राजन्
rājanपुं · masc.In 26 kośas: 45 synonym verses, 9 as a nānārtha head word, 50 as a meaning of another word.
चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः ।कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ १०४ ॥जैवातृकोऽब्जश्च कलाशशैणच्छायाभृदिन्दुर्विधुरत्रिदृग्जः ।राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिर्ग्लौः ॥ १०५ ॥
रथोद्धता
चन्द्रमस्पुंकुमुदबान्धवपुंदशश्वेतवाजिन्पुंअमृतसूपुंतिथिप्रणीपुंकौमुदीपतिपुंकुमुदिनीपतिपुंभपतिपुंदक्षजापतिपुंरोहिणीपतिपुंद्विजपतिपुंनिशापतिपुंओषधीपतिपुंजैवातृकपुंअब्जपुंकलाभृत्पुंशशभृत्पुंएणभृत्पुंछायाभृत्पुंइन्दुपुंविधुपुंअत्रिदृग्जपुंराजन्पुंनिशाकरपुंरत्नकरपुंचन्द्रपुंसोमपुंअमृतद्युतिपुंश्वेतद्युतिपुंहिमद्युतिपुंग्लौपुं
genderपुंmasc.
यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
राजा राट्पृथिवीशक्रमध्यलोकेशभूभृतः ॥ ६८९ ॥महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
क्षत्त्रं तु क्षत्त्रियो राजा राजन्यो बाहुसंभवः ॥ ८६३ ॥
अनुष्टुप्
genderपुंmasc.
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः,सोमो राजा रोहिणीवल्लभोऽब्जः ।ऋक्षेशः स्यादत्रिनेत्रप्रसूतः,प्रालेयांशुः श्वेतरोचिः शशाङ्कः ॥ ४२ ॥
शालिनी
genderपुंmasc.
राजा राजन्यो राट् प्रजापतिः क्षत्रियो नृपः क्षत्त्रम् ।मूर्धाभिषिक्तभूपतिपार्थिवनरदेवलोकपालाः स्युः ॥ ४२१ ॥
गीतिः
genderपुंmasc.
भारती गीर्वाणवाणी शेपाश्चेष्टा इति क्वचित् ।अथ नाट्योन्नयो राजा देवो भट्टारकोऽपि च ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
ब्राह्मणस्त्वग्रवर्णश्च विप्रो मन्त्रमुखोऽपि च ।क्षत्रियो बाहुजो राजा भूमीशश्च निगद्यते ॥ ३२८ ॥
अनुष्टुप्
genderपुंmasc.
ब्राह्मणस्तनयाचार्यः परमन्युरितीर्यते ।राजा वसुन्धराकान्तः राकस्तु नरनिर्जरः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
अब्जो राजा शशिश्चन्द्रो मृगाङ्करजनीकरः ।रजनीशो यामिनीशः क्षपाकरो निशाकरः ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
राजन्यो बाहुपर्यायजन्मार्थः क्षत्रियो विराट् ।राड्राजा स्यादपि क्षत्रं राज्ञि भूपार्थपार्थिवौ ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
राजा भट्टारको देवः कुमारो भर्तृदारकः ।भर्तृदारिका तत्सुता स्याज्ज्येष्ठा भग्न्यन्तिकापि च ॥ ८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वयस्य राजन्निति वा स च वाच्यो विदूषकैः ।कृताभिषेका महिषी देव्यश्चान्या नृपस्त्रियः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रश्चन्दश्चन्दिरश्चद्रमाः सइन्दुः सिन्धूत्थः सुधांशुः सुधासूः ।तारापीडस्तारकेशो द्विजेशः ।राजा सोमः पक्षजन्मा परिज्मा ॥ ५६ ॥
शालिनी
genderपुंmasc.
राजा राट् पृथिवीशक्रो महीक्षित्पार्थिवो नृपः ।मध्यलोकपतिर्भूभृत्प्रजानाथश्च भूपतिः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.
राजा तु पार्थिवो भूभृद्भूपो नरपतिर्नृपः ।सार्वभौमश्चक्रवर्ती नृपोऽन्यो मण्डलेश्वरः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
राजाधिपः पतिः स्वामी नाथः परिवृढः प्रभुः ।ईश्वरो विभुरीशानो भर्तेन्द्र इन ईशिता ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
यक्षस्तु गुह्यकः पुण्यजनो राजा वटालयः ।किंनरोऽश्वमुखश्चैव किंपुरुषमयू समौ ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 पु (wrong syllable)
genderपुंmasc.
माठराद्यास्तथा भानोः पारिपार्श्विकनामकाः ।चन्द्रो निशापती राजा निशारत्नकलाभृतौ ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
गेन्दुकः कन्दुको बालक्रीडने तु गुडो गिरिः ।गिरियकौ गिरिगुडो राजा भूभृन्महीपतिः ॥ ३२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंmasc.
सौख्यराजो हरिहयो राजा मारुत इत्यपि ।स्वराण्मरुत्वान् गोपाणिः शतमन्युर्दिवस्पतिः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
राजा भट्टारको देवो भूपतिः क्ष्मापतिर्नृपः ।राज्ञी राजप्रिया देवी महिषी नृपवल्लभा ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कैलासनिलयो राजा किलासाधिपतिर्विभुः ।किलासमलकायां स्याद्वने चैत्ररथं स्मृतम् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
रसस्तु पारदो राजा महाजीवो महादनः ।तद्भेदे दरदो हिंगी शिखाग्नी रसजिह्विका ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रियो बाहुजो राजा भूभुजश्चक्रपालकः ॥ १६ ॥
genderपुंmasc.
ओषधीशो निशानाथ इन्दुः कुमुदिनीपतिः ।अब्जो राजा चोडुपतिः कलानाथो हिमद्युतिः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रियो बाहुजः क्षत्रं राजन्यो राजवंशजः ।राजा राट् पार्थिवः क्ष्माभृन्महीक्षिन्नृपतिर्नृपः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
राजा पुण्यजनो यक्षः वटवासी च गुह्यकः ॥ २२९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
भूभृत् भूपश्च भूपालो लोकपालश्च पार्थिवः ।मूर्धाभिषिक्तमूर्धावसिक्तौ राजा च राट् तथा ॥ ११२२ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रस्तु क्षत्रियो राजा राजन्यो बाहुसंभवः ॥ १४४३ ॥
अनुष्टुप्
genderपुंmasc.
ओषधीशो दर्शविपत् तारापीडः कलानिधिः ।विधुर्जैवातृको राजा ग्लौः शशाङ्को निशापतिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
क्षत्रियो बाहुजः क्षत्रो द्विजलिङ्गी नृपो विराट् ।राजा मूर्धाभिषिक्तश्च राजन्यो मूर्धकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
धाम नान्तमदन्तं च, ताविषं तविषं तथा ।बलेऽप्यथो विधौ राजा राजराजश्च चन्दिरः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
मूर्द्धावसिक्तो राजा राट् राज्ये महिन-माहिने ।वसुदेवा वासुदेवा अर्द्धचक्रिषु सम्मताः ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ ।आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ॥ ३१५ ॥
metre not recognised
genderपुंmasc.
अब्जश्चन्द्रो विधुरमृतगुश्चन्द्रमा ओषधीश-स्तारानाथः सरसिजरिपुः शर्वरीशः शशाङ्कः ।ग्लौरेणाङ्कः शिशिरकिरणो रोहिणीबन्धुरिन्दुःसोमो राजा तुहिनकिरणः श्वेतभानुर्द्विजेन्द्रः ॥ १७६ ॥
मन्दाक्रान्ता
genderपुंmasc.
मूर्धाभिषिक्तबाहुजराजन्यक्षत्रियविराजः ।क्षत्रमथ राण्महीभृत्पार्थिवनृपराजभूपनरदेवाः ॥ १२६६ ॥
उद्गीतिः
genderपुंmasc.
भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः ।ब्राह्मणेन तु नाम्नैव राजन्नित्यृषिभिः स च ॥
अनुष्टुप्
genderपुंmasc.
वयस्य राजन्निति वा विदूषक इमं वदेत् ।अभिषिक्ता तु राज्ञासौ देवीत्यन्या तु भोगिनी ॥
अनुष्टुप्
genderपुंmasc.
ऌः स्थाणुर्दक्षगण्डश्च विशेषश्चैव पार्थिवः ।महेन्द्रो लाङ्गलिश्चैव राजा धूम्रो बकस्तथा ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
छायामृगधरो राजा माः परिज्ञो बलक्षगुः ।द्विजो दाक्षायणी तुङ्गी रोहिणी यज्वनाम्पतिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रं बाहुजराजन्यौ भूशक्रः क्षत्रियो विराट् ।राजा तु पार्थिवो भूभुग्राड्भूपो नृपतिर्नृपः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शक्रे च यक्षे भुजगे च वर्णेद्युवा रवौ चाभिगमे च पुंसि ।स्युर्वाजिनो बाणविहंगमाश्वाःप्रेत्वा तु वायावपि वासवे च ॥ ८४ ॥
उपजातिः
doubtful
राजा ना सोमवल्ल्यां च चन्द्रे च द्वे तु पार्थिवे ।क्षत्त्रिये च प्रभौ तु त्रिरस्मिन्नर्थत्रये यदा ॥ ११०६ ॥
अनुष्टुप्
रञ्जनो रागजनने रञ्जनं रक्तचन्दने ।नीलीरोचनिकाशुण्डामञ्जिष्ठासु च रञ्जिनी ॥रजनी रात्रिजतुकाहरिद्रानीलिनीषु च ।राधना तोषणे स्त्री स्यात्क्लीबं प्राप्तौ च साधने ॥राजा नृपे प्रभौ चन्द्रे क्षत्रिये च पुमानयम् ।रेचनी कर्कश-दन्ती-रोचनी-त्रिवृतासु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
राजन् as a meaning in nānārtha verses
- धरणिकोश स्कन्धस्कन्धो राज्ञि भुजामूले समाम्नायसमूहयोः । काये तरुप्रकाण्डे स्याद्राज्ञां भाण्डादिके करे ॥ Dharaṇikośa 18.3.3
- धरणिकोश इनइनः सूर्ये प्रभौ राज्ञि योनिः स्यादाकरे भगे । हनिन्यूनौ [च?] गर्ह्यार्थौ सूनुः पुत्रेऽनुजेऽपि च ॥ Dharaṇikośa 19.1.5
- धरणिकोश भोगिन्भोगी राजनि सर्पे च वैयापृत्यकरेऽपि च । भोगिन्य राजकामिन्यः संगृहीताश्च योषितः ॥ Dharaṇikośa 19.3.10
- धरणिकोश नलनलो नले राज्ञि कपिप्रभेदे कमले नलम् । नली सुगन्धिभेदे च नलः स्यात्पितृदेवता ॥ Dharaṇikośa 27.3.4
- कोषकल्पतरु भट्टारकपरस्य मर्माण्यभिगन्तरि स्या- द्भट्टारको राज्ञि सुरे मुनौ च । दलाढकः कुञ्जरकर्णकुन्द- चाम्पेयफेनातिमहत्तरेषु ॥ ३२ ॥ Koṣakalpataru 6.1.32
- कोषकल्पतरु पुरिपूज्येऽन्यवत्स्यादथ राज्ञि पुंसि नदीपुरोः स्त्री च पुरिः प्रदिष्टः । शिरिः पुमान्स्याच्छलभे शरारौ विशेष्यवद्वारि तु बालकेऽन्त्ये ॥ ७१ ॥ Koṣakalpataru 6.27.71
- कोषकल्पतरु नहुषस्याद्धेमले ना निकषः स्त्रियां तु रक्षोजनन्यां नहुषोऽहिराज्ञोः । पापेऽन्तिमे स्यात्कलुषं परस्मिं- स्तदाविले कल्मषरोगयोस्तु । तथापराधेऽपि च किल्बिषं स्या- त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥ Koṣakalpataru 6.30.46
- कोषकल्पतरु अविषनटे च पुंस्त्वेऽप्यथ मारिषः स्या- च्छाकप्रभेदे गदितस्तथार्ये । दक्षाम्बिकायां तु स योषिति स्या- दथाविषो राजनि वारिराशौ ॥ ५६ ॥ Koṣakalpataru 6.30.56
- कोषकल्पतरु अवसवाते तथात्मन्यतसः स्त्रियां तु क्षुमाभिधायामवसोऽर्कराज्ञोः । अम्भोनिधौ स्यान्नभसोऽब्दकाले क्लीबेऽन्तरिक्षेऽप्यथ पुक्कसः स्यात् । चण्डालके च श्वपचे स्त्रियां तु स्यान्नीलिकायामपि कालिकायाम् । वनीयके स्याल्लभसो धनेऽन्त्ये- ऽर्वदोरके स्त्री पनसो[88b]द्रुभेदे ॥ ८७ ॥ Koṣakalpataru 6.31.87
- नानार्थार्णवसंक्षेप इनकेचित् तु जीविते प्राहुः क्रतुभेदेऽथ पुन्नपोः । इनः सूर्यात्मनोः पुंसि राजन्यन्येऽथ स त्रिषु ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.82
- नानार्थार्णवसंक्षेप द्युतत्साधने द्युतिस्तु स्त्री प्रभाभिगमकान्तिषु । पुमांस्तु द्योततौ ना तु द्युवार्कस्वर्गराजसु ॥ ६०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.609
- नानार्थार्णवसंक्षेप धर्मराशौ तु नवमे प्राहुर्मौहूर्ता ना तु सोमपे । न्यायाचारयमाहिंसाखड्गचापेषु राज्ञि च ॥ ६२९ ॥ Nānārthārṇavasaṃkṣepa 2.5.629
- नानार्थार्णवसंक्षेप पाण्डुपार्ष्णिरुन्मत्तनार्यां स्यात् पादग्रन्थेरधोऽपि च । पुमांस्तु पृतनाकट्यां पाण्डुस्तु नरि राजनि ॥ ७६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.763
- नानार्थार्णवसंक्षेप भुरिज्अन्यस्तु राजनि पुमानित्याह क्ली तु भूतवाक् । महाभूतेषु भवनक्रियायां प्राप्तिसत्ययोः ॥ ९१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.913
- नानार्थार्णवसंक्षेप सम्राज्सम्राट् तु पुंसि विष्ण्वर्कहुताशेन्द्रेषु राज्ञि तु । येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥ १४७३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1473
- नानार्थार्णवसंक्षेप साल्वमध्यदेशस्थिते कारुकुत्सीयाख्ये तथा पुनः । प्राच्यां नीवृद्विशेषे च तयो राज्ञोः पुमानयम् ॥ १४९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1499
- नानार्थार्णवसंक्षेप कम्बोजसूरणेऽथात्मगुप्तायां कण्डुरा स्त्री नृभूम्नि तु । कम्बोजा देशभेदे स्यान्ना तु स्यात् तम्य राजनि ॥ ३७५ ॥ Nānārthārṇavasaṃkṣepa 4.375
- नानार्थार्णवसंक्षेप गोपालगोपालस्तु पुमान् राज्ञि त्रि तु गोः पातरि त्रि तु । गोसङ्ख्य इति गोपे स्याद् गोसङ्ख्या तु स्त्रियां गवाम् ॥ ६९० ॥ Nānārthārṇavasaṃkṣepa 4.690
- नानार्थार्णवसंक्षेप निषधव्यङ्गे पुमांस्तु निषधो दक्षिणे कुलपर्वते । मेरोर्नीवृत्प्रभेदे च तस्य राजनि च त्रि तु ॥ १०२१ ॥ Nānārthārṇavasaṃkṣepa 4.1021
- नानार्थार्णवसंक्षेप पञ्चालपञ्चालः स्याच्च पुम्भूम्नि नीवृद्भेदेऽस्य राजनि । स्यात् सर्ववचनस्तस्य पाञ्चालीति स्त्र्यपत्यके ॥ १०५७ ॥ Nānārthārṇavasaṃkṣepa 4.1057
- नानार्थार्णवसंक्षेप सुनीथपूर्वे राजनि कस्मिंश्चित् कश्चित् त्वाह + + + + । + + + + + + + + + ङ्गभेदे यदाह्वयः ॥ १९७७ ॥ Nānārthārṇavasaṃkṣepa 4.1977
- नानार्थार्णवसंक्षेप महाराज(म?न)खे वैश्रवणे राज्ञि महत्यथ महाबुसः । यवे हायनसंज्ञे च धान्येऽथ स्यान्महामुनिः ॥ ९८ ॥ Nānārthārṇavasaṃkṣepa 6.98
- नानार्थार्णवसंक्षेप लोकपाललक्ष्मीपतिर्नृपे विष्णौ लोकपालस्तु राजनि । इन्द्रादौ वह्निगर्भस्तु समुद्रे पादपेऽपि च ॥ १०४ ॥ Nānārthārṇavasaṃkṣepa 6.104
- नानार्थार्णवसंक्षेप नन्दयन्ततत्पुष्पे नन्दयन्तस्तु पुमान् राज्ञि स्त्रियां पुनः । नन्दयन्ती मृडान्यां स्यात् सुवर्णेऽपि सुखेऽपि च ॥ २९६ ॥ Nānārthārṇavasaṃkṣepa 6.296
- नानार्थार्णवसंक्षेप भट्टारकभट्टारको ना नाट्योक्तौ राज्ञि पूज्ये च पूरुषे । स्त्री तु भट्टारिका ज्ञेया नाट्योक्तावेव मातरि ॥ ४३१ ॥ Nānārthārṇavasaṃkṣepa 6.431
- नानार्थार्णवसंक्षेप युयुधानयुयुधानस्तु कस्मिंश्चिद् राज्ञि पुंसि त्रिषु त्वयम् । ज्ञेयः साहसिके योद्धर्यन्येऽन्ये तु युयुत्सके ॥ ५१४ ॥ Nānārthārṇavasaṃkṣepa 6.514
- नानार्थार्णवसंक्षेप मूर्धाभिषिक्तमुर्धाभिषिक्तो ना राज्ञि क्षत्त्रिये तु द्वयोस्त्रि तु । प्रधाने वैजयन्त्यां तु प्रभाविति समीरितम् ॥ ८५ ॥ Nānārthārṇavasaṃkṣepa 7.85
- परमानन्दीयनाममाला इन्द्रइन्द्रो राज्ञि रवौ देवनायकेऽप्यन्तरात्मनि ॥ ५६ ॥ Paramānandīyanāmamālā 5.2.56
- परमानन्दीयनाममाला देवदानं हस्तिमदे शुद्धौ रक्षणे च विसर्जने । दरो गर्ते भये देवः सुरराजजिगीषुषु ॥ २३९ ॥ Paramānandīyanāmamālā 5.16.239
- परमानन्दीयनाममाला सह्यसह्यो राज्ञि गिरौ सह्यं सोढव्ये रोगवर्जिते । साधुर्मुनौ तथार्ये च सोमः कर्पूरचन्द्रयोः ॥ ३६६ ॥ Paramānandīyanāmamālā 5.27.366
- परमानन्दीयनाममाला हंसहंसो धर्मे रवौ राज्ञि विष्णुजीवसितेषु च । खगान्तरेऽथ हस्तस्तु भुजे माने कचोचये ॥ ३७५ ॥ Paramānandīyanāmamālā 5.28.375
- शारदीयाख्यनाममाला हरिश्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे चन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने मार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥ Śāradīyākhyanāmamālā 3.5.128
- शब्दरत्नावली नागवारिकगणस्थे राजे गरुढे हस्तिये राजकुञ्जरे । चित्रमेखलके पुंसि वागरे नागवारिकः ॥ Śabdaratnāvalī 7.1.214
- शब्दरत्नावली विषयिन्गोविन्दे वनमाली स्याद्वाराह्यां वनमालिनी । राज्ञि वैषयिके पुंसि विषयेध्मास्मरेऽपि च ॥ Śabdaratnāvalī 7.20.136
- शब्दरत्नावली विभुदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- शब्दरत्नावली वलदलं पत्रोत्सेधखण्डपाशशस्त्रिघनेषु च । वलः पोटगले राज्ञि कविभित्पुतृदेवयोः ॥ Śabdaratnāvalī 7.28.20
- शब्दरत्नावली पक्षप्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥ विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥ प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ Śabdaratnāvalī 7.31.10
- शब्दरत्नाकर विषयिन्वेष्टने मुकुटोष्णीषे व्युत्थानं प्रतिकूलता । स्वातन्त्र्यकरणं चाथ विषयी राज्ञि मन्मथे ॥ २१६८ ॥ Śabdaratnākara 4.1.2168
- शब्दरत्नाकर लोकपालरजस्वलस्तु महिषे पुष्पवत्यां रजस्वला । लोकपालो नृपेन्द्राद्योः राज्ञि लक्ष्मीपतिर्हरौ ॥ २२२२ ॥ Śabdaratnākara 4.1.2222
- शब्दार्णव नलतृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम् ॥ २२६ ॥ Śabdārṇava 226
- त्रिकाण्डशेष भट्टारकपिञ्जे ना सिकताकर्णभूषाकन्यासु बालिका । शिवमल्ल्यां बकः कह्वे राज्ञि भट्टारकः सुरे ॥ ३५ ॥ Trikāṇḍaśeṣa 3.3.35
- त्रिकाण्डशेष सार्वभौमसार्वभौमो गजे राज्ञि सम्भ्रमौ साध्वसादरौ । कण्टकेऽल्पे च सूक्ष्मं स्यात्साधौ तुल्येऽखिले समः ॥ ३०४ ॥ Trikāṇḍaśeṣa 3.3.304
- त्रिकाण्डशेष नरेन्द्रना षिड्गे नागरं शुण्ठ्यां नरोऽजे मनुजेऽर्ज्जुने । नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽपि दृश्यते ॥ ३६० ॥ Trikāṇḍaśeṣa 3.3.360
- त्रिकाण्डशेष देवतत्त्वं विलम्बिते नृत्ये स्वरूपे परमात्मनि । मेघे राज्ञि सुरे देवो द्विजिह्वो व्यालसूचकौ ॥ ४१६ ॥ Trikāṇḍaśeṣa 3.3.416
- त्रिकाण्डशेष पार्थिवघटादौ पार्थिवो राज्ञि वल्लवः सूदगोपयोः । गजे धन्विनि शुक्रे पर्शुरामे च भार्गवः ॥ ४१९ ॥ Trikāṇḍaśeṣa 3.3.419
- वैजयन्ती निषधद्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके । निषधोऽद्रौ देशभेदे कठिने तस्य राजनि ॥ ३८ ॥ Vaijayantī 7.1.38
- वैजयन्ती विषयिन्विनयं ग्राहिते चैष सुखवाहिहये पुमान् । विषयी राज्ञि कन्दर्पे विषयस्थजने च ना ॥ ७५ ॥ Vaijayantī 7.5.75
- वैजयन्ती प्रजापतिदक्षादिष्वग्निजामात्रो राज्ञि ब्रह्मणि धातरि । ब्रह्मपुत्रस्तु रुद्रेऽपि बाहुलेयो गुहे वृषे ॥ ३५ ॥ Vaijayantī 8.1.35
- वैजयन्ती लक्ष्मीपतिलक्ष्मीपुत्रोऽश्व आढ्ये च राज्ञि लक्ष्मीपतिर्हरौ । लोकपालो नृपेन्द्राद्योर्हये वातप्रमीर्मृगे ॥ ३८ ॥ Vaijayantī 8.1.38
- वैजयन्ती मूर्धाभिषिक्तमूर्धाभिषिक्तो ना राज्ञि क्षत्रिये चार्थवत् प्रभौ । हरिचन्दनमस्त्री स्याच्चन्दने देवपादपे ॥ २७ ॥ Vaijayantī 8.5.27