कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्राश्निक

prāśnikaपुं · masc.

In 5 kośas: 6 synonym verses.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.151 · p. 6
सत्यवत्यां गन्धवती मत्स्योदर्यथ वक्रये ।भाटकोऽथ साक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथ ॥ १५१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable); pāda 3, syllable 4 थ (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.72 · p. 76
सामाजिकाः प्राश्निकाश्च सभ्याः पारिषदा अपि ।परिषद्वलाः परिषदाः पर्षद्याः परिषद्वलाः ॥ ७२ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.7 · p. 133
अवक्रयो भाटकोऽस्त्री द्रव्यवृद्धौ कला स्त्रियाम् ।मध्यस्थः प्राश्निकः साक्षी स्थेयोऽथो कूटसाक्षिणि ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1479 · p. 235
मध्यस्थः प्राश्निकः साक्षी स्थेयः सत्यं वदेत् सदा ।कथ्यते कूटसाक्षी च मिथ्याभाषी निगद्यते ॥ १४७९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.8 · p. 57
होत्रं हविष्यं सान्नाय्यं पाठको धर्मभाणकः ।सभ्यस्तु प्राश्निका देवद्रोणी यात्रा दिवौकसाम् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.9 · p. 123
ग्रहीतर्यधमर्णः स्यादाप्तः प्रत्ययितः समौ ।मध्यस्थः प्राश्निकः साक्षी मूली स्याद्दुष्टसाक्षिणि ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.