कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

द्वितीयं काण्डम् · मनुष्यवर्गः (1/3)

इति सिंहादिवर्गः

अथ मनुष्यवर्गः

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ।स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥ १ ॥
2.6.1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना ।प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥सुन्दरी रमणी रामा कोपना सैव भामिनी ।
2.6.3
अनुष्टुप्
वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥
2.6.4
अनुष्टुप्
कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः ।
2.6.5
अनुष्टुप्
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥भार्या जायाऽथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ।पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥
2.6.6
अनुष्टुप्
कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा ।पतिंवरा च वर्याऽथ कुलस्त्री कुलपालिका ॥ ७ ॥
2.6.7
अनुष्टुप्
कन्या कुमारी गौरी तु नग्निकानागतार्तवा ।
2.6.8
अनुष्टुप्
स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥
2.6.8
अनुष्टुप्
समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी ।
2.6.10
अनुष्टुप्
इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी ॥ ९ ॥
2.6.9
अनुष्टुप्
कान्तार्थिनी तु या याति संकेतं साभिसारिका ।
2.6.12
अनुष्टुप्
पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना ।
2.6.13
अनुष्टुप्
अवीरा निष्पतिसुता विश्वस्ताविधवे समे ॥ ११ ॥
2.6.11
अनुष्टुप्
आलिः सखी वयस्याऽथ पतिवत्नी सभर्तृका ।
2.6.15
अनुष्टुप्
वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती ॥ १२ ॥
2.6.12
अनुष्टुप्
शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च ।
2.6.17
अनुष्टुप्
आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥
2.6.13
अनुष्टुप्
अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि ।
2.6.19
अनुष्टुप्
उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४ ॥
2.6.14
अनुष्टुप्
आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा ।
2.6.21
अनुष्टुप्
उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥
2.6.15
अनुष्टुप्
वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ।
2.6.23
अनुष्टुप्
जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥
2.6.16
अनुष्टुप्
स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे ।
2.6.25
अनुष्टुप्
कात्यायन्यर्धवृद्धा या काषायवसनाधवा ॥ १७ ॥
2.6.17
अनुष्टुप्
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।
2.6.27
अनुष्टुप्
असिक्नी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी ॥ १८ ॥
2.6.18
अनुष्टुप्
वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः ।
2.6.29
अनुष्टुप्
सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे ॥ १९ ॥
2.6.19
अनुष्टुप्
विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला ।स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ।
2.6.31
अनुष्टुप्
श्रद्धालुर्दोहदवती निष्कला विगतार्तवा ॥ २१ ॥
2.6.21
अनुष्टुप्
आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी ।
2.6.33
अनुष्टुप्
गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥
2.6.22
अनुष्टुप्
पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः ।स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥
2.6.23
अनुष्टुप्
कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः ।सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥
2.6.24
अनुष्टुप्
पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः ।
2.6.37
अनुष्टुप्
सुता मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ॥ २५ ॥
2.6.25
अनुष्टुप्
अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः ।कौलटेरः कौलटेयो भिक्षुकी तु सती यदि ॥ २६ ॥तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः ।
2.6.39
अनुष्टुप्
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।
2.6.40
अनुष्टुप्
स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ २८ ॥
2.6.28
अनुष्टुप्
ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा ॥ २९ ॥
2.6.29
अनुष्टुप्
भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।
2.6.44
अनुष्टुप्
प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३० ॥
2.6.30
अनुष्टुप्
पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः ।
2.6.46
अनुष्टुप्
पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥
2.6.31
अनुष्टुप्
श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ ।
2.6.48
अनुष्टुप्
स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥
2.6.32
अनुष्टुप्
पितामहः पितृपिता तत्पिता प्रपितामहः ।
2.6.50
अनुष्टुप्
मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥ ३३ ॥
2.6.33
अनुष्टुप्
समानोदर्यसोदर्यसगर्भ्यसहजाः समाः ।
2.6.52
अनुष्टुप्
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥
2.6.34
अनुष्टुप्
ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः ।
2.6.54
अनुष्टुप्
धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ३५ ॥
2.6.35
अनुष्टुप्
अमृते जारजः कुण्डो मृते भर्तरि गोलकः ।
2.6.56
अनुष्टुप्
भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥
2.6.36
अनुष्टुप्
मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ।श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥
2.6.37
आर्या
दम्पती जम्पती जायापती भार्यापती च तौ ।
2.6.59
अनुष्टुप्
गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् ॥ ३८ ॥
2.6.38
अनुष्टुप्
सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ ।
2.6.61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
तृतीयाप्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके ॥ ३९ ॥
2.6.39
अनुष्टुप्metre not read in every line
शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे ।
2.6.63
अनुष्टुप्
स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम् ॥ ४० ॥
2.6.40
अनुष्टुप्
पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा ।
2.6.65
अनुष्टुप्
स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी ॥ ४१ ॥
2.6.41
अनुष्टुप्
बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा ।
2.6.67
अनुष्टुप्
प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥
2.6.42
अनुष्टुप्
वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः ।
2.6.69
अनुष्टुप्
जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ॥ ४३ ॥
2.6.43
अनुष्टुप्
अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः ।
2.6.71
अनुष्टुप्
तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥
2.6.44
अनुष्टुप्
अवटीटोऽवनाटश्चावभ्रटो नतनासिके ।
2.6.73
अनुष्टुप्
केशवः केशिकः केशी वलिनो वलिभः समौ ॥ ४५ ॥
2.6.45
अनुष्टुप्
विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः ।
2.6.75
अनुष्टुप्
खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः ॥ ४६ ॥
2.6.46
अनुष्टुप्
खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः ।
2.6.77
अनुष्टुप्
ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः ॥ ४७ ॥
2.6.47
अनुष्टुप्
स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः ।
2.6.79
अनुष्टुप्
पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ॥ ४८ ॥
2.6.48
अनुष्टुप्
वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः ।
2.6.81
अनुष्टुप्
जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः ॥ ४९ ॥
2.6.49
अनुष्टुप्
अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया ।
2.6.83
अनुष्टुप्
भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥
2.6.50
अनुष्टुप्
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः ।
2.6.85
अनुष्टुप्
क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥
2.6.51
अनुष्टुप्
स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ।
2.6.87
अनुष्टुप्
शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका ॥ ५२ ॥
2.6.52
अनुष्टुप्
किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका ।
2.6.89
अनुष्टुप्
कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकस्त्रिषु ॥ ५३ ॥
2.6.53
अनुष्टुप्
व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् ।
2.6.91
अनुष्टुप्
कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४ ॥
2.6.54
अनुष्टुप्
आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका ।
2.6.93
अनुष्टुप्
प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥
2.6.55
अनुष्टुप्
व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः ।
2.6.95
अनुष्टुप्metre not read in every line
श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः ।
2.6.96
अनुष्टुप्metre not read in every line
अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥
2.6.56
अनुष्टुप्metre not read in every line
रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके ।
2.6.98
अनुष्टुप्
वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥
2.6.57
अनुष्टुप्
ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः ।आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥
2.6.58
अनुष्टुप्
दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः ।
2.6.101
अनुष्टुप्
वातकी वातरोगी स्यात्सातिसारोऽतिसारकी ॥ ५९ ॥
2.6.59
अनुष्टुप्
स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी ।
2.6.103
अनुष्टुप्
उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥ ६० ॥
2.6.60
अनुष्टुप्
न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ ।
2.6.105
अनुष्टुप्
किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ ॥ ६१ ॥
2.6.61
अनुष्टुप्
शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च ।
2.6.107
अनुष्टुप्
मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥
2.6.62
अनुष्टुप्
पिशितं तरसं मांसं पललं क्रव्यमामिषम् ।
2.6.109
अनुष्टुप्
उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ६३ ॥
2.6.63
अनुष्टुप्
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।
2.6.111
अनुष्टुप्
बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ॥ ६४ ॥
2.6.64
अनुष्टुप्
पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा ।
2.6.113
अनुष्टुप्
तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥
2.6.65
अनुष्टुप्
अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा ।स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ॥ ६६ ॥
2.6.66
अनुष्टुप्
सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् ।
2.6.116
अनुष्टुप्
नासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम् ।
2.6.117
अनुष्टुप्
मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ।
2.6.118
अनुष्टुप्
स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ॥
2.6.68
अनुष्टुप्
स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका ।
2.6.120
अनुष्टुप्