उदक्या
udakyāस्त्री · fem.In 11 kośas: 11 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.
नग्ना तु कोटवी वृद्धा पलिक्न्यथ रजस्वला ॥ ५३४ ॥पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवीः ।उदक्या ऋतुमती च पुष्पहीना तु निष्कला ॥ ५३५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्मि (wrong syllable); pāda 3, syllable 6 म (wrong syllable)
genderस्त्रीfem.
विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला ।स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ।
अनुष्टुप्
genderस्त्रीfem.
अवीरुदक्या च रजस्वला स्यात्,आत्रेयिका पुष्पवती च नारी ।राका भवेज्जातरजास्तु कन्या,नश्यत्प्रसूतिः कथिता च भिन्दुः ॥ ४८८ ॥
उपजातिः
genderस्त्रीfem.
मलिष्ठा मलिना म्लाना ऋतुपुष्पार्थतोवती ।पर्यायाः पांशुलोदक्यात्रेय्यविश्च रजस्वला ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
ऋतुमत्यप्युदक्यावीः स्त्रीधर्मिण्यार्तवः पुनः ।[77a]स्त्रीधर्मश्च रजः पुष्पमृतुस्तत्समयो भवेत् ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
उद्धनो यत्र निक्षिप्य काष्ठे काष्ठस्य तक्षणम् ।तत्रोद्गतधनादौ तु त्रिरुदक्यां तु सा स्त्रियाम् ॥ २५१ ॥
अनुष्टुप्
genderस्त्रीfem.
उदक्या चाथ गर्भिण्यां श्रद्धालुर्दोहदप्रदा ।निवृत्तरजसो नाम निष्कला चाथ गर्भिणी ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
रजस्वला ऋतुमती पुष्पवती च पुष्पिता ।अधिः स्त्रीधर्मिणी चाऽवीः उदक्या मलिनी तथा ॥ ८५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderस्त्रीfem.
विप्रश्निका चेक्षणिका दैवज्ञा दैवकोविदा ।उदक्या मलिनी पुष्पवती स्त्रीधर्मिनी त्वन्बिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्व (wrong syllable)
genderस्त्रीfem.
स्यात् स्त्रीधर्मिण्युदक्याविरात्रेयी मलिनी तथा ।रजस्वला पुष्पवती ऋतुमत्यार्तवं रजः ॥ १०४१ ॥
अनुष्टुप्
genderस्त्रीfem.
उदक्या मलवद्वासा आत्रेयी पुष्पवत्यापि ।रजस्वला च मलिना स्त्रीधर्मिण्यृतुमत्यपि ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderस्त्रीfem.
ऋतुमत्यां प्रियाचारशूद्रे तु स पुमान् मतः ।उदकार्हे पुनस्त्रि स्यात् तथैवोदकसाधुनि ॥ २५२ ॥
अनुष्टुप्
meaningsऋतुमती
उदक्या as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप पांसुलापरुषत्वे शक्रवने तेनैव क्लीबमीरितम् । पांसुला तु स्त्रियां भूमौ कुलटोदक्ययोस्त्रि तु ॥ ११३७ ॥ Nānārthārṇavasaṃkṣepa 4.1137
- नानार्थार्णवसंक्षेप मलिनात्रि स्त्री पुनरुदक्यायां मलिना मलदस्तु ना । माषधान्ये भूम्नि चासौ स्थौराख्ये नीवृदन्तरे ॥ १३६१ ॥ Nānārthārṇavasaṃkṣepa 4.1361
- नानार्थार्णवसंक्षेप रजस्वलमहिषे स्यादुदक्यायां स्त्रियामेव रजस्वला । रजस्वति तु तत् त्रि स्याद् रजःपूता तु सा स्त्रियाम् ॥ ५२२ ॥ Nānārthārṇavasaṃkṣepa 6.522
- नानार्थार्णवसंक्षेप मलवद्वासस्(शिरः)क्रिमौ तु यूकाख्ये स्त्रियां मन्दविसर्पिणी । स्त्रियां तु मलवद्वासा उदक्यायां त्रिषु त्वसौ ॥ ८० ॥ Nānārthārṇavasaṃkṣepa 7.80
- शब्दरत्नाकर अविअविरर्के गिरौ मेषे स्त्री तु स्याद्भूम्युदक्ययोः । अद्रिरर्के द्रुमे शैले व्याले वृत्रासुरेऽप्यहिः ॥ १८६९ ॥ Śabdaratnākara 4.1.1869