कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

मर्त्यविभागः (12/13)

* स्फोटायनऋषिनामानि *

कक्षिवान् स्फोटनः स्फोटायनः स्फौटायनश्च वै ।स्फोटायनस्य नामानि कथयन्ति हि पण्डिताः ॥ १४२५ ॥
4.1425 · p. 225
अनुष्टुप्

* पालकाप्यऋषिनामानि *

प्रोक्तं नाम पालकाप्यः कारेणवः करेणुभूः ।
4.1322 · p. 225
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable); pāda 2, syllable 3 ण (wrong syllable)

* वात्स्यायनऋषिनामानि *

वात्स्यायनो द्रामिलश्च चाणक्यः चणकात्मजः ॥ १४२६ ॥
4.1426 · p. 225
metre not recognised
कौटल्यश्चापि कौटिल्यो मल्लनागस्तथाऽङ्गुलः ।पुनश्च पक्षिलस्वामी विष्णुगुप्तोऽपि कथ्यते ॥ १४२७ ॥
4.1427 · p. 225
अनुष्टुप्

* क्षतव्रतनाम *

क्षतव्रतोऽवकीर्णी च क्षतव्रतस्य नाम ।स व्रतभङ्गकारकब्रह्मचारी निगद्यते ॥ १४२८ ॥
4.1428 · p. 226
metre not recognised
संस्कारवर्जितो व्रत्यः संस्काररहितो द्विजः ।शिश्विदानो दुराचारः कृष्णकर्माऽपि कथ्यते ॥ १४२९ ॥
4.1429 · p. 226
अनुष्टुप्
ब्रह्मबन्धुश्च नामाऽस्ति द्विजोऽधमोऽपि मन्यते ।नष्टाग्निर्विरहा विप्रो विनष्टाग्निहोत्राग्निवत् ॥ १४३० ॥
4.1430 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable); pāda 4, syllable 5 हो (wrong syllable)
विप्रो द्विजब्रुवो जातिमात्रजीवी च मन्यते ।धर्मध्वजी लिङ्गवृत्तिः पाखण्डी वेषवान् स वै ॥ १४३१ ॥
4.1431 · p. 226
अनुष्टुप्
वेदहीनो निराकृतिः स्वाध्यायरहितो द्विजः ।वार्त्ताशी भोजनार्थं यो ब्रूते गोत्रादिकं निजम् ॥ १४३२ ॥
4.1432 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 कृ (wrong syllable)
उच्छिष्टभोजनो देवनैवेद्यबलिभक्षकः ।पुनश्च कथ्यते देवनैवेद्यबलिभोजनः ॥ १४३३ ॥
4.1433 · p. 226
अनुष्टुप्

* अजपनाम *

अजपस्त्वसदध्येता कुपाठकजनः स्मृतः ।
4.1331 · p. 226
अनुष्टुप्

* शाखारण्डनाम *

अन्यशाखाकर्मकर्ता शाखारण्डोऽन्यशाखकः ॥ १४३४ ॥
4.1434 · p. 226
अनुष्टुप्

* शस्त्रजीविनाम *

शस्त्राजीवस्तथा काण्डस्पृष्टः शस्त्रेण जीविते ।
4.1333 · p. 227
अनुष्टुप्

* गुरुघ्ननाम *

गुरुहत्याकर्तृनाम गुरुहा नरकीलकः ॥ १४३५ ॥
4.1435 · p. 227
अनुष्टुप्

* मलनाम *

देवपूजां विना यः स्यात् स मलः कथ्यते बुधैः ।
4.1335 · p. 227
अनुष्टुप्

* मलिम्लुचनाम *

मलिम्लुचः पञ्चयज्ञः परिभ्रष्टस्तथा हि सः ॥ १४३६ ॥
4.1436 · p. 227
अनुष्टुप्

* खरुनाम *

निषिद्धैकरुचिर्लोके खरुरित्यभिधीयते ।
4.1337 · p. 227
अनुष्टुप्metre not read in every line

* अभ्युदितनाम *

अभ्युदितस्तु यः शेते सूर्योदये च सत्यपि ॥ १४३७ ॥
4.1437 · p. 227
अनुष्टुप्metre not read in every line

* अभिनिर्मुक्तनाम *

सूर्यास्तसमये शेते सोऽभिनिर्मुक्तनामवान् ।
4.1339 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वी (syllables merged)

* वीरोज्झनाम *

वीरोज्झस्तु स ख्यातो न जुहोति कदापि यः ॥ १४३८ ॥
4.1438 · p. 227
अनुष्टुप्metre not read in every line

* वीरोपजीवनाम *

वीरोपजीवकः ख्यातो यो होमनामयाचकः ।
4.1341 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)

* वीरविप्लावकः *

शूद्रवित्तधनैर्होता वीरविप्लावको भवेत् ॥ १४३९ ॥
4.1439 · p. 228
अनुष्टुप्metre not read in every line

* आर्हतनाम *

आर्हतः स्याद्वादवादी जैनोऽनेकान्तवादिनि ।
4.1343 · p. 228
अनुष्टुप्

* सौगतनाम *

शून्यवादी सौगतस्तु बौद्ध एव निगद्यते ॥ १४४० ॥
4.1440 · p. 228
अनुष्टुप्

* नैयायिकनाम *

आक्षपादस्तथा नाम यौगो नैयायिकोऽपि च ।
4.1345 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स्य (wrong syllable)

* सांख्यनाम *

सांख्यस्तु कापिलः प्रोक्तः सांख्यशास्त्रस्य ज्ञातरि ॥ १४४१ ॥
4.1441 · p. 228
अनुष्टुप्metre not read in every line

* वैशेषिकनाम *

वैशेषिकः काणादः स्यादौलुक्यो न्यायज्ञातरि ।
4.1347 · p. 228
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 य (wrong syllable)

* चार्वाकनाम *

बार्हस्पत्यो नास्तिकः स्यात् लोकायतिक इत्यपि ॥ १४४२ ॥
4.1442 · p. 228
metre not recognised
लोकायितिक नामापि चार्वाकाश्चारुभाषणात् ।
4.1349 · p. 229
अनुष्टुप्

* क्षत्रियनाम *

क्षत्रस्तु क्षत्रियो राजा राजन्यो बाहुसंभवः ॥ १४४३ ॥
4.1443 · p. 229
अनुष्टुप्

* वैश्यनाम *

अर्यो भूमिस्पृशो वैश्या उरव्या उरुजा विशः ।
4.1351 · p. 229
अनुष्टुप्

* वृत्तिनाम *

वाणिज्यं पशुपाल्यञ्च कर्षणं नाम च स्मृतम् ॥ १४४४ ॥
4.1444 · p. 229
अनुष्टुप्

* आजीविकानाम *

आजीवो जीवनं वार्ता जीविका वृत्तिवेतने ।
4.1353 · p. 229
अनुष्टुप्

* उञ्छनाम *

उञ्छो धान्यकणादानं कणिशाघर्जनं शिलम् ॥ १४४५ ॥
4.1445 · p. 229
अनुष्टुप्

* ऋतनाम *

ऋतमुञ्छशिलं प्रोक्तमुभयोर्ग्रहणे सदा ।
4.1355 · p. 229
अनुष्टुप्

* कृषिनाम *

अनृतं प्रमृतं लोके कृषिरेव निगद्यते ॥ १४४६ ॥
4.1446 · p. 229
अनुष्टुप्

* याचितनाम *

याचितञ्च मृतं प्रोक्तं भिक्षया लब्धवस्तुनि ।
4.1357 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ममृ (syllable split)

* अयाचितनाम *

अविनश्वरममृतं स्यादयाचितमिति त्रयम् ॥ १४४७ ॥
4.1447 · p. 230
अनुष्टुप्metre not read in every line

* सेवानाम *

श्वजीविका च सेवा च सेवावृत्तिरिहोच्यते ।
4.1359 · p. 230
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ति (wrong syllable)

* वाणिज्यनाम *

सत्यानृतं वणिज्या च वाणिज्यमिति ज्ञायताम् ॥ १४४८ ॥
4.1448 · p. 230
अनुष्टुप्metre not read in every line

* वणिङ्नाम *

वाणिजः सार्थवाहश्च वणिक् क्रयविक्रयिकः ।पण्याजीव आपणिको वैदेहश्च प्रापणिकः ॥ १४४९ ॥
4.1449 · p. 230
metre not recognised

* क्रयिनाम *

क्रयिकः क्रायको लोके क्रयी च कथ्यते पुनः ।
4.1362 · p. 230
metre not recognised

* विक्रयिनाम *

विक्रयिको विक्रयी च विक्रायः कोऽपि ज्ञायताम् ॥ १४५० ॥
4.1450 · p. 230
metre not recognised

* मूल्यनाम *

मूल्यमर्घोऽवक्रयश्च भाटको वस्नमित्यपि ।
4.1364 · p. 230
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 श्च (wrong syllable)

* नीविनाम *

मूलद्रव्यं परिपणो नीवी नीविश्च ज्ञायताम् ॥ १४५१ ॥
4.1451 · p. 230
metre not recognised

* लाभनाम *

लाभः फलश्च व्यापारे मूलादधिकप्रापणे ।
4.1366 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable)

* विनिमयनाम *

व्यतिहारो विनिमयो नैमेयो नियमस्तथा ॥ १४५२ ॥
4.1452 · p. 231
अनुष्टुप्metre not read in every line
परिदानं परावर्त्तो वैमेयः परिवर्तनम् ।
4.1368 · p. 231
अनुष्टुप्

* निक्षेपनाम *

उपानिधिश्च प्रख्यातो निक्षेपो न्यास इत्यपि ॥ १४५३ ॥
4.1453 · p. 231
अनुष्टुप्

* प्रतिदाननाम *

परिदानं प्रतिदानं न्यासार्पणमपि स्मृतम् ।
4.1370 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)

* क्रेयनाम *

क्रेतव्ये कथ्यते क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ॥ १४५४ ॥
4.1454 · p. 231
अनुष्टुप्metre not read in every line

* पण्यनाम *

विक्रेयं परितव्यं च पण्यमित्येव कथ्यते ।
4.1372 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ति (wrong syllable)

* सत्यापननाम *

सत्यापनं सत्यकारः सत्याकृतिरिति पुनः ॥ १४५५ ॥
4.1455 · p. 231
अनुष्टुप्metre not read in every line

* विक्रयनाम *

विपणो विक्रयः शब्दः प्रख्यातो वस्तुविक्रये ।
4.1374 · p. 231
अनुष्टुप्

* गण्यनाम *

गणनीयं गणेयञ्च गण्यं संख्येयमित्यपि ॥ १४५६ ॥
4.1456 · p. 232
अनुष्टुप्

* संख्यानाम *

संख्या नाम्ना प्रसिद्धोऽस्तिएकद्वित्रिक्रमाद्दश ।एकं दश शतञ्चैव सहस्रमयुतं पुनः ॥ १४५७ ॥
4.1457 · p. 232
अनुष्टुप्
लक्षश्च नियुतञ्च प्रयुतं कोटिरित्यपि ।सर्वं दशगुणं पूर्वात् ज्ञायते गण्यते जनैः ॥ १४५८ ॥
4.1458 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अर्बुदं दशकोटिश्चाऽब्जं खर्वं दशाब्जकम् ।निखर्वं दशखर्वं वै पुनः सङ्ख्यं महाम्बुजम् ॥ १४५९ ॥
4.1459 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अग्रेऽपि दशनिखर्वं शङ्कुर्दशमहाम्बुजम् ।तथा वार्द्धिः समुद्रोऽपि दशशङ्कुर्निगद्यते ॥ १४६० ॥
4.1460 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
अन्त्यं दशवार्द्धिमानं मध्यं दशान्त्यमानकम् ।दशमध्यप्रमाणं च परार्द्धं सङ्ख्यकं किल ॥ १४६१ ॥
4.1461 · p. 232
अनुष्टुप्metre not read in every line
कथ्यते पण्डितैर्लोकर्लोकेऽस्मिन् गणनाक्रिया ।असङ्ख्यं द्वीपवार्द्धीन्दुसूर्यादिकं प्रवर्तते ॥ १४६२ ॥
4.1462 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
पुनश्च वर्त्तते विश्वे पुद्गलाऽऽत्माद्यनन्तकम् ।
4.1382 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)

* नाविकभेदाः *

सांयात्रिकस्तथा पोतवणिक् च कथ्यते बुधैः ॥ १४६३ ॥
4.1463 · p. 232
अनुष्टुप्metre not read in every line
बोहित्थं चापि वोहित्थं वहनं च वहित्रकम् ।यानपात्रं तथा पोतः प्रोक्तं प्रवहणं पुनः ॥ १४६४ ॥
4.1464 · p. 233
अनुष्टुप्
पोतवाहो नियामको निर्यामो मार्गदर्शकः ।
4.1385 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 म (wrong syllable)

* नाविकनाम *

नाविकः कर्णधारश्च नौसञ्चालक उच्यते ॥ १४६५ ॥
4.1465 · p. 233
अनुष्टुप्metre not read in every line

* नौकानामानि *

नौका नौश्च तरी बेडा तरणी तरणिस्तरिः ।मङ्गिनी चेति नामानि नौकायाः मन्यतां जनः ॥ १४६६ ॥
4.1466 · p. 233
अनुष्टुप्

* द्रोणीनाम *

काष्ठाम्बुवाहिनी द्रोणी जलीयदारुपात्रकम् ।
4.1388 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)

* नौकादण्डनामानि *

क्षेपणिः क्षेपणी नौकादण्डश्च क्षिपणी पुनः ॥ १४६७ ॥
4.1467 · p. 233
अनुष्टुप्metre not read in every line
नौसञ्चालकदण्डस्यैतन्नामानि संभवन्ति वै ।कूपको गुणवृक्षश्च प्रोक्तो नौकूपस्तम्भकः ॥ १४६८ ॥
4.1468 · p. 233
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 प (wrong syllable)
पोलिन्दाश्चान्तरादण्डाः नौकायाः मध्यदण्डकाः ।प्रोक्तो नौकाग्रभागस्तु मङ्गश्च मङ्गिनीशिरः ॥ १४६९ ॥
4.1469 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
अभ्रिश्च काष्ठकुद्दालः नावोऽवकारक्षेपके ।सेचनं सेकपात्रं नौजलक्षेपणमात्रके ॥ १४७० ॥
4.1470 · p. 233
अनुष्टुप्metre not read in every line
कर्णश्च केनिपातश्च कोटिपात्रस्तथैव च ।अरित्रं चेति नौकायाः सुकानः कथ्यते बुधैः ॥ १४७१ ॥
4.1471 · p. 234
अनुष्टुप्

* लघुनौनामानि *

उडुपश्च तरण्डश्च कोलो भेलस्तथा प्लवः ।एतन्नामानि कथ्यन्ते लघुनौ वस्तुनो बुधैः ॥ १४७२ ॥
4.1472 · p. 234
अनुष्टुप्
आतरस्तरपण्यं च नौशुल्कमुच्यते जनैः ।
4.1395 · p. 234
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable)

* कुसीदकनामानि *

वृद्ध्याजीवो वार्धुषिः वार्धुषिकः कुसीदकः ॥ १४७३ ॥
4.1473 · p. 234
metre not recognised
द्वैगुणिकश्च नामाऽपि प्रोक्तं कुशीदग्राहिणः ।
4.1397 · p. 234
metre not recognised

* कुशीदनामानि *

कुशीदं कुषीदं चाऽर्थप्रयोगः वृद्धिजीवनम् ॥ १४७४ ॥
4.1474 · p. 234
metre not recognised
कुसीदं चेति नामानि कुसीदस्य भवन्ति वै ।
4.1399 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)

* वृद्धिनाम *

वृद्धिः कलान्तरं नाम मूलधनस्य वर्द्धने ॥ १४७५ ॥
4.1475 · p. 234
अनुष्टुप्metre not read in every line

* ऋणनामानि *

पर्युदञ्चनमुद्धार ऋणं नाम त्रयं भवेत् ।
4.1401 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)

* याचितकनाम *

याचितकं तु नामेदं याच्ञयाप्ते प्रकथ्यते ॥ १४७६ ॥
4.1476 · p. 235
अनुष्टुप्metre not read in every line

* आपमित्यकनाम *

यद्वस्तु परिवृत्या वै नीयते चाऽऽपमित्यकम् ।
4.1403 · p. 235
अनुष्टुप्

* अधमर्णनाम *

ग्राहकश्चाऽधमर्णो वै ऋणनेतरि कथ्यते ॥ १४७७ ॥
4.1477 · p. 235
अनुष्टुप्

* उत्तमर्णनाम *

दायकश्चोत्तमर्णो वै ऋणदातरि मन्यते ।
4.1405 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)

* प्रतिभूनाम *

प्रतिभूर्लग्नकः प्रोक्तः प्रतिनिधिर्जनस्य वै ॥ १४७८ ॥
4.1478 · p. 235
अनुष्टुप्metre not read in every line

* साक्षिनामानि *

मध्यस्थः प्राश्निकः साक्षी स्थेयः सत्यं वदेत् सदा ।कथ्यते कूटसाक्षी च मिथ्याभाषी निगद्यते ॥ १४७९ ॥
4.1479 · p. 235
अनुष्टुप्
दुष्टसाक्षी तथा सूची दुष्टतयाऽन्यथा वदेत् ।
4.1408 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)

* बन्धकनाम *

आधिस्तु बन्धको लोके तत्र स्याद्यत्र रक्ष्यते ॥ १४८० ॥
4.1480 · p. 235
अनुष्टुप्metre not read in every line

* पौतवनाम *

पौतवं यौतवं नाम तुलादौ मापने स्मृतम् ।
4.1410 · p. 236
अनुष्टुप्

* मापननाम *

द्रुवयं पाय्यमित्यादि मापनं स्याद्विभिन्नकान् ॥ १४८१ ॥
4.1481 · p. 236
अनुष्टुप्
तुलादौ पौतवं मानं द्रुवयं कुडवादिभिः ।पाय्यं हस्तादिभिर्मानमिति भेदोऽत्र ज्ञायताम् ॥ १४८२ ॥
4.1482 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्र (wrong syllable)

* सुवर्णमापननाम *

गुञ्जा लताफलं किञ्चिद् रक्तिका सैव कथ्यते ।पञ्च गुञ्जाः माषकः स्यात् स्वर्णकारस्य तोलने ॥ १४८३ ॥
4.1483 · p. 236
अनुष्टुप्
षोडशः माषकाणां तु कर्षः स्यादऽक्ष एव वा ।चतुःकर्षाः पलं ज्ञेयं पुनः कर्षचतुष्टयम् ॥ १४८४ ॥
4.1484 · p. 236
अनुष्टुप्
प्रोक्तः सुवर्णो हेम्नोऽक्षे विस्तोऽप्यशितिरक्तिकाः ।कथ्यते कुरुविस्तस्तु पलमेकं सुवर्णकम् ॥ १४८५ ॥
4.1485 · p. 236
अनुष्टुप्
तुला पलशतं ज्ञेयं सुवर्णादिकमापने ।शलाट आचितो भारः शाकटीनश्च शाकटः ॥ १४८६ ॥
4.1486 · p. 236
अनुष्टुप्
विंशतितुलामानं तद्द्विसहस्रपलानि च ।दशभारप्रमाणन्तु ज्ञातव्यः आचितः खलु ॥ १४८७ ॥
4.1487 · p. 236
अनुष्टुप्metre not read in every line

* धान्यादिमापननाम *

उभयाञ्जलिमानं वै प्रसृतं कुडवोऽथवा ।चतुर्भिः कुडवैः प्रस्थः प्रोच्यते हि महीतले ॥ १४८८ ॥
4.1488 · p. 237
अनुष्टुप्
आढकश्चतुर्भिः प्रस्थः द्रोणश्चतुर्भिराढकैः ।खारी षोडशभिर्द्रोणैर्मन्यते व महीतले ॥ १४८९ ॥
4.1489 · p. 237
अनुष्टुप्metre not read in every line
चतुर्विशत्यङ्गुलानां हस्तो भवति मापने ।चतुर्हस्तस्तु विज्ञेयो दण्डो मापनकर्म्मणि ॥ १४९० ॥
4.1490 · p. 237
अनुष्टुप्
दण्डानान्तु द्विसहस्रं क्रोशो गव्यूतमुच्यताम् ।गव्यूतं गोरुतं गव्या गव्यूतिश्च द्विक्रोशकः ॥ १४९१ ॥
4.1491 · p. 237
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable); pāda 4, syllable 5 द्वि (wrong syllable)
योजनं तु चतुष्क्रोशं मार्गमापनकर्म्मणि ॥ १४९२ ॥
4.1492 · p. 237

* पाशुपाल्यनाम *

पाशुपाल्यं जीववृत्तिः पशुपालनकर्मणि ।
4.1423 · p. 237
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 न (wrong syllable); pāda 4, syllable 3 श्व (wrong syllable)

* गोपालकनामानि *

गोपालनकार्य्यरतो गवीश्वरो गवेश्वरः ॥ १४९३ ॥
4.1493 · p. 237
metre not recognised
गोमान् गोमी च गोधुक् तु गोसङ्ख्यश्च वल्लवः ।आभीरश्चापि गोपालो गोपश्चेति हि मन्यते ॥ १४९४ ॥
4.1494 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रसिद्धोऽधिकृतो गोषु गोविन्दः कथ्यते बुधैः ।जाबालस्त्वजजीविको बर्करस्य च पालकः ॥ १४९५ ॥
4.1495 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 वि (wrong syllable)

* कृषिकनामानि *

कर्षकः कार्षकः क्षेत्री कृषिकः कृषको हली ।कृषीबलः कुटुम्बी च क्षेत्राजीवोऽपि कथ्यते ॥ १४९६ ॥
4.1496 · p. 238
अनुष्टुप्

* हलिनामानि *

जित्या हलिश्च नामाऽस्ति महाहलं हि मन्यते ।गोदारणं हलं सीरस्तथा लघुश्च लाङ्गलम् ॥ १४९७ ॥
4.1497 · p. 238
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable); pāda 4, syllable 3 ल (wrong syllable)
ईषा नाम तथेषाऽपि हलदण्डो हि कथ्यते ।सीता शीता च क्षेत्रे हि हलरेखा निगद्यते ॥ १४९८ ॥
4.1498 · p. 238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
निरीशं च निरीषं वै कुटकं कूटकं पुनः ।हलदण्डं विना मात्रः फालो यत्र च ध्रियते ॥ १४९९ ॥
4.1499 · p. 238
अनुष्टुप्metre not read in every line

* फालनामानि *

कुशिकः कृषकः फालः फलं क्षेत्रविदारकम् ।दात्रं तथा लवित्रं तन्मुष्टौ वण्टश्च मन्यते ॥ १५०० ॥
4.1500 · p. 238
अनुष्टुप्
मत्यं ख्यातं कृषेः कर्म्महलकृष्टसमीकृतौ ।गोदारणञ्च कुद्दालः खनित्रं त्ववदारणम् ॥ १५०१ ॥
4.1501 · p. 238
अनुष्टुप्

* प्रतोदनामानि *

प्रतोदस्तोदनं तोत्रं प्रवयणं च प्राजनम् ।पञ्चनामानि दण्डस्य येन सञ्चाल्यते वृषः ॥ १५०२ ॥
4.1502 · p. 238
अनुष्टुप्metre not read in every line

* योत्रनामानि *

योत्रञ्च योक्त्रमाऽऽबन्धः रज्जुचर्मकृते भवेत् ।
4.1434 · p. 239
अनुष्टुप्

* लोष्ठभेदननामानि *

कोटीशः कोटिशश्चैव लोष्ठभेदनमत्र तु ॥ १५०३ ॥
4.1503 · p. 239
अनुष्टुप्
काष्ठस्य मुद्गरो नाम कथ्यते लोष्ठभेदके ।मेथिर्मेधिः खलेवाली खलशङ्कुर्निगद्यते ॥ १५०४ ॥
4.1504 · p. 239
अनुष्टुप्

* शूद्रनामानि *

अन्त्यवर्णस्तथा शूद्रः पद्यः पञ्जो जघन्यजः ।वृषलश्चेति नामानि शूद्रस्य संभवन्ति वै ॥ १५०५ ॥
4.1505 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)

* विभिन्नशूद्रजातिनामानि *

तेऽपि मूर्द्धावसिक्तादौ रथकृन् मिश्रजातयः ।क्षत्रियायां द्विजाज्जातो मूर्धावसिक्त उच्यते ॥ १५०६ ॥
4.1506 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
द्विजाद्वैश्यस्त्रियां जातोऽम्बष्ठो हि कथ्यते पुनः ।पारशवो निषादश्च जातः शूद्रस्त्रियां द्विजात् ॥ १५०७ ॥
4.1507 · p. 239
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 हि (wrong syllable); pāda 3, syllable 3 श (wrong syllable)
क्षत्राद्वैश्यस्त्रियां जातो माहिष्यो मन्यते स वै ।उग्रश्च कथ्यते क्षत्रादुत्पन्नो विट्स्त्रियां भुवि ॥ १५०८ ॥
4.1508 · p. 239
अनुष्टुप्