All kośas › Abhidhānaratnamālā (Halāyudha)
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)
889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)
भूमिकाण्डम् (4/4)
जानुः स्यादष्ठीवान् प्रसृता जङ्घा च घुण्टको गुल्फः ।ऊरुः सक्थि पिचण्डं जठरोदरतुन्दकुक्षिगर्भाः स्युः ॥ ५१५ ॥
2.515 · p. 59
गीतिः
अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥
2.516 · p. 59
गीतिः
रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते ।अवलग्नं विलग्नं च मध्यमं मध्यमुच्यते ॥ ५१७ ॥
2.517 · p. 59
अनुष्टुप्
मुण्डोत्तमाङ्गमस्तकमौलिशिरःशीर्षमूर्धकानि स्युः ।तुण्डं वदनं वक्त्रं लपनं मुखमास्यमाननं च समम् ॥ ५१८ ॥
2.518 · p. 59
गीतिः
दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि ।अश्रूणि वाष्परोदननयनजलाश्रास्रुनामानि ॥ ५१९ ॥
2.519 · p. 59
आर्या
नयनोपान्तमपाङ्गः कनीनिका नयनमध्यतारा च ।कूर्पं भ्रुवोश्च मध्यं सृक्व स्यादोष्ठपर्यन्तः ॥ ५२० ॥
2.520 · p. 59
आर्या
सिङ्घिनी नासिका नासा घ्राणं घोणा च कथ्यते ।रसज्ञा रसना जिह्वा तालु काकुदमुच्यते ॥ ५२१ ॥
2.521 · p. 60
अनुष्टुप्
दोः प्रवेष्टो भुजो बाहुर्भुजा च स्मर्यते बुधैः ।गण्डो गल्लः कपोलश्च हनुस्तुल्यार्थवाचकाः ॥ ५२२ ॥
2.522 · p. 60
अनुष्टुप्
मुष्कोऽण्डं वृषणः कोशः सङ्ग्राहो मुष्टिरुच्यते ।जत्रु वक्षोंऽसयोः सन्धिरूरुसन्धिश्च वङ्क्षणः ॥ ५२३ ॥
2.523 · p. 60
अनुष्टुप्
रोम तनूरुहमुक्तं नयनगतं पक्ष्म मुखगतं श्मश्रु ।अधरो दन्तच्छद ओष्ठ उच्यते दन्तवासश्च ॥ ५२४ ॥
2.524 · p. 60
आर्याmetre not read in every line
ओष्ठस्याधश्चिबुकं ललाटमलिकं भुजाग्रमंसं च ।कक्षां च बाहुमूलं घाटामवटुं कृकाटिकामाहुः ॥ ५२५ ॥
2.525 · p. 60
गीतिः
उरसिजकुचवक्षोरुहपयोधराः स्तनसमाननामानि ।उक्ताः कुचमुखचूचुकवृन्तानि शिखा च तुल्यानि ॥ ५२६ ॥
2.526 · p. 60
आर्या
भुजमध्यमुरो वक्षो हृदयस्थानं च वत्समिच्छन्ति ।एकार्थाः कथ्यन्ते दशनद्विजदन्तरदरदनाः ॥ ५२७ ॥
2.527 · p. 60
आर्या
क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ।पृष्ठं स्यात्पश्चिमो भागः कटौ च कटिशीर्षकौ ॥ ५२८ ॥
2.528 · p. 60
अनुष्टुप्
जीवस्थानं भवेन्मर्म पादाग्रं प्रपदं मतम् ।सीमन्तः कथ्यते स्त्रीणां केशमध्ये तु पद्धतिः ॥ ५२९ ॥
2.529 · p. 60
अनुष्टुप्
केशाः शिरसिजमूर्धजकचचिकुरशिरोरुहाः स्मृता वालाः ।तद्बन्धविशेषाः स्युर्वेणी धम्मिल्लकुन्तलकवर्यः ॥ ५३० ॥
2.530 · p. 60
गीतिः
हस्तः पक्षः पाशः केशेषु बहुत्ववाचकाः शब्दाः ।अलकं कुटिलाः केशा भ्रमरकमुक्तं ललाटस्थम् ॥ ५३१ ॥
2.531 · p. 61
आर्या
बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डिका ।पलितं पाण्डुराः केशा व्रतिनां तु जटा सटा ॥ ५३२ ॥
2.532 · p. 61
अनुष्टुप्
मणिबन्धः पाणिमूलं कफणिः कूर्परः स्मृतः ।तयोर्मध्यं प्रकोष्ठः स्यात्प्रकाण्डः कूर्परांसयोः ॥ ५३३ ॥
2.533 · p. 61
अनुष्टुप्
चेतश्चित्तं मनः स्वान्तं हृदयं मानसं समम् ।एकायनं तथैकाग्रमेकतानं च तद्गतम् ॥ ५३४ ॥
2.534 · p. 61
अनुष्टुप्
आधिस्तु मानसी पीडा वाञ्छितोऽर्थो मनोरथः ।खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥
2.535 · p. 61
अनुष्टुप्
मध्याङ्गुलीकूर्परयोर्मध्ये प्रामाणिकः करः ।बद्धमुष्टिकरो रत्निररत्निः सकनिष्ठिकः ॥ ५३६ ॥
2.536 · p. 61
अनुष्टुप्
सम्पिण्डिताङ्गुलिर्मुष्टिः प्रसृतिः कुञ्चिताङ्गुलिः ।प्रसारिताङ्गुलिः पाणिः कथ्यते प्रतलस्तलः ॥ ५३७ ॥
2.537 · p. 61
अनुष्टुप्
प्रादेशः स्यात्प्रदेशिन्या तालो मध्यमया भवेत् ।गोकर्णोऽनामया प्रोक्तो वितस्तिः स्यात्कनिष्ठया ॥ ५३८ ॥
2.538 · p. 61
अनुष्टुप्
आकल्पो मण्डनं वेषः प्रतिकर्म प्रसाधनम् ।भूषणं स्यादलङ्कारो नेपथ्याभरणे तथा ॥ ५३९ ॥
2.539 · p. 61
अनुष्टुप्
समालभनमिच्छन्ति चर्चां मार्ष्टिं च सूरयः ।स्थासकं हस्तविम्बं स्यात्परिष्कारश्च भूषणम् ॥ ५४० ॥
2.540 · p. 61
अनुष्टुप्
तिलकं तमालपत्त्रं चित्रकमुक्तं विशेषकः पुण्ड्रम् ।रचिता ललाटपट्टे ललाटिका कथ्यते रेखा ॥ ५४१ ॥
2.541 · p. 61
आर्या
भुजशिखरस्तनमण्डलकपोलकण्ठेषु विरचिता कुशलैः ।अनुलेपनेन लेखा निगद्यते पत्रवल्लीति ॥ ५४२ ॥
2.542 · p. 62
आर्या
कुङ्कुमं घुसृणं वर्णं प्रोक्तं लोहितचन्दनम् ।काश्मीरजं च विद्वद्भिः कालेयं जागुडं स्मृतम् ॥ ५४३ ॥
2.543 · p. 62
अनुष्टुप्
चन्दनं स्यान्मलयजं श्रीखण्डं रोहणद्रुमः ।मृगनाभिर्मृगमदः प्रोक्ता कस्तूरिका बुधैः ॥ ५४४ ॥
2.544 · p. 62
अनुष्टुप्
कर्पूरो घनसारः स्यात्काकतुण्डोऽगरुः स्मृतः ।ताम्बूलं क्रमुकं प्रोक्तमङ्गरागो विलेपनम् ॥ ५४५ ॥
2.545 · p. 62
अनुष्टुप्
उपसंव्यानं परिधानमन्तरीयं च निवसनं तुल्यम् ।प्रावरणं संव्यानं प्रच्छादनमुत्तरीयं च ॥ ५४६ ॥
2.546 · p. 62
आर्या
अर्धोरुकं वरस्त्रीणां वासश्चण्डातकं स्मृतम् ।परिधानांशुकग्रन्थिः प्रोक्ता नीवी तथोच्चयः ॥ ५४७ ॥
2.547 · p. 62
अनुष्टुप्
चेलं चीरं वासः कर्पटमाच्छादनं निवसनं च ।अम्बरमंशुकमुक्तं वस्त्रं सिचयः पटः पोटः ॥ ५४८ ॥
2.548 · p. 62
आर्या
चतुर्विधं तु विज्ञेयं त्वक्सूत्रकृमिरोमजम् ।पत्त्रोर्णं धौतकौशेयं दुकूलं क्षौममिष्यते ॥ ५४९ ॥
2.549 · p. 62
अनुष्टुप्
कार्पासं वादरं प्रोक्तं वस्त्रस्यान्तो मतोऽञ्चलः ।अहतं स्यान्नवं वासो जीर्णमुक्तं पटच्चरम् ॥ ५५० ॥
2.550 · p. 62
अनुष्टुप्
धौतमुद्गमनीयं च वर्तिर्वस्तिर्दशाः सिचः ।एकार्था आविकौरभ्ररल्लकोर्णायुकम्बलाः ॥ ५५१ ॥
2.551 · p. 62
अनुष्टुप्
कञ्चुको वारवाणः स्यात्कूर्पासश्च निचोलकः ।स्रग्माला माल्यमाख्यातं केशमध्ये तु गर्भकः ॥ ५५२ ॥
2.552 · p. 63
अनुष्टुप्
प्रभ्रष्टकं शिखालम्बि पुरो न्यस्तं ललामकम् ।तिर्यग्वक्षसि विक्षिप्तं वैकक्षकमुदाहृतम् ॥ ५५३ ॥
2.553 · p. 63
अनुष्टुप्
ग्रीवायां लम्बितं प्राज्ञैः प्रालम्बकमिति स्मृतम् ।आपीडः शेखरोत्तंसावतंसाः शिरसि स्रजः ।कर्णपूरेऽपि दृश्येते तथोत्तंसावतंसकौ ॥ ५५४ ॥
2.554 · p. 63
अनुष्टुप्
जतुयावकलाक्षाऽलक्तकाः समाः सिक्थकं मधूच्छिष्टम् ।कज्जलमञ्जनमभिहितमादर्शो दर्पणो मुकुरः ॥ ५५५ ॥
2.555 · p. 63
आर्या
ताडङ्कस्ताडपत्त्रं स्यात्कुण्डलं कर्णवेष्टनम् ।कर्णालङ्करणं सर्वं कर्णिकेत्यभिधीयते ॥ ५५६ ॥
2.556 · p. 63
अनुष्टुप्
केयूरमङ्गदं प्रोक्तं बाहुमूलविभूषणम् ।आवापः परिहार्यः स्यात्कटको वलयं तथा ॥ ५५७ ॥
2.557 · p. 63
अनुष्टुप्
कङ्कणं हस्तसूत्रं च विदुः प्रतिसरं बुधाः ।ग्रीवालङ्करणं सर्वं ग्रैवेयकमितीष्यते ॥ ५५८ ॥
2.558 · p. 63
अनुष्टुप्
अङ्गुल्याभरणं प्रोक्तमङ्गुलीयकमूर्मिका ।कथ्यतेऽङ्गुलिमुद्रा च भवेद्या लिखिताक्षरा ॥ ५५९ ॥
2.559 · p. 63
अनुष्टुप्
कलापः सप्तकी काञ्ची मेखला रसना तथा ।कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५६० ॥
2.560 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
सिञ्जिनी पादकटकस्तुलाकोटिस्तु नूपुरम् ।मञ्जीरं हंसकं स्त्रीणां चरणाभरणं स्मृतम् ॥ ५६१ ॥
2.561 · p. 63
अनुष्टुप्
देवच्छन्दः शतयष्टिरर्धो माणवकः स्मृतः ।हारो गुच्छार्धगुच्छौ च गोपुच्छश्च भवेत्क्रमात् ॥ ५६२ ॥
2.562 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
एकावल्येकयष्टिः स्यात्कथ्यते सा च कण्ठिका ।प्रोक्ता नक्षत्रमाला च सप्तविंशतिमौक्तिका ॥ ५६३ ॥
2.563 · p. 64
अनुष्टुप्
हारामध्यस्थितं रत्नं नायकं तरलं विदुः ।चूडामणिं च विद्वांसो वदन्ति शिरसि स्थितम् ॥ ५६४ ॥
2.564 · p. 64
अनुष्टुप्
आहुः किरीटमुष्णीषं कोटीरं मुकुटं समम् ।राढा शोभा विभूषा स्यादभिख्या सुषमा समाः ॥ ५६५ ॥
2.565 · p. 64
अनुष्टुप्
निभालनं निशामनं निध्यानमवलोकनम् ।ईक्षणं दर्शनं दृष्टिर्द्योतनं च समं स्मृतम् ॥ ५६६ ॥
2.566 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 म (wrong syllable)
कटाक्षो दृष्टिविक्षेप ईषच्च हसितं स्मितम् ।ह्रीर्लज्जापत्रपा व्रीडा त्रपा मन्दाक्षमुच्यते ॥ ५६७ ॥
2.567 · p. 64
अनुष्टुप्
आलिङ्गनमुपगूहनमाहुः परिरम्भणं परिष्वङ्गम् ।आश्लेषमङ्कपालीं क्रोडीकरणं च तुल्यार्थम् ॥ ५६८ ॥
2.568 · p. 64
आर्या
संवेशनं निधुवनं सम्प्रयोगो रहो रतिः ।सुरतं मोहनं प्रोक्तं मणितं रतकूजितम् ॥ ५६९ ॥
2.569 · p. 64
अनुष्टुप्
आर्या भूमिस्पृशो वैश्या ऊख्याश्च विशः स्मृताः ।जीवनं वृत्तिराजीवो वार्त्ता चेति निगद्यते ॥ ५७० ॥
2.570 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पण्याजीवा वणिजः प्रापणिका नैगमाश्च वैदेहाः ।द्वैगुणिको वार्धुषिको वृद्ध्याजीवः कुसीदिकः प्रोक्तः ॥ ५७१ ॥
2.571 · p. 64
गीतिः
अपमित्यकमुद्धार ऋणं स्यात्पर्युदञ्चनम् ।वृद्धिः कलान्तरं प्रोक्तं कुसीदं वृद्धिजीवनम् ॥ ५७२ ॥
2.572 · p. 65
अनुष्टुप्
परिवृत्तिर्विनिमयो वैमेयश्च निगद्यते ।प्रक्रयः कॢप्तिक प्रोक्तं भाटकोऽवक्रयः स्मृतः ॥ ५७३ ॥
2.573 · p. 65
अनुष्टुप्
क्षेत्राजीवः कृषिकः कृषीवलः कर्षकः कुटुम्बी च ।सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥
2.574 · p. 65
आर्या
हलं स्याल्लाङ्गलं सीरः फालः कुशिक उच्यते ।योक्त्रं तु रश्मिराबन्धः शम्या च युगकीलकः ॥ ५७५ ॥
2.575 · p. 65
अनुष्टुप्
कथितो लोष्टको लोष्टः कोटीशं लोष्टभेदनम् ।शम्बाकृतं द्विसीत्यं स्यात्सीता लाङ्गलपद्धतिः ॥ ५७६ ॥
2.576 · p. 65
अनुष्टुप्
गोदारणं च कुद्दालं लवित्रं दात्रमुच्यते ।प्रतोदः प्राजनं तोत्रं लूनं दातमिति स्मृतम् ॥ ५७७ ॥
2.577 · p. 65
अनुष्टुप्
खलेवाली भवेन्मेठिः खलधान्यं खलं स्मृतम् ।बुशः कडङ्गरः प्रोक्तः कणः स्यात्क्षुद्रतण्डुलः ॥ ५७८ ॥
2.578 · p. 65
अनुष्टुप्
धान्यशूकं च किंशारुः कणिशं धान्यशीर्षकम् ।नालं काण्डं क्षुपो गुच्छो व्रीहिः स्तम्बकरिः स्मृतः ॥ ५७९ ॥
2.579 · p. 65
अनुष्टुप्
रक्तशालिर्महाशालिः कलमाश्चेति शालयः ।उद्दालः कथितः प्राज्ञैः कोद्रवः कोरदूषकः ॥ ५८० ॥
2.580 · p. 65
अनुष्टुप्
मङ्गल्यको मसूरः स्यात्सिद्धार्थः सर्षपः स्मृतः ।आसुरी राजिका चेति कथ्यते राजसर्षपः ॥ ५८१ ॥
2.581 · p. 66
अनुष्टुप्
प्रियङ्गुः कथ्यते कङ्गुरतसी स्यादुमा क्षुमा ।कलायः खण्डिको ज्ञेयः सातीनश्च मनीषिभिः ॥ ५८२ ॥
2.582 · p. 66
अनुष्टुप्
जर्तिलः कथ्यते सद्भिररण्यप्रभवस्तिलः ।तिलपिञ्जस्तिलपेजस्तथा षण्ढतिलः स्मृतः ॥ ५८३ ॥
2.583 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
तृणधान्यं तु नीवारः श्यामाकः श्यामको भवेत् ।वल्ला निष्पावकाः प्रोक्ता आढकी तुवरी स्मृता ॥ ५८४ ॥
2.584 · p. 66
अनुष्टुप्
भृष्टं धान्यं लाजाः पृथुकाश्चिपिटाश्च कुट्टितास्ते स्युः ।भृष्टा यवास्तु धाना दरपक्वा कथ्यतेऽभ्यूषः ॥ ५८५ ॥
2.585 · p. 66
आर्या
शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जश्च कथ्यते ।लेखकः स्याल्लिपिकरः कायस्थोऽक्षरजीवकः ॥ ५८६ ॥
2.586 · p. 66
अनुष्टुप्
आभीरः स्यान्महाशूद्रो गोपालो वल्लवस्तथा ।त्वष्टा च काष्ठतट् तक्षा रथकारश्च वर्धकिः ॥ ५८७ ॥
2.587 · p. 66
अनुष्टुप्
नाडिन्धमः कलादः सुवर्णकारश्च मुष्टिको ज्ञेयः ।वैकटिको मणिकारो ध्माकारो लोहकारः स्यात् ॥ ५८८ ॥
2.588 · p. 66
आर्या
क्षुरमर्दी दिवाकीर्तिश्चण्डिलो नापितः स्मृतः ।मालाकारस्तु विज्ञेयो मालिकः प्रातिहारिकः ॥ ५८९ ॥
2.589 · p. 66
अनुष्टुप्
कुम्भकारः कुलालः स्यात्तन्तुवायः कुविन्दकः ।संवाहकोऽङ्गमर्दी स्यात्तुन्नवायश्च सौचिकः ॥ ५९० ॥
2.590 · p. 66
अनुष्टुप्
लेपकः पलगण्डः स्याद्रङ्गाजीवस्तु चित्रकृत् ।कर्म लेप्यादिकं सर्वं पुस्तकर्म स्मृतं बुधैः ॥ ५९१ ॥
2.591 · p. 67
अनुष्टुप्
शैलाली शैलूषः कुशीलवश्चारणः कृशाश्वी च ।जायाजीवो भरतो नटस्तथा स्यान्नटी क्षुद्रा ॥ ५९२ ॥
2.592 · p. 67
metre not recognised
शिल्पिनः कारवः प्रोक्ताः प्रकृतिश्च मनीषिभिः ।निर्णेजकः स्याद्रजकः कल्पपालस्तु शौण्डिकः ॥ ५९३ ॥
2.593 · p. 67
अनुष्टुप्
कैवर्तो धीवरो दासो मत्स्यबन्धी तु जालिकः ।आनायः कथ्यते जालं कुवेणी मत्स्यबन्धनी ॥ ५९४ ॥
2.594 · p. 67
अनुष्टुप्
वैतंसिकः सौनिकः स्यात्कौटिको मांसविक्रयी ।सूना स्याद्घातनस्थानं कृपाणीली च कर्तरी ॥ ५९५ ॥
2.595 · p. 67
अनुष्टुप्
चर्मकृत्पादुकाकारो नद्ध्री वद्ध्री च कथ्यते ।मृगयुर्लुब्धको व्याधो बुधैर्वागुरिकः स्मृतः ॥ ५९६ ॥
2.596 · p. 67
अनुष्टुप्
शुल्वा रज्जुर्वराटश्च वटस्तन्त्रीर्गुणः स्मृतः ।पाशः स्याद्बन्धनग्रन्थिर्वागुरा मृगजालिका ॥ ५९७ ॥
2.597 · p. 67
अनुष्टुप्
अन्तावसायी चण्डालो निषादश्च जनङ्गमः ।श्वपचः पक्वशश्चैव मातङ्गः प्लवकः स्मृतः ॥ ५९८ ॥
2.598 · p. 67
अनुष्टुप्
किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः ।माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥
2.599 · p. 67
अनुष्टुप्
रोगो रुक् व्याधिराकल्यं गदो मान्द्यमपाटवम् ।आम आमय आतङ्क उपतापो रुजा स्मृता ॥ ६०० ॥
2.600 · p. 67
अनुष्टुप्
क्षवथुः कथ्यते कासो वेपथुः कम्प उच्यते ।दवथुः परितापः स्याद् ग्लानिश्च क्लमथुः स्मृतः ॥ ६०१ ॥
2.601 · p. 68
अनुष्टुप्
राजयक्ष्मा क्षयः शोषः शोफः श्वयथुरिष्यते ।किलासं कथ्यते सिध्म पामा कच्छूः खसः स्मृतः ॥ ६०२ ॥
2.602 · p. 68
अनुष्टुप्
कण्डूतिः कण्डूया कण्डूः कण्डूयनं तथा खर्जूः ।जागर्या जागरणं प्रजागरो जागरा च विज्ञेया ॥ ६०३ ॥
2.603 · p. 68
गीतिः
पिटकः स्फोटको गण्डः श्वित्रं कुष्ठं च पाण्डुरम् ।श्लीपदं पादवल्मीकः पृष्ठग्रन्थिर्गडुः स्मृतः ॥ ६०४ ॥
2.604 · p. 68
अनुष्टुप्
केशघ्नमिन्द्रलुप्तं स्यादर्शश्च गुदकीलकः ।मायुः पित्तः कफः श्लेष्मा प्रतिश्यायश्च पीनसः ॥ ६०५ ॥
2.605 · p. 68
अनुष्टुप्
वातकी वातरोगी स्यात्सातिसारोऽतिसारकी ।सिध्मश्लेष्मार्शसंयोगात्सिध्मलः श्लेष्मलोऽर्शसः ॥ ६०६ ॥
2.606 · p. 68
अनुष्टुप्
दद्रुणो दद्रुरोगी स्यान्नःक्षुद्रः क्षुद्रनासिकः ।क्लिन्ने यस्याक्षिणी पिल्लश्चिल्लश्चुल्लश्च स स्मृतः ॥ ६०७ ॥
2.607 · p. 68
अनुष्टुप्
पिचण्डिलो वृहत्कुक्षिस्तुन्दिलोदरिलौ च सः ।खलतिः शिपिविष्टः स्यादैन्द्रलुप्तिक एव च ॥ ६०८ ॥
2.608 · p. 68
अनुष्टुप्
अन्धो ह्यनेडमूकः स्यादेडो वधिर उच्यते ।जडः कडः स्मृतो मूकः कल्लमूकस्त्ववाक्श्रुतिः ॥ ६०९ ॥
2.609 · p. 68
अनुष्टुप्
खञ्जः पङ्गुस्तथा श्रोणः कुणिर्विकलपाणिकः ।तुण्डिरुन्नतनाभिः स्याद्विग्रो विगतनासिकः ॥ ६१० ॥
2.610 · p. 68
अनुष्टुप्
गडुलः कथ्यते कुब्जः खर्वशाखस्तु वामनः ।पृश्निः स्वल्पशरीरः स्यात्किरातः स च कथ्यते ॥ ६११ ॥
2.611 · p. 69
अनुष्टुप्
आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः ।उपचर्या चिकित्सा स्यान्निदानं हेतुरुच्यते ॥ ६१२ ॥
2.612 · p. 69
अनुष्टुप्
जाङ्गुलिको विषभिषक् व्यालग्राह्याहितुण्डिकः ।भैषज्यं भेषजं जायुरगदस्तन्त्रमौषधम् ॥ ६१३ ॥
2.613 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
सिन्धूत्थं माणिमन्थं च सैन्धवं लवणोत्तमम् ।कृष्णोपकुल्या वैदेही मागधी पिप्पली कणा ॥ ६१४ ॥
2.614 · p. 69
अनुष्टुप्
शुण्ठी नागरमुक्ता महौषधं विश्वभेषजं विश्वा ।मधुकं यष्टिमधु स्यादमृता वत्सादनी गुडूची च ॥ ६१५ ॥
2.615 · p. 69
गीतिः
आर्द्रकं शृङ्गवेरं स्यादजाजी जीरकः स्मृतः ।वेल्लजं मरिचं प्रोक्तमूषणं च मनीषिभिः ॥ ६१६ ॥
2.616 · p. 69
अनुष्टुप्
सौवर्चलस्तु रुचकः कुस्तुम्बुरु च धान्यकम् ।त्रिकटु त्र्यूषणं व्योषं हिङ्गु रामठ उच्यते ॥ ६१७ ॥
2.617 · p. 69
अनुष्टुप्
हरीतक्यभया पथ्या धात्री चामलकी शिवा ।कलिरक्षो विभीतः स्यात्त्रितयं त्रिफला स्मृता ॥ ६१८ ॥
2.618 · p. 69
अनुष्टुप्
एडगजः प्रपुनाटो दद्रुघ्नश्चक्रमर्दकः प्रोक्तः ।शतमूलिका त्वभीरुर्निदिग्धिका कण्टकारिका व्याघ्री ॥ ६१९ ॥
2.619 · p. 69
गीतिः
पुराख्यो महिषाक्षश्च गुग्गुलः स्यात्पलङ्कषः ।महारजनमिच्छन्ति कुसुम्भं च सुमेधसः ॥ ६२० ॥
2.620 · p. 70
अनुष्टुप्
हिङ्गुलं हंसपादं च कुरुविन्दं निगद्यते ।सारघं माक्षिकं क्षौद्रं मधु पुष्परसस्तथा ॥ ६२१ ॥
2.621 · p. 70
अनुष्टुप्
उशीरं वीरणीमूलं ह्रीवेरं वालकं जलम् ।मुस्तकः कुरुविन्दः स्याद् गुन्द्रा च जलदाह्वयः ॥ ६२२ ॥
2.622 · p. 70
अनुष्टुप्