अवीरा
avīrāस्त्री · fem.In 11 kośas: 10 synonym verses, 1 as a nānārtha head word.
genderस्त्रीfem.
genderस्त्रीfem.
गतार्त्तवा निःकला स्याद्विन्दुर्नश्यत्प्रसूतिका ।अवीरा निःपतिसुता स्यादशिश्वी शिशुं विना ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
अवीरा निष्पतिसुता विश्वस्ता-विधवे समे ।रण्डा च ताडपत्री च भवेदनलकापि सा ॥छत्रभङ्गस्तु वैधव्यं सौभाग्यं जीवभर्तृता ।कामुकी तु वृषस्यन्ती त्रिगर्ता कामुका परा ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
पतिपुत्रविहीनायामवीरा मलिनेति च ।पुत्रमात्रविहीनायामशिश्वी पुत्रगर्धिनी ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
कामुकीच्छा[युक्ता] स्याद्वृषस्यन्ती नरान्तरा ।अवीरा निष्पतिसूता विश्वस्ता विधवाऽधवा ॥ ४३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 च्छा (syllables merged); pāda 3, syllable 6 ति (wrong syllable)
genderस्त्रीfem.
पतिपुत्रवती वीरा त्ववीरा तद्विहीनतः ।मरुण्डा मरुटात्युच्चललाटायां भवेद्द्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.
पांशुला पांसुलाऽथ स्यात् पतिः पत्नी च जीवतः ।पतिवत्न्यां निर्वीरा च वीरा पति-सुतोज्झिता ॥ १२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
genderस्त्रीfem.
अशिश्वी शिशुहीना स्यादवीरा निर्धवात्मजा ।स्त्रैणं स्त्रीणां समूहे स्याद्युवतीनां तु यौवतम् ॥ १०५० ॥
अनुष्टुप्
genderस्त्रीfem.
बिन्दुर्नश्यत्प्रसूतिः स्यादशिश्वी शिशुवर्जिता ।अवीरा निष्पतिसुता किमिला बहुसूतिका ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
अवीरा निष्पतिसुता चावीराः सत्त्ववर्जिताः ।औशीरं चामरे दण्डे चौशीरं शयनासने ॥
अनुष्टुप्
meaningsनिष्पतिसुता