कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · वैश्यादिप्रकाण्डः (1/6)

इति क्षत्रियप्रकाण्डः ।

विशो भूमिस्पृशो वैश्या ऊरुपर्यायजार्थकाः ।अर्या उरव्या गोरक्षाकृषिवाणिज्यजीविनः ॥ १ ॥
1.7.1 · p. 132
अनुष्टुप्
स्त्रियां कृषिः स्याद्वाणिज्या न ना सत्यानृतं पुनः ।तृष्णा धनपिशाची स्याद्वार उद्धारमस्त्रियाम् ॥ २ ॥
1.7.2 · p. 132
अनुष्टुप्
ऋणं प्रमात्यं क्लीबेथ कुसीदं वृद्धिजीविका ।कुमुदो वाच्यलिङ्गः स्यात् कुमुदं च नपुंसकम् ॥ ३ ॥
1.7.3 · p. 132
अनुष्टुप्
फलाम्लिकार्थप्रयोगे याच्ञाप्राप्तं तु याचितम् ।यत्प्राप्तं नित्यमादापमित्यकं तदितस्त्रिषु ॥ ४ ॥
1.7.4 · p. 133
अनुष्टुप्
आवप्रादुत्तमर्णस्तु प्रयोक्ताथ ग्रहीतरि ।अधमर्णः कुसीदी तु वृद्ध्याजीवश्च वार्द्धुषः ॥ ५ ॥
1.7.5 · p. 133
अनुष्टुप्
कुसीदको वृद्धिपरः स्याद्द्वैगुणिक इत्यपि ।मूल्यं क्लीबेऽस्त्रियां वस्नः पुमानर्घं क्रयोऽपि च ॥ ६ ॥
1.7.6 · p. 133
अनुष्टुप्
अवक्रयो भाटकोऽस्त्री द्रव्यवृद्धौ कला स्त्रियाम् ।मध्यस्थः प्राश्निकः साक्षी स्थेयोऽथो कूटसाक्षिणि ॥ ७ ॥
1.7.7 · p. 133
अनुष्टुप्
मिथ्यापर्यायसाक्षी स्यादसूत्री सूत्रवर्जितः ।कर्षकः कार्षकः क्षेत्री कृषाणश्चापि कुर्षुकः ॥ ८ ॥
1.7.8 · p. 133
अनुष्टुप्
कृषीवलः कुटुम्बी स्याद्धली कृषिक इत्यपि ।लोष्टमस्त्र्यस्त्रियां लेष्टुर्दलनी दलिरुभे स्त्रियौ ॥ ९ ॥
1.7.9 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 र्दल (syllable split)
महादलिश्च दलनिर्द्वे द्वयोर्दलनी स्त्रियाम् ।स्यात्प्रतोदः प्रवयणं प्राजनं तोत्रतोदने ॥ १० ॥
1.7.10 · p. 133
अनुष्टुप्
भूदारणं खनित्रं स्यादवदारणमित्यपि ।कुद्दालोप्यथ रम्भस्तु दण्डो दरकरोऽपि च ॥ ११ ॥
1.7.11 · p. 133
अनुष्टुप्
घासच्छेदी खुरप्रः स्यात्स्त्रियां दातिस्तु न द्वयोः ।दात्रं लवित्रं तन्मुष्टौ वण्ठो मत्यं समीकृतौ ॥ १२ ॥
1.7.12 · p. 133
अनुष्टुप्
स्याद्योक्त्रं योत्रमाबन्धो हल्यं त्रिषु हलिः स्त्रियाम् ।अपि नित्या निरीपं च कालोऽस्त्री कूटकं कृषः ॥ १३ ॥
1.7.13 · p. 134
अनुष्टुप्
कृषिको ना फलं क्लीबे न स्त्रियां हललाङ्गले ।सीरो हालश्च भूम्यर्थदारणोऽथ स्त्रियामिमे ॥ १४ ॥
1.7.14 · p. 134
अनुष्टुप्
ईशेपे सीरदण्डो ना सीता शीतास्य पद्धतौ ।सीरपर्यायपद्यर्थानिरीशं कूटकं च षण् ॥ १५ ॥
1.7.15 · p. 134
अनुष्टुप्
कुशी कोशी लोहफले तदाधारे तु चर्वढम् ।अस्त्री श्रेणिः खलो धान्यपीडने पशुसन्ततेः ॥ १६ ॥
1.7.16 · p. 134
अनुष्टुप्
खलमध्यगते कीले मेढिर्मेथिरुभे स्त्रियौ ।अथ स्याद्द्विविधं धान्यं शूकशिम्बिसमुद्भवम् ॥ १७ ॥
1.7.17 · p. 134
अनुष्टुप्
तत्र शूकेषु प्रथमे शालयः पुंस्यमी पुनः ।रक्तशालिर्महाशालिः कलमः शकुनाहृतः ॥ १८ ॥
1.7.18 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षु (wrong syllable)
दीर्घशूको रोध्रशूकस्तूर्णकः शङ्खमौक्तिकौ ।लाङ्गलः कर्दमो लोहवालो महिषमस्तकः ॥ १९ ॥
1.7.19 · p. 134
अनुष्टुप्
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ ।शारामुखः शीतभीरुस्तपनीयः सुगन्धिकः ॥ २० ॥
1.7.20 · p. 134
अनुष्टुप्
पुष्पाण्डको दीर्घतालो महादूषकदूषकौ ।पतङ्गकः काञ्चनको हायनोप्यथ षष्टिकाः ॥ २१ ॥
1.7.21 · p. 134
अनुष्टुप्
गौरो महान् कुरवकः प्रमोदोसनपुष्पकः ।कुमुदः कालकः पीतः केदारस्तूर्णकाङ्गुभौ ॥ २२ ॥
1.7.22 · p. 135
अनुष्टुप्
प्रायः स्युर्व्रीहयो व्रीहिर्महान्कृष्णो जतूद्भवः ।सारामुखस्त्वरितको लावाक्षश्चीनशूकरौ ॥ २३ ॥
1.7.23 · p. 135
अनुष्टुप्
पारावतः कुक्कुटाण्डो जालशालजदर्दुराः ।कुरुविन्दो नन्दिमुखो हालो वरकराधनौ ॥ २४ ॥
1.7.24 · p. 135
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न (wrong syllable)
रक्तशूको रक्तशालिर्महतः शालितण्डुलौ ।कलामाः कलमा भूम्नि नाकलम्बिश्च गारुडः ॥ २५ ॥
1.7.25 · p. 135
अनुष्टुप्
शकुनाहृतपर्यायो राजहंसार्थ इत्यपि ।दीर्घशूको लम्बशूके रोध्रशूकस्तु तत्समे ॥ २६ ॥
1.7.26 · p. 135
अनुष्टुप्
शूकेथ तूर्णकः शीघ्रपाकेथाश्वयुजश्च सः ।शङ्खशूकः शङ्खसमे मुक्तासदृशतण्डुले ॥ २७ ॥
1.7.27 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
मौक्तिकोथो तैलिकः स्यात्तैलासी चाथ लाङ्घलः ।सीराकृष्टक्षितिभवः कर्दमः कर्दमोद्भवः ॥ २८ ॥
1.7.28 · p. 135
अनुष्टुप्
लोहतालेतिकठिनतण्डुलः पुण्ड्रकः पुनः ।पुण्डरीकनिभः पाण्डुः पाण्डुरोप्यथ गौरकः ॥ २९ ॥
1.7.29 · p. 135
अनुष्टुप्
हरिद्राभः प्रमोदस्तु प्रह्लादश्चाथ सारिवः ।सारिवाभः पुण्डरीकपृष्ठः श्वेतोत्पलोप्यथ ॥ ३० ॥
1.7.30 · p. 135
अनुष्टुप्
सुरामुखः कृष्णमुखतण्डुलोथ सुगन्धिकः ।गन्धशालिरथोशीतभीरुः शीतविनाश्यपि ॥ ३१ ॥
1.7.31 · p. 136
अनुष्टुप्
तपनीयोऽथ पुष्पाण्डः स च कोमलतण्डुलः ।स्यान्महामदकारी तु महरूषक इत्यपि ॥ ३२ ॥
1.7.32 · p. 136
अनुष्टुप्
दीर्घनालो लम्बनाले मदकारी तु रूषकः ।स्वर्णशालिः काञ्चनः स्यात्पतङ्गः कुङ्कुमाकृतिः ॥ ३३ ॥
1.7.33 · p. 136
अनुष्टुप्
हायनः कुशवाकः स्याद्घटप्रच्छोथ षष्टिकाः ।षष्टिरात्रेण ये क्षेत्रे परिपक्वा भवन्ति ते ॥ ३४ ॥
1.7.34 · p. 136
अनुष्टुप्
एवमेव व्रीहयोऽपि समुन्नेया यथाक्रमम् ।श्यामाकः श्यामकोऽपि स्यादविपर्यायतः प्रियः ॥ ३५ ॥
1.7.35 · p. 136
अनुष्टुप्
स्त्रीबीजः सुकुमारश्च तृणबीजोत्तमश्च सः ।राजधान्यं पुनः क्लीबे क्षेत्रजो वनजश्च सः ॥ ३६ ॥
1.7.36 · p. 136
अनुष्टुप्
द्विविधो हस्तिश्यामोऽथ प्रियङ्गुः पीततण्डुलः ।रागी च कङ्गुः कणिशो लाञ्छनो बहुकाणिशः ॥ ३७ ॥
1.7.37 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ति (wrong syllable)
स्यात् स्त्रियां कङ्गुनी कृष्णा मधुका शौकिका च सा ।रक्ता पीता तुशुमटी सैव स्यादथ चीनकः ॥ ३८ ॥
1.7.38 · p. 136
अनुष्टुप्
स्त्रियां स्यान्माधवी सैव काकपर्यायकङ्गुनी ।कोरदूषः कोद्रवः स्यादुद्दालो वनकोद्रवे ॥ ३९ ॥
1.7.39 · p. 136
अनुष्टुप्
मदनाङ्गो देशदेशसम्भवो भिन्नजातिकः ।श्यामाकः कोद्रवः कङ्गुर्नीवारो मकरः कुली ॥ ४० ॥
1.7.40 · p. 137
अनुष्टुप्
तृणधान्यान्यमून्येके सरागीण्यथ कञ्चुकी ।धान्यराजस्तीक्ष्णशूको हयपर्यायवल्लभः ॥ ४१ ॥
1.7.41 · p. 137
अनुष्टुप्
यवो मेध्यान्नपर्यायो हविष्यः शितशूककः ।दिव्योक्षतस्तीक्ष्णशूकः पवित्रस्त्यक्तुरित्यपि ॥ ४२ ॥
1.7.42 · p. 137
अनुष्टुप्
स्तोकः स्तोक्यश्च हरिते द्विविधोऽपि प्रकीर्तितः ।शूकमुण्डोऽशूकमुण्डो गोधूमः स च वंशजः ॥ ४३ ॥
1.7.43 · p. 137
अनुष्टुप्
वंशधान्यं वंशबीजो यवपर्यायसम्भवः ।गोधूमः सुमनोपूपः क्षीरी निस्तुष इत्यपि ॥ ४४ ॥
1.7.44 · p. 137
अनुष्टुप्
रसालश्चाथ तद्भेदाः स्त्रियां नान्दीमुखीत्यपि ।मधूली हंसवाजीककाष्ठकाद्याश्च तद्विधाः ॥ ४५ ॥
1.7.45 · p. 137
अनुष्टुप्
बृहन्तो लघवश्चाथ यावनालः स्त्रियां पुमान् ।दीर्घनालो यवनलः शिखरीवृन्ततण्डुलः ॥ ४६ ॥
1.7.46 · p. 137
अनुष्टुप्
क्षेत्रेक्षुरिक्षुपर्यायपत्रो दीर्घशरश्च सः ।योनली बीजपुष्पी च जूर्णा जूर्णिश्च जारिणी ॥ ४७ ॥
1.7.47 · p. 137
अनुष्टुप्
जारिर्जरिर्देवधान्यं धवलेतरतण्डुलः ।नक्षत्रकूरस्तारः स्याद्वृत्तो मौक्तिकतण्डुलः ॥ ४८ ॥
1.7.48 · p. 137
अनुष्टुप्
रक्तकुस्तुम्बरो रक्ते तूवरो वर इत्यपि ।बृहती काण्डकणिशा श्वेतरक्तविभेदतः ॥ ४९ ॥
1.7.49 · p. 138
अनुष्टुप्
राजपर्यायजूर्णाह्वा वाजरिश्चाथ वर्चटः ।मञ्चूको मकरो मल्लः क्षुडोस्मिन्मणिकी स्त्रियाम् ॥ ५० ॥
1.7.50 · p. 138
अनुष्टुप्
अस्त्री कणिशकिंसारु सस्यशूकं नपुंसकम् ।अथ स्याच्छिम्बिजं मुद्गः सूपमुख्यो रसोत्तमः ॥ ५१ ॥
1.7.51 · p. 138
अनुष्टुप्
भुक्तिप्रदो हयानन्दो भूफलस्तत्र चासिते ।वासन्तेऽपि च लोभ्यः स्यात्सुराष्ट्रोत्थोथ पीतके ॥ ५२ ॥
1.7.52 · p. 138
अनुष्टुप्
प्रवेलशारदजया नीले हरितशाखिकौ ।वसुर्वनाखुः खण्डीरो हरिमन्थश्च धूसरः ॥ ५३ ॥
1.7.53 · p. 138
अनुष्टुप्
वनजे तु कुलीनः स्यादुरकेऽपि निगूढकः ।माषो बली बीजवरः कामार्थश्च पुरीषिणः ॥ ५४ ॥
1.7.54 · p. 138
अनुष्टुप्
वृषाकरो धान्यवीरः कुरुविन्दोऽपि मांसलः ।पित्र्यो बलाढ्यः काचराजपदात् माषो परो लघुः ॥ ५५ ॥
1.7.55 · p. 138
metre not recognisednearly अनुष्टुप्
चणस्तु हरिमन्थः स्यात्कञ्चुकी कृष्णकञ्चुकः ।बालभोज्यो वाजिभक्ष्यः सुगन्धस्त्रिविधश्च सः ॥ ५६ ॥
1.7.56 · p. 138
अनुष्टुप्
धूसरः श्वेतकृष्णश्च मकुष्टस्तु मयुष्टकः ।कृमीलको वनमुद्गो वल्लीमुद्गोऽमृतोऽपि च ॥ ५७ ॥
1.7.57 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
सूरो मसूरो मङ्गल्यो रक्तपर्यायदालिकः ।पृथुकल्याणगुडतो बीजः कृष्णे वसन्तकः ॥ ५८ ॥
1.7.58 · p. 139
अनुष्टुप्
कलायो मण्डचणको हरेणुश्च द्वयोः पुनः ।सतीनकः सतीलेऽपि कलापश्चापि पुंस्ययम् ॥ ५९ ॥
1.7.59 · p. 139
अनुष्टुप्
शमनो नालकः कण्ठी द्वयोर्लङ्का तु रूक्षणा ।कराला त्रिपुरापि स्यात् काण्डिका चात्मिका च सा ॥ ६० ॥
1.7.60 · p. 139
अनुष्टुप्
आढकी तुवरी वर्णकरा वीरभुजा च सा ।वृत्तबीजा पीतपुष्पा वंशपर्यायसम्भवा ॥ ६१ ॥
1.7.61 · p. 139
अनुष्टुप्
नान्दीमुखो राजमाषश्चवलो वर्वरो स्त्रियाम् ।पावकश्चापि कुल्माषः श्वेतवर्णोऽपरा स्त्रियाम्॥ ६२ ॥
1.7.62 · p. 139
अनुष्टुप्
श्वेतवृन्ता कृष्णवृन्ता श्वेतादिवर्णभेदतः ।कुलत्थिका रक्तवृन्ता कृष्णवृन्तः कुलत्थकः ॥ ६३ ॥
1.7.63 · p. 139
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
क्षवः क्षुधाधिजननो मधुरः सुकुमारकः ।वृत्तबीजो दीर्घशिम्बी चपलोप्यथ नेः परः ॥ ६४ ॥
1.7.64 · p. 139
अनुष्टुप्
पावः स्याच्छितिशिम्बिश्च वल्ली बहुविधश्च सः ।माध्वीकः श्वेतनिष्पावः स्यात्स्त्रियां मधुशर्करा ॥ ६५ ॥
1.7.65 · p. 139
अनुष्टुप्
पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ।नन्दिजः कटुनिष्पावः कर्बुरो वनसम्भवे ॥ ६६ ॥
1.7.66 · p. 140
अनुष्टुप्
काकाण्डोथ तिलो हव्यो देवर्षिपितृवल्लभः ।होमधान्यं पवित्रं स्यात् पापघ्नः पितृतर्पणः ॥ ६७ ॥
1.7.67 · p. 140
अनुष्टुप्
पूतधान्यं जर्तिलस्तु वनजे स तु निष्फलः ।तिलात्पेजश्च पिञ्जश्च स तु ज्ञेयश्चतुर्विधः ॥ ६८ ॥
1.7.68 · p. 140
अनुष्टुप्
गोमूत्रसन्निभः कृष्णः श्वेतः कर्वुर इत्यपि ।वज्रपर्यायपुष्पार्थं स्यात्तत्र तिलपुष्पके ॥ ६९ ॥
1.7.69 · p. 140
अनुष्टुप्
अकसी त्वासुरी राजी तीक्ष्णगन्धा मधूलिका ।पुंसि क्षवः क्षुतो रक्तसर्षपो राजसर्षपः ॥ ७१ ॥
1.7.71 · p. 140
अनुष्टुप्
पुंसि क्षुधान्नभिजनः क्षुताभिजननः स च ।राजिका कृष्णिका चाथ सिद्धः सिद्धप्रयोजनः ॥ ७२ ॥
1.7.72 · p. 140
अनुष्टुप्
सर्षपः साधनो भूतनाशनः सितसर्षपः ।कटुतैलः सरिषपो गौरः सिद्धार्थ इत्यपि ॥ ७३ ॥
1.7.73 · p. 140
अनुष्टुप्
मङ्गल्योऽपि च केशारिरथ स्यात्तिलकल्कके ।पललं तिलचूर्णे तु पिष्टकं तिलकिट्टके ॥ ७४ ॥
1.7.74 · p. 140
अनुष्टुप्
पिण्याकः पुंस्यथ खलिर्निस्नेहस्तिलकल्कजः ।कणिशं धान्यकोशोना स्त्रियां स्यात् सस्यमञ्जरी ॥ ७५ ॥
1.7.75 · p. 141
अनुष्टुप्
सस्यार्थाच्छीर्षपर्यायं न स्त्रियां शूकमित्यपि ।श्लक्ष्णतीक्ष्णाग्रके चाथ शाल्याद्या निस्तुषीकृताः ॥ ७६ ॥
1.7.76 · p. 141
अनुष्टुप्
त्रिःकृत्वः कण्डिताः शुद्धास्ताण्डुला अथ पुंस्यमी ।बहुत्वे शालयो भ्रष्टा लाजा अथ तथा यवाः ॥ ७७ ॥
1.7.77 · p. 141
अनुष्टुप्
धाना आर्द्रा व्रीहयस्तु भ्रष्टा अत्यन्तकण्डिताः ।पृथुकश्चिपिटास्ते स्युर्गोधूमाः स्युस्तथाविधाः ॥ ७८ ॥
1.7.78 · p. 141
अनुष्टुप्
लुम्बिका तुलुका भ्रष्टाः शिम्बिधान्यस्य शिम्बयः ।अर्द्धस्विन्नास्तु कुल्माशाः कण्डनादिक्रियां विना ॥ ७९ ॥
1.7.79 · p. 141
अनुष्टुप्
शिविः शिंवी सिविः सिंवी सिवा सिंवा शिमिस्त्रियः ।धान्यान्माता च कोशोऽथ समूहे धान्यसम्भवे ॥ ८० ॥
1.7.80 · p. 141
अनुष्टुप्
अपि स्तम्बकरिर्गुच्छो वालस्त्रिष्वपि चास्त्रियाम् ।काण्डेऽफले पलालोऽस्त्री पलोथापि कडङ्गरे ॥ ८१ ॥
1.7.81 · p. 141
अनुष्टुप्
वुसं क्लीबे वुसेरुः स्यादस्त्रियामथ पुष्कसः ।पुंसि स्यादथ धान्यत्वक् तुषः पुंस्यथ च स्त्रियाम् ॥ ८२ ॥
1.7.82 · p. 141
अनुष्टुप्
दालिर्दाली चणादीनां स्फोरो नरि यवोद्भवे ।पिष्टे सक्तुः पूर्णकः स्यादापूपः परकोऽस्त्रियाम् ॥ ८३ ॥
1.7.83 · p. 141
अनुष्टुप्
विकसो वापि गोधूमसम्भवे समिता स्त्रियाम् ।स्फोटे गोधूमजे स्थूली कणिका यावनालजे ॥ ८४ ॥
1.7.84 · p. 142
अनुष्टुप्
चणोत्थे वेसवारो ना पिष्टं माषभवे न ना ।सर्वं स्याच्चाक्रिकं चूर्णं शिलापिष्टे तु पिष्टिका ॥ ८५ ॥
1.7.85 · p. 142
अनुष्टुप्
त्रिष्वम्बुना विना पक्वो भ्रष्टः पुंसि भरूजकः ।भरुजः क्लेदितभ्रष्ट उद्दूषः परिवाट्टिका ॥ ८६ ॥
1.7.86 · p. 142
अनुष्टुप्
खदिका स्त्र्यथ धानानां श्लक्ष्णचूर्णेषु सक्तवः ।तत्र मन्थो घृतमधुद्राक्षेक्षुरसमिश्रितः ॥ ८७ ॥
1.7.87 · p. 142
अनुष्टुप्
तस्मिञ्जलविमिश्रे तु चिक्कणो मसृणोऽपि च ।दध्ना सम्मिश्रितं तत्र करम्भः स्यादतः परम् ॥ ८८ ॥
1.7.88 · p. 142
अनुष्टुप्
शिम्बिधान्यं जलक्लिन्नं साङ्कुरं मणिरूढकम् ।त्रिषु रिद्धं त्वावसितमृद्धं वृद्धं समृद्धकम् ॥ ८९ ॥
1.7.89 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्वा (wrong syllable)
प्रणीतमुपसम्पन्नं प्रशस्तं च सुसंस्कृतम् ।धान्ये बृहति संपन्नमयोग्रं मुसलोऽस्त्रियाम् ॥ ९० ॥
1.7.90 · p. 142
अनुष्टुप्
मुशलोप्यथ कण्डन्यामुदुलूभ्यां खलस्त्रिषु ।स्यात् क्लीबे पवनं शूर्पं सूर्पं प्रस्फोटनं पुनः ॥ ९१ ॥
1.7.91 · p. 142
अनुष्टुप्
त्रिषु वस्तुनि तत्पूते शोधितं निर्वुसीकृतम् ।फुल्लफालस्तु तद्वाते स्त्रियां क्लीबे तु चालनी ॥ ९२ ॥
1.7.92 · p. 142
अनुष्टुप्
अस्त्रियां तितउ क्लीबे परीपवनमित्यपि ।स्यात्तद्वत्पारिपवनं पावीरश्चापि पुंस्ययम् ॥ ९३ ॥
1.7.93 · p. 143
अनुष्टुप्
प्रस्थोऽस्त्रियां स्त्रियां पाली पालिश्चापि स्त्रियामथ ।स्यात्कटस्त्रिष्वलिञ्जो ना प्रसेवः स्यूत इत्यपि ॥ ९४ ॥
1.7.94 · p. 143
अनुष्टुप्
कण्डोलः पिटकः पुंसि स्त्री शाला सूदपाकयोः ।स्त्रियां रसवती तत्राध्यक्षः पौरोगवस्त्रिषु ॥ ९५ ॥
1.7.95 · p. 143
अनुष्टुप्
सूपकारो वल्लवः स्यात्सूदोप्यारालिकः पुनः ।गुण औदनिकोथ स्याद्भक्षपर्यायकारके ॥ ९६ ॥
1.7.96 · p. 143
अनुष्टुप्
आपूपिकः कान्दविकः क्लीबेश्मन्तकमित्यपि ।उदोध्यानं च धानं च हानं षण् चुल्ल्यपि स्त्रियाम् ॥ ९७ ॥
1.7.97 · p. 143
अनुष्टुप्
तथा चुल्लिरपि ज्ञेया तद्वत्साधिश्रयण्यपि ।अन्तिकाथ हसन्ती तु हसन्यङ्गारधानिका ॥ ९८ ॥
1.7.98 · p. 143
अनुष्टुप्
अङ्गारात्पात्री शकटी क्लीबेऽलातं तथोल्मुकम् ।तत्सामिज्वलिते काष्ठे सधूमेथ विधूमके ॥ ९९ ॥
1.7.99 · p. 143
अनुष्टुप्
अङ्गारेङ्गालौ निर्वाणे कोकिलो लाहकोऽपि च ।भ्राष्ट्राम्बरीषौ द्वावस्त्री स्त्रियां कन्दुःस्थितो नले ॥ १०० ॥
1.7.100 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लौ (wrong syllable)
घृतादिना क्लेदिनि स्यात्कटाहस्त्रिष्वलिञ्जरः ।अस्त्रियां पिठरं कुण्डं क्लीब आस्थाल्युखे स्त्रियौ ॥ १०१ ॥
1.7.101 · p. 143
अनुष्टुप्
चरुः पुमान्स्त्रियां नन्दानन्दिरालूर्गलन्तिका ।वर्द्धनी करकः पुंसि घटोऽस्त्री कलशो द्वयोः ॥ १०२ ॥
1.7.102 · p. 144
अनुष्टुप्
कुम्भश्च कलसोऽपि स्यात्करीरोऽपि कुटोऽस्त्रियाम् ।निपोप्यथ स्त्रियां पारी दोहनी रोहणीति च ॥ १०३ ॥
1.7.103 · p. 144
अनुष्टुप्
तुम्बा निलिम्पा क्लीबे स्यान्निपानमपि वा स्त्रियाम् ।अलिञ्जरो मणिश्चापि न द्वयोः स्यादुदञ्चनम् ॥ १०४ ॥
1.7.104 · p. 144
अनुष्टुप्
करङ्को नारिकेलस्य कटाहः कुठरो द्वयोः ।वर्द्धमानः शरावेऽस्त्री पुमाञ्शालाजिरोप्यथ ॥ १०५ ॥
1.7.105 · p. 144
अनुष्टुप्
ऋजीषं स्यादृचीषं च क्लीबे स्यात्पिष्टपाककृत् ।कंसोऽस्त्री चषकः पानभाजनेपि स्त्रियां च षण् ॥ १०६ ॥
1.7.106 · p. 144
अनुष्टुप्
स्थालं पात्रममत्रं स्यात् क्लीबेथापि स्त्रियां करिः ।दर्विर्दर्वी कंविरपि दारुहस्तः कडच्छकः ॥ १०७ ॥
1.7.107 · p. 144
अनुष्टुप्
तर्दूः स्त्रियां काष्ठलोही शतर्द्धी स्यादथापरा ।स्यात्पल्लिका कुन्तलिका दध्यादिच्छेदिनी तु या ॥ १०८ ॥
1.7.108 · p. 144
अनुष्टुप्
अथ स्त्रियां कुतूः कृत्तेः स्नेहपर्यायभाजनम् ।सैवाल्पा कुतुपः पुंसि कॢप्ताऽसंस्कृतचर्मणा ॥ १०९ ॥
1.7.109 · p. 144
अनुष्टुप्
संस्कृतेन दृतिः पुंसि खल्लो स्त्र्यालूश्च चर्मणा ।करपात्री चाथ मेथा मन्थः स्यान्मन्थदण्डकः ॥ ११० ॥
1.7.110 · p. 144
अनुष्टुप्
क्षुब्धस्तदर्गले तु स्यात्कुठरोप्यथ मर्कटी ।स्त्रियां प्रत्यर्गले नेत्रं क्लीबे व्यावर्तनं च तत् ॥ १११ ॥
1.7.111 · p. 145
अनुष्टुप्
मूलकन्दकरीराग्रफलकाण्डविरूढकैः ।त्वक्पत्रकवकैरेवं शाको दशविधः स्मृतः ॥ ११२ ॥
1.7.112 · p. 145
अनुष्टुप्
स्वदनं व्यञ्जनं क्लीबे तेमनं स्यादजामिकृत् ।मूलकोऽस्त्री नीलकण्ठो मृत्क्षारः कन्दमूलकः ॥ ११३ ॥
1.7.113 · p. 145
अनुष्टुप्
हस्तिदन्तः शङ्खमूलो हरित्पर्णः सितोऽपि च ।रुचिरोथ स्थूलमूलः स च चाणक्यमूलकः ॥ ११४ ॥
1.7.114 · p. 145
अनुष्टुप्
विष्णुगुप्तो महाकन्दो वालेयो मरुसम्भवः ।शालाककटुकश्चापि कौटिल्यश्चाथ गृञ्जनः ॥ ११५ ॥
1.7.115 · p. 145
अनुष्टुप्
यवनेष्टः शिरामूलो ग्रन्थिमूलोऽपि वर्त्तुलः ।शिखाकन्दः पिण्डमूलो गजाण्डः पिण्डकः पुनः ॥ ११६ ॥
1.7.116 · p. 145
अनुष्टुप्
अथ षण् गर्जरं पीतमूलं स्यात्पीतकन्दकम् ।सुमूलं स्वादुकन्दं च नारङ्गमथ शिग्रुकः ॥ ११७ ॥
1.7.117 · p. 145
अनुष्टुप्
हरिच्छाकः शाकपत्रः सुपत्रश्चोपदंशकः ।बहुमूलो दशमूलः कामलच्छद इत्यपि ॥ ११८ ॥
1.7.118 · p. 145
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 श (wrong syllable)
तीक्ष्णमूलो नीलशिग्रौ तीक्ष्णगन्धो जनप्रियः ।शोभाञ्जनस्तत्र कृष्णे रुचिराञ्जन इत्यपि ॥ ११९ ॥
1.7.119 · p. 145
अनुष्टुप्
मुखामोदः श्वेतशिग्रौ मुखभङ्गश्च रोचनः ।सुमूलः श्वेतमरिचस्तीक्ष्णः स्यादथ रक्तके ॥ १२० ॥
1.7.120 · p. 146
अनुष्टुप्