२ ॥
3.412 · p. 52
अनुष्टुप्
अपभ्रंशोऽपि विज्ञेयो नृत्यगीताऽभिनेयके ।भारती सात्वती चापि कौशिक्यारभटी तथा ॥ ४१३ ॥
3.413 · p. 52
अनुष्टुप्
चतुर्विद्यावृत्तिरेषा काव्यनाटकयोः स्थिता ।तूर्यं वादित्रमातोद्यं तूरं वाद्यं स्मरध्वजः ॥ ४१४ ॥
3.414 · p. 53
अनुष्टुप्
ततं वीणादिवाजिन्त्रं घनं तालादिकं तथा ।शुषिरं चादि वंशादिमानद्धं दर्दरं तथा ॥ ४१५ ॥
3.415 · p. 53
अनुष्टुप्
करटमवनद्धं च कथ्यते मुरजादिकम् ।वीणा घोषवती चैव विपञ्ची कण्ठकूणिका ॥ ४१६ ॥
3.416 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ट (wrong syllable)
वल्लकी चाथ तन्त्रीभिः सप्तभिः परिवादिनी ।अनालम्बी शिवस्य स्यात् सरस्वत्याश्च कच्छपी ॥ ४१७ ॥
3.417 · p. 53
अनुष्टुप्
महती नारदस्य स्याद् गणानां च प्रभावती ।बृहतीसंज्ञका वीणा विश्वावसोस्तु कथ्यते ॥ ४१८ ॥
3.418 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
अथ कलावती वीणा तुम्बुरस्य हि कथ्यते ।चण्डालानां तु डक्कारी किंनरी बल्लकी तथा ॥ ४१९ ॥
3.419 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
काण्डवीणा कुवीणा वै चाण्डालिकाः च खुङ्गाणी ।तथा कटोलवीणा वै सारिका चेति कथ्यते ॥ ४२० ॥
3.420 · p. 53
अनुष्टुप्metre not read in every line
तस्याः कोलम्बकः काय उपनाहो निबन्धनम् ।प्रवालः स्यात् पुनर्दण्डः ककुभस्तु प्रसेवकः ॥ ४२१ ॥
3.421 · p. 53
अनुष्टुप्
स्यान्मूले कलिका वंशशलाका कूणिका तथा ।कालस्य क्रियया मानं तालः साम्यं लयः पुनः ॥ ४२२ ॥
3.422 · p. 53
अनुष्टुप्
स्यात् शीघ्रगतिमन्नृत्यादिकमघो द्रुतं किल ।स्यान् मन्दगतिमन्नृत्यं तत्त्वं विलम्बितं खलु ॥ ४२३ ॥
3.423 · p. 53
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable); pāda 4, syllable 3 वि (wrong syllable)
मध्यमगतिमन्नृत्यादिकं मध्यं घनं तु वै ।पुनरनुगतं चेति कोविदैः कथ्यते किल ॥ ४२४ ॥
3.424 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 3 र (wrong syllable)
मृदङ्गो मुरजश्चेति सोऽङ्क्यालिङ्ग्यूर्ध्वकस्त्रिधा ।स्याद्यशःपटहश्चैव ढक्का भेरी तु दुन्दुभिः ॥ ४२५ ॥
3.425 · p. 54
अनुष्टुप्
आनकः पटहश्चाथ दर्दरः कलशीमुखः ।ज्ञेयं वै सूत्रकोणश्च डमरुकं पुनस्ततः ॥ ४२६ ॥
3.426 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
पणवः किंकण स्याद्वै हुडक्कः तालमर्दकः ।वाजिन्त्रं शृङ्गवाद्यं तु शृङ्गमुखं तथैव च ॥ ४२७ ॥
3.427 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
कुहाला काहला स्याद्वै चण्डकोलाहला तथा ।द्रकटः द्रगडश्चापि स्याद्धूमलस्तथा बलिः ॥ ४२८ ॥
3.428 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
क्षुण्णकं क्षणकं चाथ स्यात् प्रियवादिका किल ।वाजिन्त्रमर्धतूरं स्याद् डिण्डिमस्टट्टरी तथा ॥ ४२९ ॥
3.429 · p. 54
अनुष्टुप्metre not read in every lineimpossible sibilant cluster: डिण्डिमस्टट्टरीnearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
झर्झरश्च कलापूरः तिमिला लम्बिका तथा ।वेध्या तथापि मड्डुश्च ज्ञातव्या किरिकिच्चिका ॥ ४३० ॥
3.430 · p. 54
अनुष्टुप्
अथ स्यात् शारिका कोणो वीणादिवादनं किल ।
3.393 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
* रसनामानि *
भयानकश्च बीभत्सोऽद्भुतशान्तौ रसाः नव ।ज्ञेयाः पुन स्त्रिधा भावा स्थायिनः सात्त्विकास्तथा ॥ ४३२ ॥
3.432 · p. 54
अनुष्टुप्
सञ्चारिणः प्रभेदाश्च रसानां तु रतिः पुनः ।रागश्चाप्यनुरागश्चाऽनुरतिर्हसनं तु वै ॥ ४३३ ॥
3.433 · p. 55
अनुष्टुप्
हसो हासश्च हास्यञ्च हासिका घर्घरस्तथा ।तत्रादृष्टरदे वक्रोष्ठिका स्मितं च कथ्यते ॥ ४३४ ॥
3.434 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्मि (wrong syllable)
हसितं कथ्यते प्रायः किञ्चिद्दृष्टरदाङ्कुरे ।तथा विहसितं किञ्चिच्छ्रुते वै कथ्यते बुधैः ॥ ४३५ ॥
3.435 · p. 55
अनुष्टुप्
अनुस्यूतेऽतिहासः स्यादट्टहासो महीयसि ।अकारणात् कृते हासे ह्यपहासः स कथ्यते ॥ ४३६ ॥
3.436 · p. 55
अनुष्टुप्
अथाऽऽच्छुरितकं हास्यं सोत्प्रासे मन्यते खलु ।कथ्यते हसनं चापि कोविदैः स्फुरदोष्ठके ॥ ४३७ ॥
3.437 · p. 55
अनुष्टुप्
अथ स्यात् शोचनं शोकः शुक् खेदश्च रुषा तथा ।रुट् रोषो प्रतिघः कोपः क्रुत् क्रोधश्च तथा क्रुधा ॥ ४३८ ॥
3.438 · p. 55
अनुष्टुप्
मन्युश्चाथाऽभियोगश्चोत्साहः प्रौढिः प्रगल्भता ।उद्योग उद्यमश्चोर्जः तथापि कियदेतिका ॥ ४३९ ॥
3.439 · p. 55
अनुष्टुप्
पुनश्चाऽध्यवसायोऽथ वीर्यं सोऽतिशयान्वितः ।आतङ्कस्तु भयं भीतिः भिया भीः साध्वसं दरः ॥ ४४० ॥
3.440 · p. 55
अनुष्टुप्
प्राशङ्का चापि तच्चाऽहिभयं ज्ञेयं स्वपक्षजम् ।भूपतीनामथाऽदृष्टं जलाग्निप्रमुखात् तथा ॥ ४४१ ॥
3.441 · p. 55
अनुष्टुप्
स्वपरचक्रजं दृष्टं ज्ञेयं भीमं च भैरवम् ।दारुणं भीषणं घोरं भयानकं भयावहम् ॥ ४४२ ॥
3.442 · p. 56
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 न (wrong syllable)
भयङ्करं तथा भीष्मं प्रतिभयं च भासुरम् ।आभीलं डमरं चैव जुगुप्सा तु घृणा खलु ॥ ४४३ ॥
3.443 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
अथ स्याद्विस्मयो मोहः चित्रं चोद्यं तथाऽद्भुतम् ।आश्चर्यं फुल्लकं वीक्ष्यं शान्तिस्तु शमथस्तथा ॥ ४४४ ॥
3.444 · p. 56
अनुष्टुप्
उपशमः शमश्चैव तृष्णाक्षयस्तथैव च ।अमी तु स्थायिनो भावाः रसानां कारणं क्रमात् ॥ ४४५ ॥
3.445 · p. 56
अनुष्टुप्metre not read in every line
शृङ्गारे च रतिः स्थायी हास्ये तु हसनं तथा ।शोकः स्थायी च करुणे क्रोधो रौद्ररसे तथा ॥ ४४६ ॥
3.446 · p. 56
अनुष्टुप्
वीरे स्थायी समुत्साहो भयानके भयं भवेत् ।स्थायीभावश्च बीभत्से जुगुप्सा च घृणाथवा ॥ ४४७ ॥
3.447 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
आश्चर्यं विस्मयश्चित्रं स्थायी भावोऽद्भुते रसे ।शान्तरसे च तृष्णान्तः स्थायिभावश्च जायते ॥ ४४८ ॥
3.448 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
अथ स्तम्भो भवेज्जाड्यं धर्मः स्वेदस्तथैव च ।निदाघश्चाथ रोमाञ्चः कण्टकः पुलकस्तथा ॥ ४४९ ॥
3.449 · p. 56
अनुष्टुप्
रोमोद्गमस्तथा रोमविकारो रोमहर्षणम् ।पुनरुद्घुषणं ज्ञेयमुल्लकसनमित्यपि ॥ ४५० ॥
3.450 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ल्ल (wrong syllable)
कल्लत्वं स्वरभेदः स्याद् स्वरे कम्पस्तु वेपथुः ।वैवर्ण्यं कालिका स्याद्वै दृग्जलं रोदनं भवेत् ॥ ४५१ ॥
3.451 · p. 56
अनुष्टुप्
अस्रमस्रु च नेत्राम्बु बाष्पो लोतस्तथाऽश्रु वै ।मूर्च्छा तु प्रलयश्चैवासात्विकाऽचेष्टिताऽखित्वा ॥ ४५२ ॥
3.452 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 खि (wrong syllable)
अथ स्वास्थ्यं च सन्तोषो धृतिः स्यात् स्मरणं स्मृतिः ।अध्यानं धीर्मतिर्बुद्धिर्मनीषा धिषणा पुनः ॥ ४५३ ॥
3.453 · p. 57
अनुष्टुप्
ज्ञप्तिश्चित् चेतना प्रज्ञा प्रेक्षा च प्रतिभा तथा ।उपलब्धिश्च संवित्तिः दृष्टिश्च शेमुषी तथा ॥ ४५४ ॥
3.454 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
प्रतिपत् षोडशं नाम सा मेधा धारणक्षमा ।तत्त्वानुसारिणी पण्डा ज्ञानं च मोक्षदायकम् ॥ ४५५ ॥
3.455 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
विज्ञानमन्यतो ज्ञेयं धीगुणा अष्टधा पुनः ।शुश्रूषा श्रवणं चापि ग्रहणं धारणं तथा ॥ ४५६ ॥
3.456 · p. 57
अनुष्टुप्
ऊहोऽपोहोऽथ विज्ञानं तत्वज्ञानं च मन्यते ।अथ ब्रीडश्च मन्दाक्षं शूका सूका तथा त्रपा ॥ ४५७ ॥
3.457 · p. 57
अनुष्टुप्
व्रीडा लज्जा तथा ह्रीश्च ज्ञेया साऽपत्रपाऽन्यतः ।अथ जाड्यं तथा मौर्ख्यं विषादस्तु विषण्णता ॥ ४५८ ॥
3.458 · p. 57
अनुष्टुप्
अवसादश्च सादोऽपि विबुधैः कथ्यते किल ।मदो मुन्मोहसम्भेदः स्याद्व्याधिस्तु रुजाकरः ॥ ४५९ ॥
3.459 · p. 57
अनुष्टुप्
आधिश्चाथ प्रमीला स्यात् तन्द्रा तन्द्रिश्च तामसी ।तन्द्री नन्दीमुखी निद्रा श्वासहेतिश्च संलयः ॥ ४६० ॥
3.460 · p. 57
अनुष्टुप्
संवेशः शयनं स्वापः सुप्तं तु सुखसुप्तिका ।सुष्वापश्चेति निद्रायास्त्रयं नामाधिकं खलु ॥ ४६१ ॥
3.461 · p. 57
अनुष्टुप्
अथौत्सुक्यं तथोत्कण्ठ आयल्लकं तथाऽरतिः ।उत्कलिका तथोत्कण्ठा रणरणक इत्यपि ॥ ४६२ ॥
3.462 · p. 58
metre not recognised
हृल्लेखश्चापि प्रोक्तार्थैऽऽवहित्याऽऽकारगोपनम् ।आकारगूहनं गृहजालिकाऽवकुटारिका ॥ ४६३ ॥
3.463 · p. 58
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable); pāda 3, syllable 7 गृ (wrong syllable)
अवकुठारिका चैव स्यादऽवकटिका तथा ।अनिष्टोत्प्रेक्षणं शङ्का कथ्यते पण्डितैः सदा ॥ ४६४ ॥
3.464 · p. 58
अनुष्टुप्metre not read in every line
अथाऽनवस्थितिर्नाम चापलं च तदेव स्यात् ।तन्द्राऽऽलस्यञ्च कौसीद्यं स्याद्वै चित्तप्रसन्नता ॥ ४६५ ॥
3.465 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 व (wrong syllable)
ह्लादो हर्षः प्रमोदश्च प्रमदो मुच्च सम्मदः ।आनन्दाऽऽनन्दथूः प्रीतिः आमोदश्चापि कथ्यते ॥ ४६६ ॥
3.466 · p. 58
अनुष्टुप्
अथ गर्वश्च दर्पश्च मानश्चित्तोन्नतिः स्मयः ।ममता चाऽभिमानः स्यादहङ्कारोऽवलिप्तता ॥ ४६७ ॥
3.467 · p. 58
अनुष्टुप्
अहमहमिका ज्ञानं युद्धादौ दृश्यते सदा ।आहोयुकाषिका दर्पात् या सा सम्भावनाऽऽत्मनि ॥ ४६८ ॥
3.468 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
अहं पूर्वमहं पूर्वमिति स्यादहम्पूर्विका ।अहंप्रथमिका चैव तथाऽहमग्रिका किल ॥ ४६९ ॥
3.469 · p. 58
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 ह (wrong syllable); pāda 4, syllable 3 ह (wrong syllable)
उग्रत्वं चण्डता स्याद्वै ग्लानिस्तु बलहीनता ।प्रबोधः स्याद्विनिद्रत्वं दैन्यं कार्पण्यमुच्यते ॥ ४७० ॥
3.470 · p. 58
अनुष्टुप्
अथाऽऽयासः प्रयासश्च व्यायामश्च परिश्रमः ।क्लमः क्लेशः श्रमोऽपिस्यादुन्मादश्चित्तविप्लवः ॥ ४७१ ॥
3.471 · p. 58
अनुष्टुप्
मोहो मौढ्यं समानार्थः चिन्ता ध्यानं तथैव च ।अमर्षः क्रोधसञ्जातो जिगोषोत्साहवान् गुणः ॥ ४७२ ॥
3.472 · p. 59
अनुष्टुप्
आकस्मिकं भयं त्रासः स्यादाऽऽवेशस्तथा किल ।अपस्मारोऽथ निर्वेदः कथ्यते स्वावमाननम् ॥ ४७३ ॥
3.473 · p. 59
अनुष्टुप्
आवेगः स्यात् त्वरा तूर्णिः संवेगः सम्भ्रमस्त्वरिः ।अथ तर्कः परामर्शो वितर्कश्च विमर्शनम् ।ऊह उन्नयनं चोहाऽध्याहारश्चापि उच्यते ॥ ४७४ ॥
3.474 · p. 59
अनुष्टुप्
अन्येषाञ्च गुणे दोषाऽऽरोपणं क्रियते च यत् ।कथ्यते खल्वऽसूया सा लोकमध्ये तु पण्डितैः ॥ ४७५ ॥
3.475 · p. 59
अनुष्टुप्
* मृत्युनामानि *
मृत्युः कालो मृतिः संस्था कालधर्मो निमीलनम् ।पञ्चत्वमवसानं च तथा निधनमत्ययः ॥ ४७६ ॥
3.476 · p. 59
अनुष्टुप्
दीर्घनिद्रा च दिष्टान्तः परलोकगमस्तथा ।नाशोऽस्तं चेति मृत्योर्नामानि कथितानि वै ॥ ४७७ ॥
3.477 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुनः स्यात् सर्वगा मृत्युर्मोरिश्च मरकस्तथा ।त्रयस्त्रिंशदमी भावाः भवेयुर्व्यमिचारिणः ॥ ४७८ ॥
3.478 · p. 59
अनुष्टुप्
कारणानि च कार्याणि सहचारीरिणि यानि वै ।रत्यादेः स्थायिनो लोके तानि चेन्नाटयकाव्ययोः ॥ ४७९ ॥
3.479 · p. 59
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 1 सह (syllable split)
विभावाश्चाऽनुभावाश्च व्यभिचारिणः एव वै ।व्यक्तः स तैर्विभावाद्यैः स्थायिभावो भवेद्रसः ॥ ४८० ॥
3.480 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 णः (wrong syllable)
ये नाट्येऽधिकृताः सन्ति लोके पात्रञ्च तान् विदुः ।तत्तद्वेषोऽपि नाट्ये वै मन्यते भूमिका किल ॥ ४८१ ॥
3.481 · p. 60
अनुष्टुप्
* नटनामानि *
अथ नटः कृशाश्वी च शैलूषो भरतस्तथा ।धर्मी पुत्रश्च शैलाली तथा भरत पुत्कः ॥ ४८२ ॥
3.482 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
जायाजीवश्च रङ्गाजीवो रङ्गावतारकः ।कथ्यते सर्वकेशी च चारणीस्तु कुशीलवः ॥ ४८३ ॥
3.483 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भ्रकुंसः स्याद्भ्रकुंसश्च भ्रकुंशो भृकुंसस्तथा ।स्त्रीवेषधारकः सोऽपि नाटके कथ्यते नटः ॥ ४८४ ॥
3.484 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 कुं (wrong syllable)
पुनः स्यात् पीठमर्श्च वेश्याचार्यस्तथैव च ।सूचकः सूत्रधारः स्यात् स्थापको बीजदर्शकः ॥ ४८५ ॥
3.485 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नन्दी स्यात् पाठको नान्द्याः पार्श्वस्थः पारिपार्श्विकः ।विदूषकः प्रहासी स्याद् वासन्तिकश्च प्रीतिदः ॥ ४८६ ॥
3.486 · p. 60
अनुष्टुप्metre not read in every line
वैहासिकस्तथा केलिकिलः केलीकिलश्च वै ।अथ पल्लवकः षिङ्गस्तथा विटोऽपि कथ्यते ।आवुकश्च पिता प्रोक्त आवुत्तभावुकौ पुनः ॥ ४८७ ॥
3.487 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable); pāda 4, syllable 3 त्त (wrong syllable)
भगिनी स्वामिनी प्रौक्ता भावो विद्वान् हि कथ्यते ।युवराजः कुमारश्च स्याद्भर्तृदारकस्तथा ॥ ४८८ ॥
3.488 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्तृ (wrong syllable)
बाला वासूः कुमारी स्याद् मार्ष आर्यश्च मारिषः ।देवो भट्टारको भूपः श्यालो नृपस्य राष्ट्रियः ॥ ४८९ ॥
3.489 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नृ (wrong syllable)
स्याद्भर्तृदारिका सा तु कथ्यते दुहिता बुधैः ।देवी कृताभिषेकाऽन्या कथ्यते भट्टिनी तथा ॥ ४९० ॥
3.490 · p. 61
अनुष्टुप्
अज्जुका चाऽर्जुका चैव कथिताः गणिकाः किल ।नीचा चेटी सखी हूतौ हण्डेहञ्जेहलाः क्रमात् ॥ ४९१ ॥
3.491 · p. 61
अनुष्टुप्
अब्रह्मण्यमवध्योक्तौ स्याज्ज्यायसी स्वसाऽत्तिका ।तथा भर्ताऽऽर्यपुत्रो वै माताऽम्बा कथ्यते बुधैः ॥ ४९२ ॥
3.492 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
भदन्ताश्चापि वै ज्ञेयाः सौगतप्रमुखाश्च ये ।पूज्यस्तत्रभवानत्रभवांश्च भगवानपि ॥ ४९३ ॥
3.493 · p. 61
अनुष्टुप्
इत्येवं कथ्यते पूज्ये प्रयोज्यः पूज्यनामतः ।भट्टो भट्टारको देवः पादाः भरटकस्तथा ॥ ४९४ ॥
3.494 · p. 61
अनुष्टुप्
गुरुपादाः यथा ज्ञेयाः अर्हद्भट्टारकस्तथा ।कुमारपालदेवश्चेत्यादयोऽनेकशब्दकाः ॥ ४९५ ॥
3.495 · p. 61
अनुष्टुप्