कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बृहत्कुक्षि

bṛhatkukṣiवि · adj.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.450 · p. 21
पिचण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः ।उदर्युदरिले विख्रविखुविग्रा अनासिके ॥ ४५० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.44
तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.608 · p. 68
पिचण्डिलो वृहत्कुक्षिस्तुन्दिलोदरिलौ च सः ।खलतिः शिपिविष्टः स्यादैन्द्रलुप्तिक एव च ॥ ६०८ ॥
अनुष्टुप्
genderविadj.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.108 · p. 32
मुन्दिलस्तुन्दिकश्चापि बृहत्कुक्षिश्च तुण्डिनः ।पिचण्डिलश्चोदरिलो बलवान्मांसलोंऽसलः ॥ १०८ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.684 · p. 92
पिचिण्डिलो बृहत्कुक्षिस्तुन्दी तुन्दिकतुन्दिलौ ॥ ६८४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.206 · p. 97
वीर्यवान् मांसलश्चापि बलवान् अंसलो बली ।पिचिण्डिलो बृहत्कुक्षिस्तुन्दिकस्तुन्दिभोऽपि च ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1109 · p. 137
विकलाङ्गस्तु पोगण्डो बृहत्कुक्षिः पिचण्डिलः ।तुन्दिकस्तुन्दिलस्तुन्दी तिलकस्तिलकालकः ॥ ११०९ ॥
अनुष्टुप्
genderविadj.