कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सभ्य

sabhyaपुं · masc.

In 16 kośas: 27 synonym verses, 2 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.379 · p. 19
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 22
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.35 · p. 2
आयुष्मानपि दीर्घायुः कथ्यतेऽथ परीक्षकः ।स्यादाक्षपाटलिकोऽपि पारिषद्योऽपि सभ्यवत् ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.3
महाकुलकुलीनार्यसभ्यसज्जनसाधवः ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.16
सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.6 · p. 69
प्रख्यातनप्तृकश्चापि बीज्यः कुल्यः कुलोद्भवः ।महाकुलः सभ्य आर्यः कुलीनः कुलसम्मतः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.72 · p. 76
सामाजिकाः प्राश्निकाश्च सभ्याः पारिषदा अपि ।परिषद्वलाः परिषदाः पर्षद्याः परिषद्वलाः ॥ ७२ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.80 · p. 77
दक्षिणाग्निर्गार्हपत्याहवनीयाश्च तेऽर्द्धकाः ।पञ्च सभ्यावसथ्याभ्यां पूर्णाधानं तदुच्यते ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.16 · p. 216
दोषैकदृक् पुरोभागी साधुसभ्यार्यसज्जनाः ।तत्परे प्रसितासक्ता विष्टार्थोद्युक्त उत्सुकः ॥ १६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 231
सभ्य-साधू सज्जनार्यौ समौ पार्षद्य-पार्षदौ ।पारिषद्यः पारिषदो भवेद्दुष्कुलजः पुनः ॥ ३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.46 · p. 236
पर्षद्वलाः सभासूराः सदस्या विधिदर्शिनः ।सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 112 · p. 56
पारिषद्यो बुधः सभ्यः सदः संसत्सभोचितः ।परिषत्सभाऽस्थानपती राजसूयो नृपक्रतुः ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.45 · p. 107
सभ्यसज्जनसाध्वार्या दुर्जनः पिशुनः समः ।खले नीचो द्विजिह्वोऽपि मत्सरी सूचकस्तथा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.145 · p. 119
सदस्यास्तु सभास्ताराः सभ्याः पार्षद्यनामकाः ।सामाजिकास्तथा प्रोक्ताः परिषत्सदसी समे ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.203 · p. 51
बीज्यः सभ्यः सज्जनश्च सत्कुलोत्पन्न इष्यते ।द्विजातिर्ब्राह्मणे प्रोक्तः षट्कर्मा तद्युते स्मृतः ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.216 · p. 52
सामाजिकाः सभास्ताराः सभ्याः स्युश्च सभासदः ।स्याद्यूपकटके पुंसि चषालश्चष इत्यपि ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.12 · p. 35
सभा समज्या परिषत्संसच्च समितिः सदः ।गोष्ठ्यास्थानी समाजश्च पर्षत्सभ्याः समाजिकाः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.72 · p. 41
गुणवानुत्तमः श्रेष्ठो योग्यः पूज्यो महान्गुणी ।श्रेयाञ्शिष्टः सदाचारः साधुसभ्यार्यसज्जनाः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.563 · p. 72
अथाऽऽर्यश्चापि साधुः स्यात् सभ्यश्च सज्जनस्तथा ।दोषैकदृक् पुरोभागी विद्वद्भिः कथ्यते किल ॥ ५६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.742 · p. 104
पार्षदाः पारिषद्याश्च सभ्याश्चापि सभासदः ।सभास्ताराः सदस्याश्च सामाजिकाः स्मृताः समे ॥ ७४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.32 · p. 112
विधिदर्शी सदस्यस्तु विधिदेशक इत्यपि ।अथ सभ्यः सभास्तारः सभासत् परिषद्बलः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.106 · p. 14
हव्यवाहनशंस्याहवनीयाः पूर्वपावके ।सभ्यावसथ्यौ तत्पूर्वावग्नी त्रेतानलत्रये ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1230 · p. 150
ते तु सभ्याः सभास्तारा अमृतं यज्ञशेषके ।चौलं तु भद्राकरणं वपनं परिवापणम् ॥ १२३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1832 · p. 222
नैयायिकस्त्वाक्षपादो बार्हस्पत्यस्तु नास्तिकः ।पारिषद्याः पार्षदाः स्युः सभ्या याज्ञात्ववायसी ॥ १८३२ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.8 · p. 57
होत्रं हविष्यं सान्नाय्यं पाठको धर्मभाणकः ।सभ्यस्तु प्राश्निका देवद्रोणी यात्रा दिवौकसाम् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.25 · p. 11
सभ्यावसथ्यौ तत्पूर्वावायुः स्यात् पाशुबंधिकः ।पथिकृद्वर्त्महोमेषु पदहोमेष्वनीकवान् ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.13 · p. 124
सदस्या देशिकाः स्थेयाः सभास्ताराः सभासदः ।सभ्याः सामाजिकाश्चाथ गोष्ठ्यास्था परिषत् सभा ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1448 · p. 166
सभ्यस्तु त्रिः सभासाधौ तथा सामाजिकेऽपि च ।सज्जनेऽप्यथ यागस्थे पूर्वेऽप्याहवनीयतः ॥ १४४८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 6.4.18 · p. 229
शुभ्रं शुक्ले भास्वरे च शुक्तं तु परुषाम्लयोः ।सभ्यः सामाजिके साधौ सव्यो दक्षिणवामयोः ॥ १८ ॥
अनुष्टुप्

सभ्य as a meaning in nānārtha verses