कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मलिना

malināस्त्री · fem.

In 4 kośas: 3 synonym verses, 1 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.40 · p. 24
मलिष्ठा मलिना म्लाना ऋतुपुष्पार्थतोवती ।पर्यायाः पांशुलोदक्यात्रेय्यविश्च रजस्वला ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.83 · p. 36
पतिपुत्रविहीनायामवीरा मलिनेति च ।पुत्रमात्रविहीनायामशिश्वी पुत्रगर्धिनी ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.15 · p. 174
उदक्या मलवद्वासा आत्रेयी पुष्पवत्यापि ।रजस्वला च मलिना स्त्रीधर्मिण्यृतुमत्यपि ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1361 · p. 166
त्रि स्त्री पुनरुदक्यायां मलिना मलदस्तु ना ।माषधान्ये भूम्नि चासौ स्थौराख्ये नीवृदन्तरे ॥ १३६१ ॥
अनुष्टुप्