कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

मर्त्यविभागः (3/13)

* दण्डितनामानि *

दण्डं प्राप्तो दण्डितः स्याद् दापितः साधितस्तथा ॥ ६७७ ॥
4.677 · p. 91
अनुष्टुप्

* पूज्यनाम *

अर्च्यस्तथा प्रतीक्ष्योऽपि द्वयं स्यात् पूज्यवाचकः ।
4.242 · p. 91
अनुष्टुप्metre not read in every line

* पूजितनामानि *

अञ्चितोऽपचितोऽर्चितस्तथाऽपचायितोऽर्हितः ॥ ६७८ ॥
4.678 · p. 91
अनुष्टुप्metre not read in every line
नमसितो नमस्यितः पूजितश्चेति पूजितः ।
4.244 · p. 91
अनुष्टुप्metre not read in every line

* पूजानामानि *

अर्चाऽर्हणा सपर्या स्यात् पूजा चाऽपचितिस्तथा ॥ ६७९ ॥
4.679 · p. 91
अनुष्टुप्metre not read in every line

* उपहारनाम*

उपहारो बलिश्चाथ बलिदाने भवेद्द्वयम् ।
4.246 · p. 92
अनुष्टुप्

* विह्वलनाम *

भयभीतो जनः ख्यातो विक्लवो विह्वलस्तथा ॥ ६८० ॥
4.680 · p. 92
अनुष्टुप्

* स्थूलनामानि *

स्थूलः पीवा च पीनश्च पीवरः स्यात् तथैव च ।
4.248 · p. 92
अनुष्टुप्

* चक्षुष्यनाम *

चक्षुष्यः सुभगो नाम सुन्दरस्य च वस्तुनः ॥ ६८१ ॥
4.681 · p. 92
अनुष्टुप्

* द्वेष्यनाम *

अक्षिगतस्तथा द्वेष्यो द्वेष्ये वस्तुनि कथ्यते ।
4.250 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)

* पुष्टनामानि *

अंसलश्चापि निर्दिग्धो मांसलो बलवान् बली ॥ ६८२ ॥
4.682 · p. 92
अनुष्टुप्metre not read in every line
उपचितोऽपि सर्वत्र कथ्यते पुष्टवाचकः ।
4.252 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)

* दुर्बलनामानि *

अमांसो दुर्बलः क्षामः कृशः क्षोणस्तनुस्तथा ॥ ६८३ ॥
4.683 · p. 92
अनुष्टुप्metre not read in every line
तलिनः पेलवश्छातश्चेति दुर्बलवाचकाः ।
4.254 · p. 92
अनुष्टुप्

* तुन्दिलनामानि *

पिचिण्डिलो बृहत्कुक्षिस्तुन्दी तुन्दिकतुन्दिलौ ॥ ६८४ ॥
4.684 · p. 92
अनुष्टुप्
उदरी तुन्दिभश्चोदरिकः उदरिलस्तथा ।
4.256 · p. 93
अनुष्टुप्

* अनासिकनामानि *

अनासिकश्च विग्रश्च विख्रश्च विखुरित्यपि ॥ ६८५ ॥
4.685 · p. 93
अनुष्टुप्

* चिपिटनासिकस्य नामानि *

अवनाटोऽवटीटश्चाऽवभ्रटो नतनासिके ।चिपिटो नम्रनासिकश्चेति चिपिटनासिके ॥ ६८६ ॥
4.686 · p. 93
अनुष्टुप्metre not read in every line

* तीक्ष्णनासिकस्य नाम *

स्यात् तीक्ष्णनासिकावान् वै खरणाश्च खरणसः ।
4.259 · p. 93
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 र (wrong syllable); pāda 3, syllable 4 घु (wrong syllable)

* लघुनासिकस्य नाम *

तथा लघुनासिकावान् नःक्षुद्रः क्षुद्रनासिकः ॥ ६८७ ॥
4.687 · p. 93
metre not recognised
कथ्यते विकटघोरणः खुरणाश्च खुरणसः ।उन्नस उन्नासिकोऽपि कथ्यते उच्चनासिके ॥ ६८८ ॥
4.688 · p. 93
metre not recognised

* पङ्गुनामानि *

पङ्गुः श्रोणः पंगुलश्च पीठसर्पी तथैव च ।
4.262 · p. 93
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त (wrong syllable)

* खल्वाटनामानि *

खलतिश्चापि खल्वाटः खलत ऐन्द्रलुप्तिकः ॥ ६८९ ॥
4.689 · p. 93
metre not recognised
वभ्रुश्च शिपिविष्टश्च कथ्यते पण्डितैरिह ।
4.264 · p. 93
अनुष्टुप्

* काणस्य नामानि *

एकाक्षः कननः काण एकदृक् चापि कथ्यते ॥ ६९० ॥
4.690 · p. 93
अनुष्टुप्

* किरातनामानि *

अल्पतनुश्च पृश्निः स्यात् किरातो लधुदेहवान् ।
4.266 · p. 94
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable); pāda 3, syllable 7 न्यु (wrong syllable)

* कुब्जनामानि *

कुब्जश्च गडुलो न्युजस्त्रीणि नामानि सन्ति वै ॥ ६९१ ॥
4.691 · p. 94
metre not recognised

* कुणिनाम *

कुणिस्तु कुकरश्चापि कथ्यते कुणिनामनि ।
4.268 · p. 94
अनुष्टुप्

* वामननामानि *

खर्वश्च खर्वशाखश्च निखर्वः खट्टनस्तथा ॥ ६९२ ॥
4.692 · p. 94
अनुष्टुप्
ह्रस्वश्च वामनश्चेति कथ्यते ह्रस्वबोधने ।
4.270 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ति (wrong syllable)

* बधिरनामानि *

एडोऽकर्णश्च बधिरः श्रुतिविकल इत्यपि ॥ ६९३ ॥
4.693 · p. 94
अनुष्टुप्metre not read in every line

* दुश्चर्मनामानि *

वण्डश्च शिपिविष्टः स्याद् दुश्चर्मा च द्विनग्नकः ।
4.272 · p. 94
अनुष्टुप्

* खञ्जनामानि *

खञ्जश्च खञ्जकः खोरः खोडश्चेत्यपि कथ्यते ॥ ६९४ ॥
4.694 · p. 94
अनुष्टुप्

* विकलाङ्गनाम *

पोगण्डो हीनदेहोऽस्ति विकलाङ्गोऽपि स भवेत् ।
4.274 · p. 94
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 स (wrong syllable); pāda 4, syllable 3 ज्ञु (wrong syllable)

* ऊर्ध्वजानुकनामानि *

ऊर्ध्वज्ञः पुरुषो ज्ञेय उर्ध्वज्ञुरूर्ध्वजानुकः ॥ ६९५ ॥
4.695 · p. 95
metre not recognised

* विरलजानुकनामानि *

विरलजानुकः प्रज्ञः प्रज्ञुश्चेत्यपि मन्यताम् ।
4.276 · p. 95
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)

* युतजानुनामानि *

संज्ञुः संज्ञः श्लिष्टजानुर्युतजानुश्च कथ्यते ॥ ६९६ ॥
4.696 · p. 95
metre not recognised

* वलिननाम *

वलिनो वलिभः कोऽपि दग्धचर्मा जनो भवेत् ।
4.278 · p. 95
अनुष्टुप्

* दन्तुरनाम *

उदग्रदन् दन्तुरः स्याद् यस्य दन्ताः बहिः स्थिताः ॥ ६९७ ॥
4.697 · p. 95
अनुष्टुप्

* मुष्करनाम *

मुष्करश्च प्रलम्बाण्डो जनो लम्बाण्ड उच्यते ।
4.280 · p. 95
अनुष्टुप्

* अन्धनामानि *

गताक्षोऽनेडमूकोऽन्धश्चक्षुर्विकल उच्यते ॥ ६९८ ॥
4.698 · p. 95
अनुष्टुप्

* उन्मुखनाम *

उत्पश्यः कथ्यते सोऽत्र यस्तिष्ठेदुन्मुखः सदा ।
4.282 · p. 95
अनुष्टुप्

* अधोमुखनामानि *

अवाङ् न्युब्जश्च विज्ञेयः सर्वत्राऽधोमुखो जनः ॥ ६९९ ॥
4.699 · p. 95
अनुष्टुप्

* मुण्डनाम *

मुण्डश्च मुण्डितो नाम केशरहित उच्यते ।
4.284 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 श (wrong syllable)

* केशिकनामानि *

केशवः केशिकः केशी केशवान् कथ्यते जनः ॥ ७०० ॥
4.700 · p. 96
अनुष्टुप्metre not read in every line

* केकरनाम *

केकरो वलिरश्चेति प्रोक्तो वक्राक्षिवान् जनः ।
4.286 · p. 96
अनुष्टुप्

* तुण्डिभनामानि *

तुण्डिलो वृद्धनाभिश्च तुण्डिभः स्यात् पृथूदरः ॥ ७०१ ॥
4.701 · p. 96
अनुष्टुप्

* रोगिणो नामानि *

आतुरो रोगितो ग्लानो व्याधितोऽभ्यमितोऽपटुः ।विकृत आमयावी स्यादभ्यान्तो ग्लास्नुरेव च ॥ ७०२ ॥
4.702 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
दर्द्रुरोगी तु दर्द्रुणो दद्रुरोगी च दद्रुणः ।पामनः पामरश्चापि कच्छुरश्चर्मरोगवान् ॥ ७०३ ॥
4.703 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्द्रु (wrong syllable)
सातिसारस्तथैवाऽतीसारकी चातिसारकी ।वातकी वातरोगी स्यात् श्लेष्मणः श्लेष्मलः कफी ॥ ७०४ ॥
4.704 · p. 96
अनुष्टुप्
चिल्लश्च चुल्लश्च पिल्लश्च क्लिन्ननेत्रोऽक्षिरोगवान् ।अर्शसो गुदरोगी स्यादर्शोयुक् चापि कथ्यते ॥ ७०५ ॥
4.705 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मूर्च्छालो मूर्च्छितो मूर्त्तः विसंज्ञः कथ्यते जनः ।किलासी सिध्मलश्चापि जनः स्याच्छ्वेतकुष्ठवान् ॥ ७०६ ॥
4.706 · p. 96
अनुष्टुप्

* पित्तनामानि *

पित्तं तथा पलाग्निश्च मायुश्च पललज्वरः ।तथाऽग्निरेचकश्चेति पित्तनामानि कथ्यते ॥ ७०७ ॥
4.707 · p. 97
अनुष्टुप्

* कफनामानि *

कफस्तथा बलाशश्च श्लेष्मा खेटस्तथा खटः ।शिङ्घानकस्तथा स्नेहभूश्चेति कफनामकाः ॥ ७०८ ॥
4.708 · p. 97
अनुष्टुप्

* रोगनामानि *

रुगाऽऽतङ्को रुजा रोगो व्याधिरपाटवं तथा ।आम आमय आकल्यं मान्द्यं तथाऽऽमनं गदः ॥ ७०९ ॥
4.709 · p. 97
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
उपतापस्तथैवास्ति रोगनामनिरूपणे ।
4.296 · p. 97
अनुष्टुप्

* क्षयरोगनामानि *

राजयक्ष्मा क्षयः शोषो यक्ष्मा चापि निगद्यते ॥ ७१० ॥
4.710 · p. 97
अनुष्टुप्

* क्षुतस्य नामानि *

क्षुत् क्षुतञ्च क्षवश्चापि छिक्का देश्या च मन्यताम् ।
4.298 · p. 97
अनुष्टुप्

* कासनाम *

कासो विशेषः प्रख्यातः स एव क्षवथुर्भवेत् ॥ ७११ ॥
4.711 · p. 97
अनुष्टुप्

* खसनामानि *

पामा पामा खसः कच्छूर्विचार्चिकाऽपि कथ्यते ।
4.300 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्चि (wrong syllable)

* कण्डूनामानि *

कण्डूः खर्जूश्च खर्जूतिः कण्डूतिश्च पुनर्भवेत् ॥ ७१२ ॥
4.712 · p. 98
अनुष्टुप्metre not read in every line
कण्डूयनं च कण्डूया गात्रकण्डूयने स्मृताः ।
4.302 · p. 98
अनुष्टुप्

* व्रणनामानि *

ईर्मं क्षतं व्रणश्चारुः क्षणनुश्चापि कथ्यते ॥ ७१३ ॥
4.713 · p. 98
अनुष्टुप्
व्रणचिह्नं किणः प्रोक्तमस्त्रशस्त्रादिकस्य च ।
4.304 · p. 98
अनुष्टुप्

* श्लीपदरोगनाम *

श्लीपदं पादवल्मीकं पादरोगस्य नाम वै ॥ ७१४ ॥
4.714 · p. 98
अनुष्टुप्

* पादस्फोटनाम *

शीतादिना समुत्पन्नः पादस्फोटो विपादिका ।
4.306 · p. 98
अनुष्टुप्

* स्फोटकनाम *

विस्फोटः स्फोटको गण्डः पिटकश्चापि कथ्यते ॥ ७१५ ॥
4.715 · p. 98
अनुष्टुप्

* पृष्ठग्रन्थिनाम *

पृष्ठग्रन्थिर्गडुः प्रोक्तः पृष्ठग्रन्थिकमित्यपि ।
4.308 · p. 98
अनुष्टुप्

* कुष्ठनामानि *

श्वेतं श्वित्रं तथा कुष्ठं पाण्डुरं चेति कुष्ठकम् ॥ ७१६ ॥
4.716 · p. 99
अनुष्टुप्

* केशघ्ननाम *

वातरोगविशेषः स्यात् केशघ्नं चेन्द्रलुप्तकम् ।
4.310 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध्म (wrong syllable)

* किलासनामानि *

किलासं सिध्म त्वक्पुष्पं सिध्मं रोगस्तु चर्मणः ॥ ७१७ ॥
4.717 · p. 99
अनुष्टुप्metre not read in every line

* कोठनामानि *

मण्डलं रोगभेदः स्यात् कोठो मण्डलकं तथा ।
4.312 · p. 99
अनुष्टुप्

* गण्डमालनाम *

गलगण्डो गण्डमालः कण्ठरोगः सदोच्यते ॥ ७१८ ॥
4.718 · p. 99
अनुष्टुप्

* गलाङ्कुरनाम *

गलरोगो रोहिणी स्याद् गलाङ्कुरश्च कथ्यते ।
4.314 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्कु (wrong syllable)

* हिक्कानामानि *

हेक्का हिक्का च हृल्लासो रोगभेद उदाहृतः ॥ ७१९ ॥
4.719 · p. 99
अनुष्टुप्metre not read in every line

* पीनसनाम *

नासिकारोगभेदस्तु प्रतिश्यायश्च पीनसः ।
4.316 · p. 99
अनुष्टुप्

* शोफनामानि*

शोफश्च श्वयथुः शोथः शरीरं यत्र फुल्लति ॥ ७२० ॥
4.720 · p. 100
अनुष्टुप्

* अर्शनामानि *

अर्शः स्याच्च दुर्नामा गुदकोलो गुदाङ्कुरः ।
4.318 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 अ (syllables merged)

* वमननामानि *

नाम प्रच्छर्दिका छर्दिर्वमनं वमथुर्वमिः ॥ ७२१ ॥
4.721 · p. 100
अनुष्टुप्metre not read in every line

* उदररोगनाम *

गुल्मः स्यादुदरग्रन्थिरुदावर्तो गुदग्रहः ।नाडीव्रणो गतिर्वृद्धिः कुरण्डश्चाण्डवर्धनम् ॥ ७२२ ॥
4.722 · p. 100
अनुष्टुप्

* अश्मरीनाम *

अश्मरी मूत्रकृच्छञ्च मूत्राशये च जायते ।
4.321 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)

* प्रमेहनामानि *

मेहस्तथा प्रमेहश्च कथ्यते बहुमूत्रता ॥ ७२३ ॥
4.723 · p. 100
अनुष्टुप्metre not read in every line

* विबन्धनाम *

आनाहश्च विबन्धः स्यात् पुरीषमूत्ररोधने ।
4.323 · p. 100
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable); pāda 3, syllable 3 पु (wrong syllable)

* ग्रहणीरुक् नाम *

अतिपुरीषकारी च ग्रहणीरुक् प्रवाहिका ॥ ७२४ ॥
4.724 · p. 101
metre not recognised
विद्रधिस्तु भगन्दरोऽर्बुदश्चापि ज्वरादयः ।अनेकव्याधयो लोके वर्तन्ते दुःखदायकाः ॥ ७२५ ॥
4.725 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्द (wrong syllable)

* वैद्यस्य नामानि *

भिषग्वैद्यस्तु दोषज्ञः आयुर्वेदी चिकित्सकः ।आयुर्वेदिको नामैव रोगहारी भवेज्जनः ॥ ७२६ ॥
4.726 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
अगदङ्कारनामाऽपि लोकेषु कथ्यते जनैः ।
4.327 · p. 101
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable); pāda 3, syllable 3 ध (wrong syllable)

* औषधनामानि *

औषधमगदस्तन्त्रं भैषज्यं चापि भेषजम् ॥ ७२७ ॥
4.727 · p. 101
metre not recognised
तथा जायुश्च नामेदं भेषजस्यैव मन्यते ।
4.329 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 दुप (syllable split)

* चिकित्सानामानि *

उपचारश्चिकित्सा स्यादुपचर्या रुक्प्रतिक्रिया ॥ ७२८ ॥
4.728 · p. 101
अनुष्टुप्metre not read in every line

* लङ्घननाम *

भोजनादिपरित्यागो लङ्घनमपतर्पणम् ।
4.331 · p. 101
metre not recognised

* विषवैद्यनामानि *

जाङ्गुलिको विषवैद्यो विषभिषक् च कथ्यते ॥ ७२९ ॥
4.729 · p. 101
metre not recognised

* स्वास्थ्यनामानि *

स्वास्थ्यं सह्यं तथाऽऽरोग्यं वार्तं स्याच्चाप्यनामयम् ।
4.333 · p. 102
अनुष्टुप्

* नीरुक् नामानि *

पटुर्वार्त स्तथोल्लाघः कल्यो नीरुक् निगद्यते ॥ ७३० ॥
4.730 · p. 102
अनुष्टुप्

* पार्श्वकनाम *

उत्कोचे विभवाऽन्वेषी पार्श्वकः सन्धिजीवकः ।
4.335 · p. 102
अनुष्टुप्

* कूकुदनामानि *

सत्कृत्याऽलङ्कृतां कन्यां यो ददाति स कूकुदः ॥ ७३१ ॥
4.731 · p. 102
अनुष्टुप्
स एव कूपदः प्रोक्तः पारिमितश्च प्रायशः ।
4.337 · p. 102
metre not recognised

* चपलनाम *

चपलश्चिकुरश्चेति नामाऽपि कथ्यते जनैः ॥ ७३२ ॥
4.732 · p. 102
metre not recognised

* नीलीरागनामानि *

नीलीरागः स्थिरप्रेमा तथा स्यात् स्थिरसौहृदः ।
4.339 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)

* हरिद्रारागनाम *

हरिद्राराग इत्युक्तः क्षणिकरागवान् किल ॥ ७३३ ॥
4.733 · p. 102
अनुष्टुप्metre not read in every line

* मेदुरनाम *

अतिस्नेहेन संयुक्तः सान्द्रस्निग्धश्च मेदुरः ।
4.341 · p. 102
अनुष्टुप्

* गेहेशूरनामानि *

गेहेनर्दी तथा गेहे-पिण्डीशूरौ च कथ्यते ॥ ७३४ ॥
4.734 · p. 103
अनुष्टुप्

* धनिनाम *

अस्तिमान् च धनी नाम कथ्यते धनवानपि ।
4.343 · p. 103
अनुष्टुप्

* गोष्ठश्वनाम *

स्वस्थानस्थः परद्वेषी गोष्ठश्वः कथ्यते बुधैः ॥ ७३५ ॥
4.735 · p. 103
अनुष्टुप्

* आपन्ननाम *

आपन्न आपदि स्थितः संपन्नो धनवान् जनः ।
4.345 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्थि (wrong syllable)

* आपत्तिनामानि *

आपत्तिः स्याद्विपत्तिश्च विपदाऽऽपत् तथैव च ॥ ७३६ ॥
4.736 · p. 103
अनुष्टुप्metre not read in every line

* स्निग्धनाम *

स्नेहवान् स्निग्ध आख्यातो बत्सलश्चापि कथ्यते ।
4.347 · p. 103
अनुष्टुप्

* उपाधिनामानि *

कुरुम्बपालको लोकः कुटुम्बव्यापृतो भवेत् ॥ ७३७ ॥
4.737 · p. 103
अनुष्टुप्
अभ्यागारिकनामापि स उपाधिश्च कथ्यते ।
4.349 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तृ (wrong syllable)

* दीर्घायुनामानि *

आयुष्मान् चापि दीर्घायुः जैवातृकश्च मन्यते ॥ ७३८ ॥
4.738 · p. 103
अनुष्टुप्metre not read in every line

* त्रासदायीनाम *

त्रासदायी शङ्करश्च कथ्यते त्रासदायकः ।
4.351 · p. 104
अनुष्टुप्

* शरणार्थिनाम *

शरणार्थो चाभिपन्नः उच्यते शरणागतः ॥ ७३९ ॥
4.739 · p. 104
अनुष्टुप्

* परीक्षकनामानि *

आक्षपटलिकश्चापि कारणिकः परीक्षकः ।परीक्षाकारको लोके कथ्यते कोविदैः किल ॥ ७४० ॥
4.740 · p. 104
अनुष्टुप्metre not read in every line

* वरदनाम *

वरदश्च समर्धुकः वाञ्छितस्य प्रदायकः ।
4.354 · p. 104
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 र्धु (wrong syllable)

* सङ्घजीविनाम *

सङ्घे स्थिता जीविताश्च व्रातीनाः सङ्घजीविनः ॥ ७४१ ॥
4.741 · p. 104
metre not recognised

* सदस्यनामानि *

पार्षदाः पारिषद्याश्च सभ्याश्चापि सभासदः ।सभास्ताराः सदस्याश्च सामाजिकाः स्मृताः समे ॥ ७४२ ॥
4.742 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जि (wrong syllable)

* सभानामानि *

सभा संसत् समाजश्च समज्या समितिः सदः ।आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद्घटा ॥ ७४३ ॥
4.743 · p. 104
अनुष्टुप्
गोष्ठी त्रयोदशं नाम समितेर्नामसंग्रहे ।
4.358 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षि (wrong syllable)

* ज्यौतिषिकनामानि *

सांवत्सरश्च दैवज्ञो ज्यौतिषिको निमित्तवित् ॥ ७४४ ॥
4.744 · p. 105
अनुष्टुप्metre not read in every line
नैमित्तिकश्च नैमित्तो ज्ञानी कार्तान्तिकस्तथा ।मौहूर्तिकश्च मौहूर्तः ईक्षणिको विप्रश्निकः ॥ ७४५ ॥
4.745 · p. 105
अनुष्टुप्metre not read in every line