कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · ऋषिगोत्रब्रह्मप्रकाण्डः (1/2)

इति नरादिप्रकाण्डः ।

जमदग्निभरद्वाजविश्वामित्रात्रिगौतमाः ।वसिष्ठकश्यपागस्त्या ऋषयो गोत्रकारकाः ॥ १ ॥
1.5.1 · p. 68
अनुष्टुप्
गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च ।ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥ २ ॥
1.5.2 · p. 68
अनुष्टुप्
व्रियमाणातया वापि सत्तया वानुवर्तनम् ।एकस्य दृश्यते यत्र तद्गोत्रं तस्य कथ्यते ॥ ३ ॥
1.5.3 · p. 69
अनुष्टुप्
कुलं तु गोत्रं जननं क्लीबे स्त्री सन्ततिः पुमान् ।वंशोन्ववायः सन्तानोऽन्वयो वर्णचतुष्टयी ॥ ४ ॥
1.5.4 · p. 69
अनुष्टुप्
ब्राह्मणक्षत्रविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।स्यादामुष्यायणोऽमुष्यपुत्रश्च ब्राह्मणायनः ॥ ५ ॥
1.5.5 · p. 69
अनुष्टुप्
प्रख्यातनप्तृकश्चापि बीज्यः कुल्यः कुलोद्भवः ।महाकुलः सभ्य आर्यः कुलीनः कुलसम्मतः ॥ ६ ॥
1.5.6 · p. 69
अनुष्टुप्
गर्भाधानं पुंसवनं गर्भरक्षणमित्यपि ।सीमन्तोन्नयनं जातकर्म मेधाजनिस्तथा ॥ ७ ॥
1.5.7 · p. 69
अनुष्टुप्
उत्थानं नामकरणमन्नप्राशनमित्युत ।चूडाकर्मोपनयनं व्रतादेशनमेव च ॥ ८ ॥
1.5.8 · p. 69
अनुष्टुप्
समावर्तनमुद्वाहस्तत्रैवाग्नेः प्रधारणम् ।एभिः स्मार्त्तैश्च संस्कारैः संस्कृतो ब्राह्मणो मतः ॥ ९ ॥
1.5.9 · p. 69
अनुष्टुप्
भूमिपर्यायदेवार्थो माठरः कठवाडवौ ।सूत्रकण्ठो वेदगर्भः सावित्रोऽपि त्रयी तनुः ॥ १० ॥
1.5.10 · p. 69
अनुष्टुप्
स्यान्मुखद्व्यग्रपर्यायजन्मपर्याय इत्ययम् ।वर्णज्येष्ठः शमीगर्भो ब्रह्म षट्कर्मकृत्पुनः ॥ ११ ॥
1.5.11 · p. 69
अनुष्टुप्
ब्रह्मचारी गृही वानप्रस्थो भिक्षुक इत्यपि ।अथ तत्र ब्रह्मचारी वर्णी मुख्याश्रमी वटुः ॥ १२ ॥
1.5.12 · p. 70
अनुष्टुप्
उपनीतो माणवको मेखली वाजिनी पुनः ।तथा गुरुकुलावासी स च स्याद्विविधः क्रमात् ॥ १३ ॥
1.5.13 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
यावज्जीवं व्रतपरो नैष्ठिको गृहसम्मुखः ।उपकुर्वाण इति चाथो वटूकरणं तु षण् ॥ १४ ॥
1.5.14 · p. 70
अनुष्टुप्
नयनं नायनं नाय उपादथ द्विजायनम् ।स्यात्सूत्रं ब्रह्मयज्ञाभ्यां पवित्रमुपवीतकम् ॥ १५ ॥
1.5.15 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
देवपर्यायलक्ष्माथ स्त्रियां मौञ्जी तु मेखला ।ज्योर्णासूत्री कठक्षत्रविशामेषां ह्यनुक्रमात् ॥ १६ ॥
1.5.16 · p. 70
अनुष्टुप्
ऐणेयं रौरवं गव्यमजिनानि तथा पुनः ।पालाशो वाथवा वैल्वो नैयग्रोधस्ततोऽपरः ॥ १७ ॥
1.5.17 · p. 70
अनुष्टुप्
औदुम्बरः स आषाढो वर्णः सोपि च वैणवः ।रम्भाभङ्गो गृहस्थानां व्रते स्याद्व्रतिनामपि ॥ १८ ॥
1.5.18 · p. 70
अनुष्टुप्
आमन्त्रितादिमध्यान्तभवतीशब्दसंयुताम् ।भिक्षां देहीत्यथ स्कन्धाद्वामात्कट्यवधिस्थिते ॥ १९ ॥
1.5.19 · p. 70
अनुष्टुप्
हृत्पृष्ठवंशगे यज्ञोपवीती स्यादतः पुमान् ।सव्यश्चाप्यपसव्यस्तु प्राचीनावीत इत्यपि ॥ २० ॥
1.5.20 · p. 70
अनुष्टुप्
कण्ठलम्बिनि नीवीती प्रवीती पृष्ठलम्बिनि ।अथाञ्जलिर्वेदपाठे पुंसि ब्रह्माञ्जलिः पुनः ॥ २१ ॥
1.5.21 · p. 71
अनुष्टुप्
ब्रह्मारण्यं पाठभूमिः साङ्गवाक्ये परायणम् ।परायणं च साकल्यमथापि ब्रह्मबिन्दवः ॥ २२ ॥
1.5.22 · p. 71
अनुष्टुप्
वेदाध्ययनकाले ये विप्रुषो मुखनिःसृताः ।स्वाध्यायस्तु जपः पाठो धर्मभाणक इत्यपि ॥ २३ ॥
1.5.23 · p. 71
अनुष्टुप्
वेदमाता तु गायत्री सावित्री त्रिपदा च सा ।वैश्वामित्री व्याहृतयो महाव्याहृतयः स्त्रियाम् ॥ २४ ॥
1.5.24 · p. 71
अनुष्टुप्
वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम् ।पर्युपाभ्यां समुपाभ्यामन्वाभ्यामासनं च षण् ॥ २५ ॥
1.5.25 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
उपस्पर्शस्त्वाचमनमाचामोथाप्यभाषणम् ।वाचोयमश्च यमनं मौनं स्यादप्यथ स्त्रियौ ॥ २६ ॥
1.5.26 · p. 71
अनुष्टुप्
आनुपूर्व्यावृता चाथ पर्यायोऽनुक्रमोऽपि च ।परिपाटी स्त्रियां चाथ पर्यायः स्यादुपात्ययः ॥ २७ ॥
1.5.27 · p. 71
अनुष्टुप्
अतिपातोऽथ नियमस्त्वस्त्रियां व्रतमित्यपि ।पुण्यकं तूपवासाद्यमुपवस्तमुपोषणम् ॥ २८ ॥
1.5.28 · p. 71
अनुष्टुप्
औपवस्तं तूपवस्तमस्त्रियामुपवासकः ।उपोषितं चोपवस्ताऽनशनानशनं पुनः ॥ २९ ॥
1.5.29 · p. 71
अनुष्टुप्
रोगक्रोधभयैर्यत्तदन्नत्यागाच्च लङ्घनम् ।द्व्यन्तरे द्व्यन्तरे भुक्तं तत्तु षष्ठात्मकालकम् ॥ ३० ॥
1.5.30 · p. 72
अनुष्टुप्
अर्द्धाशनं चार्द्धशनं विज्ञेयं चार्द्धभोजने ।नित्यकर्मसमाहारनैष्ठुर्ये चैकचित्तता ॥ ३१ ॥
1.5.31 · p. 72
अनुष्टुप्
मणिबन्धात्पुरो ब्राह्मं मानुषं करभान्तरा ।अङ्गुल्यग्रेषु दैवं स्यात्तर्जनीमध्यमान्तरा ॥ ३२ ॥
1.5.32 · p. 72
अनुष्टुप्
देव्यामध्यानामिकयोर्मूलमाग्नेयमित्यपि ।अङ्गुष्ठतर्जनीमूले पित्र्यं तीर्थानि वै करे ॥ ३३ ॥
1.5.33 · p. 72
अनुष्टुप्
उपाकर्मोपाकरणे स्यात्स्त्रियामप्युपाकृतिः ।सर्वैनसामपभ्रंशि जप्यमस्त्र्यघमर्षणम् ॥ ३४ ॥
1.5.34 · p. 72
अनुष्टुप्
वाच्यलिङ्गं तद्वति षण् चरितं शीलमस्त्रियाम् ।ब्रह्मासनं ध्यानयोगासने कल्पो विधिः क्रमः ॥ ३५ ॥
1.5.35 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
मुख्यः स्यात्प्रथमः कल्पो ह्यनुकल्पस्ततोऽधमः ।नमस्काराभिवादौ च पादग्रहणमित्यपि ॥ ३६ ॥
1.5.36 · p. 72
अनुष्टुप्
अथ यस्तूपकुर्वाणः स्नाती स्नातः स आप्लुतः ।समावृत्तो गृहमुखो लब्धानुज्ञो गुरोः कुलात् ॥ ३७ ॥
1.5.37 · p. 72
अनुष्टुप्
व्रती यावद्विवाहं स्यादुद्व्योर्वाहः परिग्रहः ।पाणिपर्यायग्रहणं पीडापर्यायकं पुनः ॥ ३८ ॥
1.5.38 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
परिणायः परिणयो वाधुक्यं दारकर्म च ।तस्मिन्काले गृहीतोग्निरावसथ्य उपासनः ॥ ३९ ॥
1.5.39 · p. 73
अनुष्टुप्
नवोढावस्त्रं वाधूयं षणानन्दपटस्त्रिषु ।परिगृह्य व्रती स्नातो गृहान्मेध्याश्रमी स्थितः ॥ ४० ॥
1.5.40 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्रं (wrong syllable)
संस्कारकर्ता स गुरुः श्रोत्रियच्छान्दसौ समौ ।श्रोत्रं क्लीब उपाध्यायोऽध्यापको ब्राह्मणायनः ॥ ४१ ॥
1.5.41 · p. 73
अनुष्टुप्
यजनं याजनं पाठोऽध्यापनं च प्रतिग्रहः ।दानं चेति च षड्यत्र सा स्यादाजीविका स्त्रियाम् ॥ ४२ ॥
1.5.42 · p. 73
अनुष्टुप्
वार्त्ता वृत्तिः पुनः क्लीबे वर्त्तनं जीवनं पुनः ।पुंस्याजीवोऽपि यद्भेद्यगाम्येषां त्रिष्वितः पुनः ॥ ४३ ॥
1.5.43 · p. 73
अनुष्टुप्
शौनामृते मृतं तद्वदृतं चाप्यमृतं क्रमात् ।सेवाकृषिर्याचितं चायाचितं तु शिलोञ्छके ॥ ४४ ॥
1.5.44 · p. 73
अनुष्टुप्
प्रतिग्रहश्च साधुभ्यः क्रमादेषां च लक्षणम् ।त्यक्तस्वस्वामिकक्रय्यकणावचय आपणात् ॥ ४५ ॥
1.5.45 · p. 73
अनुष्टुप्
उञ्छोऽस्त्रियां तथा क्षेत्रात् कणिशावचयः पुनः ।स्यादस्त्रियां शिलः शैलः क्लीबे याचितमित्यपि ॥ ४६ ॥
1.5.46 · p. 73
अनुष्टुप्
अनूचानः प्रवचने सांगे धीती गुरोश्च यः ।विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ॥ ४७ ॥
1.5.47 · p. 73
अनुष्टुप्
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ॥ ४८ ॥
1.5.48 · p. 74
अनुष्टुप्
मेधः कालाक्षरी विप्रो मतिमाञ्शिक्षिताक्षरः ।वृद्धो विदो विदानश्च प्रेक्षाकार्यपि शास्त्रवित् ॥ ४९ ॥
1.5.49 · p. 74
अनुष्टुप्
दूरदृग्विदथः सूरी प्रज्ञालः प्रज्ञिलः पुनः ।स्याद्दीर्घदूरयोर्दर्शी कृतकर्मा विशारदः ॥ ५० ॥
1.5.50 · p. 74
अनुष्टुप्
वैज्ञानिकः कृतमुखो मेधावी विदुरित्यपि ।कुशाग्रीयमतिर्दक्षो विज्ञो विज्ञातशिक्षितौ ॥ ५१ ॥
1.5.51 · p. 74
अनुष्टुप्
छेको विदग्धो विदुरो निष्णातः कृतधीरपि ।निर्द्दिष्टो निपुणो बोद्धा सुमतिः कुशलोऽपि च ॥ ५२ ॥
1.5.52 · p. 74
अनुष्टुप्
प्रेक्षावान्विबुधश्चोग्रः प्रौढः प्राज्ञो विदन्नथ ।छात्रान्तेवासिनौ शिष्ये शैक्षः प्राथमकल्पिकः ॥ ५३ ॥
1.5.53 · p. 74
अनुष्टुप्
नवीनशिष्यपर्यायस्त्रिष्वेते विद्वदादिमाः ।गुणनं शीलनं घोषः स्वाध्यायो धर्मभाणकः ॥ ५४ ॥
1.5.54 · p. 74
अनुष्टुप्
पाठोऽपि च जपोऽभ्यासो वेदेंगादौ पुनः पुनः ।एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ५५ ॥
1.5.55 · p. 74
अनुष्टुप्
सतीर्थाश्चैकगुरवस्ते सहाध्यायिनस्त्रिषु ।शेषमक्षरमादाय प्रतिश्लोकं क्रमेण तु ॥ ५६ ॥
1.5.56 · p. 74
अनुष्टुप्
अन्योन्यं श्लोकपठनं प्रतिमाला स्त्रियां च सा ।यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ ५७ ॥
1.5.57 · p. 75
अनुष्टुप्
विष्णुपर्यायवचनो मन्युस्तोमश्च संस्तरः ।प्रयाग आहवश्चैव मिष्टश्चाभिषवो हवः ॥ ५८ ॥
1.5.58 · p. 75
अनुष्टुप्
इज्या स्त्रियां पुंसि मेनो धर्मो ना सत्रमस्त्रियाम् ।बर्हिः क्लीबे वितानं स्यादस्त्रियां च धृतिः स्त्रियाम् ॥ ५९ ॥
1.5.59 · p. 75
अनुष्टुप्
इष्टिः संस्था पुमान्मेधः सवनं षण् भिदस्य च ।राजसूयं वाजपेयं पुंसि क्लीबेऽथ तस्य च ॥ ६० ॥
1.5.60 · p. 75
अनुष्टुप्
आरम्भस्यैव नियमे दीक्षा तु व्रतसंयमः ।ऋग्विद्धोता यजुर्वित्स्यादध्वर्युः सामगः पुनः ॥ ६१ ॥
1.5.61 · p. 75
अनुष्टुप्
उद्गाता स्यात्सप्तपञ्चचतुर्भिस्तद्गुणाः क्रमात् ।यष्टा तु यजमानः स्यादादेष्टा त्वध्वरे व्रती ॥ ६२ ॥
1.5.62 · p. 75
अनुष्टुप्
इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ।अप्यासुतीवलोप्यग्निं चितवानग्निचित् पुमान् ॥ ६३ ॥
1.5.63 · p. 75
अनुष्टुप्
सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ।सौमिकी दीक्षिणीयेष्टिः सोमस्याभिषवे कृते ॥ ६४ ॥
1.5.64 · p. 75
अनुष्टुप्
स्त्री सुत्या सवनं क्लीबे स्यात्पुंस्यभिषवः पुनः ।आतिथ्याद्या इष्टयः स्युर्यज्ञान्तोऽवभृथः पुमान् ॥ ६५ ॥
1.5.65 · p. 75
अनुष्टुप्
योभिमन्त्र्य निहन्येत स स्यात्पशुरुपाकृतः ।परंपराकं शसनं प्रोक्षणं च मखे वधः ॥ ६६ ॥
1.5.66 · p. 76
अनुष्टुप्
प्रमीत उपसंपन्न प्रोक्षितौ वाच्यलिङ्गकाः ।स्युरथापि च सांनाय्यं हविष्यं होत्रकं हविः ॥ ६७ ॥
1.5.67 · p. 76
अनुष्टुप्
अग्नौ हुतं त्रिषु द्रव्ये त्यक्तं चापि वषट्कृतम् ।पारंपर्योपदेशे स्यादैतिह्यमिति हाव्ययम् ॥ ६८ ॥
1.5.68 · p. 76
अनुष्टुप्
आद्यं ज्ञानमुपज्ञा स्त्री ज्ञात्वारम्भ उपक्रमः ।दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः क्रमात् ॥ ६९ ॥
1.5.69 · p. 76
अनुष्टुप्
स्त्री समज्या समाज्या स्यात्पर्षत्परिषदौ न ना ।गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥ ७० ॥
1.5.70 · p. 76
अनुष्टुप्
आस्थानी सदसी क्लीबे स्त्रियां च समितिः स्त्रियाम् ।सभासदः सभास्ताराः सदस्या विधिदर्शिनः ॥ ७१ ॥
1.5.71 · p. 76
अनुष्टुप्
सामाजिकाः प्राश्निकाश्च सभ्याः पारिषदा अपि ।परिषद्वलाः परिषदाः पर्षद्याः परिषद्वलाः ॥ ७२ ॥
1.5.72 · p. 76
metre not recognisednearly अनुष्टुप्
परिषद्याः पार्षदाश्च पार्षद्याः पर्षदा अपि ।तेऽपि स्युः पारिषदकः अथ स्युः प्राग्घविर्गृहात् ॥ ७३ ॥
1.5.73 · p. 76
अनुष्टुप्
प्राग्वंशः स्याद्यत्र तत्र सम्यग्यात्रा दिवौकसाम् ।देवद्रोणी च सैवोक्ता कुंवासुगहना वृतिः ॥ ७४ ॥
1.5.74 · p. 76
अनुष्टुप्
वेदिः परिष्कृता भूमिश्चतुष्कं च चतुष्किका ।स्त्रियामपि च वेदी स्यात्स्थण्डिलं चत्वरं समे ॥ ७५ ॥
1.5.75 · p. 77
अनुष्टुप्
यज्ञार्थात्स्तम्भपर्यायो यूपोऽस्त्री स्यादथास्त्रियाम् ।चषालो यूपकटके यूपकर्णे घृतावनिः ॥ ७६ ॥
1.5.76 · p. 77
अनुष्टुप्
यूपाग्रभागे तर्माऽस्त्री मन्थने धोरणिर्द्वयोः ।अरणी च स्त्रियां तत्र चात्र मन्थप्रमन्थकाः ॥ ७७ ॥
1.5.77 · p. 77
अनुष्टुप्
भेदाः स्युरस्या अङ्गानां प्रणीतस्तु सुसंस्कृतः ।महावीरः समूह्यः स्यात्परिचाय्योपचाय्यकौ ॥ ७८ ॥
1.5.78 · p. 77
अनुष्टुप्
प्रयोजकोप्यथानाय्यो गार्हपत्यात्प्रणीयते ।यः स्यात्सदक्षिणाग्निर्हि स्थानभेदात्तु ते त्रयः ॥ ७९ ॥
1.5.79 · p. 77
अनुष्टुप्
दक्षिणाग्निर्गार्हपत्याहवनीयाश्च तेऽर्द्धकाः ।पञ्च सभ्यावसथ्याभ्यां पूर्णाधानं तदुच्यते ॥ ८० ॥
1.5.80 · p. 77
अनुष्टुप्
अग्नित्रयं त्रयी त्रेता होमभस्म तु वैष्टुभम् ।रक्षा भूतिर्विभूति स्त्री क्लीबे भसितभस्मके ॥ ८१ ॥
1.5.81 · p. 77
अनुष्टुप्
उच्छिष्टमग्निपर्य्यायात् क्षारो ना शोषकं त्रिषु ।भाले तिर्यग्गतास्तिस्रो भस्मरेखास्त्रिपुण्ड्रकम् ॥ ८२ ॥
1.5.82 · p. 77
अनुष्टुप्
होमधूमस्तु निगणो हवनी होमकुण्डकम् ।कालीमसी ध्रुवा धूम्रा लोहिता च स्फुलिङ्गिनी ॥ ८३ ॥
1.5.83 · p. 77
अनुष्टुप्
तथा विश्वरुचिश्चैव सप्तविश्वा हविर्भुजः ।अथ स्युर्यज्ञपात्राणि स्रुवः पुंसि च वा स्त्रियाम् ॥ ८४ ॥
1.5.84 · p. 78
अनुष्टुप्
स्त्रियां स्रुः स्रूरथापि स्यादुपभृत्स्यात्स्त्रियां जुहूः ।जुहुः पुमान् स्रुक् स्त्रियां स्यादधरोत्तरणे क्रमात् ॥ ८५ ॥
1.5.85 · p. 78
अनुष्टुप्
ध्रुवा सा यज्ञकर्मार्थं यस्यामाज्यं निधीयते ।अमिक्षा तु स्मृतामीक्षा क्षीरेण समितं दधि ॥ ८६ ॥
1.5.86 · p. 78
अनुष्टुप्
क्षीरं शरः पयस्या स्यान्मस्तुन्यपि तु वाजिनम् ।इष्टं तुकार्त्तवं कर्म वापीकूपादिपूर्तकम् ॥ ८७ ॥
1.5.87 · p. 78
अनुष्टुप्
इष्टापूर्तं तदेकोक्त्या हव्यपाके चरुः पुमान् ।परमान्नं पायसोऽस्त्री स्यात् क्षीरेय्यपि वाच्यवत् ॥ ८८ ॥
1.5.88 · p. 78
अनुष्टुप्
ऋक् सामिधेनी धाय्या सा या स्यादग्निसमिन्धने ।गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरित्यपि ॥ ८९ ॥
1.5.89 · p. 78
अनुष्टुप्
त्रिष्टुप् च जगती चातिजगत्यपि च शक्करी ।अष्टिर्धृतिर्द्वितीयाः स्युरतिपूर्वा तथा कृतिः ॥ ९० ॥
1.5.90 · p. 78
अनुष्टुप्
सा तु प्राविसमत्युद्भ्यः स्युश्छन्दांस्येकविंशतिः ।स्त्रियां पङ्क्तिः सैव विराट् त्रिष्टुप् तृष्टुबुभे समे ॥ ९१ ॥
1.5.91 · p. 78
अनुष्टुप्
वृत्तं समं चार्धसमं विषमं त्रिविधं च तत् ।गणबद्धमिदं छन्द आर्याद्यं मात्रिकं च तत् ॥ ९२ ॥
1.5.92 · p. 78
अनुष्टुप्
हव्यं कव्यं देवपितृदेयमन्नादिकं क्रमात् ।आज्ये तु दधिसंपृक्ते पृषदाज्यं पृषन्तकः ॥ ९३ ॥
1.5.93 · p. 79
अनुष्टुप्
दध्ना तु मधुसंपृक्तं मधुपर्कोऽस्त्रियामथ ।हवित्री स्त्री होमकुण्डं बर्हिर्मुष्टिस्तु विष्टरः ॥ ९४ ॥
1.5.94 · p. 79
अनुष्टुप्
अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके ।राद्धं सिद्धमथो चारुव्रता मासोपवासिनी ॥ ९५ ॥
1.5.95 · p. 79
अनुष्टुप्
अग्निहोत्र्यग्निचित्साग्निराहिताग्निरथापि च ।अग्न्याधानमग्निहोत्रमग्निरक्षणमित्यपि ॥ ९६ ॥
1.5.96 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
घर्माग्निस्तु महाज्वालो महावीरः प्रवर्गवत् ।वेदपाठश्च होमश्चातिथ्यर्चा पितृतर्पणम् ॥ ९७ ॥
1.5.97 · p. 79
अनुष्टुप्
भूतादिभ्योन्नादिदेये स्त्रीपुंसोर्वलिरित्यपि ।ब्रह्मदेवनरपितृभूतयज्ञा अमी क्रमात् ॥ ९८ ॥
1.5.98 · p. 79
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 व (wrong syllable)
चत्वारस्ते पाकयज्ञा ब्रह्मयज्ञोऽत्र पञ्चमः ।त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥ ९९ ॥
1.5.99 · p. 79
अनुष्टुप्
विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ।प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥ १०० ॥
1.5.100 · p. 79
अनुष्टुप्
प्रदेशनं विश्रणनमतिसर्जनमित्यपि ।विसर्जनं च पुंसि स्यादुत्सर्गः स्पर्श इत्यथ ॥ १०१ ॥
1.5.101 · p. 79
अनुष्टुप्
तुला हिरण्यगर्भश्च ब्रह्माण्डं कल्पपादयः ।गोसहस्रं स्वर्णकामधेनुः स्वर्णाश्व एव च ॥ १०२ ॥
1.5.102 · p. 80
अनुष्टुप्
हेमहस्तिरथः पञ्चलाङ्गलं स्वर्णमेदिनी ।विश्वचक्रं कल्पलता सप्तसागरकं तथा ॥ १०३ ॥
1.5.103 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
रत्नं धेनुर्महाभूतघटः षोडश उच्यते ।महादानानि चान्यानि दश स्युः कनकं हयः ॥ १०४ ॥
1.5.104 · p. 80
अनुष्टुप्
तिला नागस्तथा दासी रथः पृथ्वी गृहा अपि ।कन्या धेनुश्च कपिला दानान्येतानि वै दश ॥ १०५ ॥
1.5.105 · p. 80
अनुष्टुप्
हिंसाकर्माभिचारः स्याद्यज्ञार्हं कर्म यज्ञिकम् ।मृतार्थं यदहर्दानमूर्ध्वदैहिकमित्यपि ॥ १०६ ॥
1.5.106 · p. 80
अनुष्टुप्
एकादश द्वादशाहकृत्ये तु स्यात् क्रिया स्त्रियाम् ।अपि नूतनपर्यायश्राद्धं कारटमस्त्रियाम् ॥ १०७ ॥
1.5.107 · p. 80
अनुष्टुप्
पितृपङ्क्तिविधानं स्यात्सपिण्डीकरणं च षण् ।पितृदाने निवापः स्यान्निर्वापः श्राद्धमित्यपि ॥ १०८ ॥
1.5.108 · p. 80
अनुष्टुप्
स्वधाऽव्ययानव्ययं स्यात्पितृदानविधावथ ।देवदानेऽपि स्वाहैवमथ श्राद्धादिकं च यत् ॥ १०९ ॥
1.5.109 · p. 80
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पि (wrong syllable)
पितृयज्ञो मासि मासि तदनुश्राद्धमस्त्रियाम् ।अन्वाहार्यमष्टमेऽह्नो मुहूर्त्तः कुतपोऽस्त्रियाम् ॥ ११० ॥
1.5.110 · p. 80
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र्य (wrong syllable)
पर्येषणा परीष्टिः स्यादन्वेषणा गवेषणा ।याचनाध्येषणा याञ्चा परीष्टिरपि चार्थना ॥ १११ ॥
1.5.111 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
अर्घार्हं यत्तदर्घ्यं स्यात्पाद्यं पादार्हवारिणि ।आतिथ्यं स्यादातिथेयं तत्र साध्वातिथेयकम् ॥ ११२ ॥
1.5.112 · p. 81
अनुष्टुप्
प्राघूर्णकः प्राघुणकः प्राघुणो गाथ इत्ययम् ।गृहागतः स्यादतिथिर्द्वयोर्देशिक इत्यपि ॥ ११३ ॥
1.5.113 · p. 81
अनुष्टुप्
आगन्तुको नास्त्र्यतिथिः समीची वन्दना स्त्रियौ ।स तु त्रिषूपसंग्राह्यो योभिवाद्यो यथाविधि ॥ ११४ ॥
1.5.114 · p. 81
अनुष्टुप्
पादपर्यायग्रहणमुपसंग्रह इत्यपि ।पूजा नमस्यापचितिः सपर्याप्यर्हणा स्त्रियाम् ॥ ११५ ॥
1.5.115 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
वरिवस्या तु शुश्रूषा परिचर्याप्युपासना ।अन्वासनाप्युपास्तिः स्त्री क्लीबे शुश्रूषणं पुनः ॥ ११६ ॥
1.5.116 · p. 81
अनुष्टुप्
कौशली कुशलप्रश्ने ब्रज्याटाट्या सरापि च ।साचेर्या मार्गपर्यायस्थितिः पर्यटनं समे ॥ ११७ ॥
1.5.117 · p. 81
अनुष्टुप्
नियोगः केतनं श्राद्धे देवार्चादौ तु पञ्चधा ।गन्धपुष्पे धूपदीपौ नैवेद्यमिति सत्क्रिया ॥ ११८ ॥
1.5.118 · p. 81
अनुष्टुप्
अर्घपाद्याचमस्नानमधुपर्काधिकैश्च तैः ।दशधाथो षोडशधा सासनस्वागताम्बरैः ॥ ११९ ॥
1.5.119 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षो (wrong syllable)
भूषाचन्दनसम्मिश्रैः सोत्तराचमनीयकैः ।ध्यानादिकक्रिया तीर्था निदिध्या सा तु सास्थिरा ॥ १२० ॥
1.5.120 · p. 82
अनुष्टुप्