कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

द्वितीयः काण्डः · ब्रह्मवर्गः

इति मनुष्यवर्गः ॥ ६ ॥

वंश्यः कुल्यश्च वीज्यः स्याद्ब्रह्मचारी वटुः समौ ।स्याद्वटूकरणन्तूपनयनं गृहमेधिनि ॥ १ ॥
2.7.1 · p. 56
अनुष्टुप्
ज्येष्ठाश्रमी गृही वानप्रस्थो वैखानसोऽग्रहः ।वक्रजस्त्वनमो विप्रो वर्णज्येष्ठः कठो द्विजः ॥ २ ॥
2.7.2 · p. 56
अनुष्टुप्
मैत्रः पुनरुक्तजन्मा स्यादथ ब्राह्मणायनः ।शुद्धसन्तानजो विप्रः श्रौत्रं श्रोत्रियतां विदुः ॥ ३ ॥
2.7.3 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
स्यादक्षरमुखः कालाक्षरिकः शिक्षिताक्षरः ।काव्यस्य-कर्ता भविनी गुणनी शीलनं स्मृतम् ॥ ४ ॥
2.7.4 · p. 57
अनुष्टुप्
क्रियाकरो नवच्छात्रः कार्पटिकः स मर्मवित् ।पर्षत्परिषदी गोष्टी राजसूयो नृपाध्वरः ॥ ५ ॥
2.7.5 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टि (wrong syllable)
क्रतूत्तमश्चाऽथ चान्द्रायणमिन्दुव्रतं स्मृतम् ।हवनी होमकुण्डं स्यान्महावीरो मखानलः ॥ ६ ॥
2.7.6 · p. 57
अनुष्टुप्
होमधूमस्तु निगणो होमभस्म तु वैष्टुभम् ।आर्यकं पिण्डदानादिपितृकार्यमथो हविः ॥ ७ ॥
2.7.7 · p. 57
अनुष्टुप्
होत्रं हविष्यं सान्नाय्यं पाठको धर्मभाणकः ।सभ्यस्तु प्राश्निका देवद्रोणी यात्रा दिवौकसाम् ॥ ८ ॥
2.7.8 · p. 57
अनुष्टुप्
इष्टापूर्तं तदेकोक्त्या यागखातादि कर्म्म यत् ।यज्ञद्रव्यन्तु पात्रीयं प्राधुणस्त्वतिथिर्द्वयोः ॥ ९ ॥
2.7.9 · p. 57
अनुष्टुप्
कौशली कुशलप्रश्नः समीची वन्दना मता ।उपोषणन्तूपवासो रोगाद्यैर्लङ्घनं च तत् ॥ १० ॥
2.7.10 · p. 58
अनुष्टुप्
द्वयन्तरे त्र्यन्तरे भुक्तमाहुः षष्ठान्नकालकम् ।राद्धं सिद्धमथो चारुव्रता मासोपवासिनी ॥ ११ ॥
2.7.11 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्याद्गायत्री तु सावित्री ब्रह्मारण्यं तु पाठभूः ।पवित्रं यज्ञोपवीतं ब्रह्मसूत्रं द्विजायनी ॥ १२ ॥
2.7.12 · p. 58
अनुष्टुप्
कच्छा कच्छटिका कक्षापटी कौपीनमित्यापि ।बैडालव्रतिकः सर्वाभिसन्धी छद्मतापसः ॥ १३ ॥
2.7.13 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
कमण्डलुश्चैत्यमुखो जोतिण्टा तु महाव्रती ।उरस्कटः पञ्चवटी बालयज्ञोपवीतकम् ॥ १४ ॥
2.7.14 · p. 58
अनुष्टुप्
भाले तिस्रो भस्मरेखास्त्रिपुण्ड्रकमथर्षयः ।शापास्त्राः सत्यवचसो व्यासाद्यास्तु महर्षयः ॥ १५ ॥
2.7.15 · p. 58
अनुष्टुप्
परमर्षयस्तु भेलाद्या देवर्षयः कणादयः ।ब्रह्मर्षयो वसिष्ठाद्याः सुश्रुताद्याः श्रुतर्षयः ॥ १६ ॥
2.7.16 · p. 59
अनुष्टुप्metre not read in every line
ऋतर्पणादयो राजर्षयः काण्डर्षयस्त्वमी ।जैमिन्याद्या नारदस्तु कपिवक्रो विधातृभूः ॥ १७ ॥
2.7.17 · p. 59
अनुष्टुप्
देवब्रह्मा देवलश्च दुर्वासास्तु कुसारणिः ।प्रचेतसस्तु वाल्मीकिः कविज्येष्ठः कुशीवशः ॥ १८ ॥
2.7.18 · p. 59
अनुष्टुप्
अपि वल्मीकवाल्मीकौ कृतकोटिस्तु काश्यपः ।कृष्णद्वैपायनो वेदव्यासः स्यात्सत्यभारतः ॥ १९ ॥
2.7.19 · p. 59
अनुष्टुप्
पाराशरिः सात्यवतो माठरो बादरायणः ।वसिष्ठारुन्धतीनाथौ विश्वामित्रस्तु गाधिजः ॥ २० ॥
2.7.20 · p. 59
अनुष्टुप्
गौतमस्तु शतानन्दः कणादः काश्यपः समौ ।धन्वन्तरिर्दिवोदासः काशिराजः सुधोद्भवः ॥ २१ ॥
2.7.21 · p. 59
अनुष्टुप्
पालकाख्यो गणपतिकरेणुरुचिरासुतः ।विष्णुगुप्तस्तु कौण्डिण्यश्चाणक्यो द्रोमिणोंऽशुलः ॥ २२ ॥
2.7.22 · p. 59
अनुष्टुप्
वात्स्यायनो मन्दनागः पक्षिलस्वामिनावपि ।उपवर्षो हलभृतिः कृतकोटिरयाचितः ॥ २३ ॥
2.7.23 · p. 60
अनुष्टुप्
पाणिनिस्त्वाहिको दाक्षीपुत्रः शालङ्किपाणिणौ ।शालोत्तुरीयोऽथ व्याडिर्विन्ध्यस्थो नन्दिनीसुतः ॥ २४ ॥
2.7.24 · p. 60
अनुष्टुप्
मेधावी चाऽथ मेधाजित्कात्यः कात्यायनश्च सः ।पुनर्वसुर्वररुचिर्गोनर्दीयः पतञ्जलिः ॥ २५ ॥
2.7.25 · p. 60
अनुष्टुप्
चूर्णिकृद्भाष्यकारश्च हरिर्भर्तृहरिः स्मृतः ।रघुकारः कालिदासो मेधारुद्रश्च कोटिजित् ॥ २६ ॥
2.7.26 · p. 60
अनुष्टुप्
भारविः शत्रुलुम्पः स्याद्भवभूतिस्तु विस्मृतः ।भूगर्भोऽप्यऽथ यः प्रातः स्मर्यते शुभकाम्यया ॥ २७ ॥
2.7.27 · p. 60
अनुष्टुप्
स सुगृहीतनामा स्यात्पैण्डिन्यं भैक्षजीविका ।पाषाण्डकौलिकौ खञ्जनरतं यतिमैथुनम् ॥ २८ ॥
2.7.28 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गृ (wrong syllable)
अभावादङ्गनात्यागस्तुरगब्रह्मचर्यकम् ।मुखघण्टा हुलहुली नागवीटस्तु टात्करः ॥ २९ ॥
2.7.29 · p. 60
अनुष्टुप्
खटकस्त्ययक्षरश्चाऽथ दारकर्म करग्रहः ।वाधुक्यं च विवाहः स्यात्कुहलिः पूगपुष्पिका ॥ ३० ॥
2.7.30 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नान्दीको तोरणस्तम्भो सुरतं त्वभिमानितम् ।घर्षितं सम्प्रयोगं ना रतं चाब्रह्मचार्यकम् ।उपसृष्टं त्रिभद्रं च क्रीडारत्नं महासुखम् ॥ ३१ ॥
2.7.31 · p. 61
अनुष्टुप्