कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवि

aviपुं · masc.

In 15 kośas: 25 synonym verses, 12 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.535 · p. 24
नग्ना तु कोटवी वृद्धा पलिक्न्यथ रजस्वला ॥ ५३४ ॥पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवीः ।उदक्या ऋतुमती च पुष्पहीना तु निष्कला ॥ ५३५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्मि (wrong syllable); pāda 3, syllable 6 म (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1280 · p. 49
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः ।उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा ।जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः ॥ १२७७ ॥पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् ।सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ ॥अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः ।शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ ॥रसनालिड्रतपराः कीलशायिव्रणान्दुकाः ।शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.31
विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला ।स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.279 · p. 34
अविरूर्णायुरभ्रो हुडुरुरणो वृष्णिमेषमेण्ढाः स्युः ।अविसोढमविमरीसं स्यादविदूसं च दुग्धमवेः ॥ २७९ ॥
आर्याmetre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.40 · p. 24
मलिष्ठा मलिना म्लाना ऋतुपुष्पार्थतोवती ।पर्यायाः पांशुलोदक्यात्रेय्यविश्च रजस्वला ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.473 · p. 185
मेषो रभ्रोरणोर्णायुर्मेढो वृष्णिर्हुडुर्हरः ।उरभ्रो लोमशः शृङ्गी स्यादविश्चैडको बली ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.475 · p. 185
अविः स्त्री शिशुवाह्यः स्यादिडिश्चाथ कदम्बके ।उष्ट्रच्छागोरभ्रकाणामौष्ट्रकं छागकाजके ॥ ४७५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.39 · p. 384
शंवसंवौ स्वरुः सान्तं स्यात् स्त्रियामशनी शरुः ।पृदाकुर्ना ह्रादिनी स्त्री पविः पुंस्यविरित्यपि ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.66 · p. 468
अविराजिध्वनिशिशुकर्षूजायुयुजामपि ।हाहाहूहू नग्नहूनां गमत्पां दश्मनामपि ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.3 · p. 127
अविर्बलाहकोऽथोपगिरं स्यादुपगिर्यपि ।उदयः पूर्वशैलः स्यादस्ताद्रिश्चाञ्जनागिरिः ।उदगद्रिश्चाद्रिराजो मेनकेशो हिमालयः ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.50 · p. 206
परिवित्तिस्तु तज्ज्यायाञ्जायास्य परिवेदिनी ।पुष्पवत्यविरात्रेयी मलिनी च रजस्वला ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 286
अविर्हुडुरजो वृष्णिरुरणोर[137b]भ्र-रोमशाः ।मेषोऽस्त्री भेड-संफाल-शृङ्गिणो अविको धनुः ॥ ५७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.24 · p. 97
अवयव-स्तुव-रौरव-माध[223a]वाःपणव-याव-दवाः शिक्-दीदिवी ।ग्रीव-पवी अविराखुजकम्बलेस्थवि-कृवी स्व-निघृष्व-वि-जीर्वयः ॥ २४ ॥
metre not recognisednearly द्रुतविलम्बितम्: pāda 1, syllable 1 ग्री (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.97 · p. 20
एडकोऽप्युरणो मीथ उरभ्रो रोमजोऽप्यविः ।खररासभचक्रीवद्वाहवाहकगर्दभाः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.181 · p. 74
छागिका सर्वभक्ष्या स्यादजा [मञ्जा ?] गलस्तनी ।वर्करस्तरुणश्छागो हुडावी मेषस्तूरणः ॥ १८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ष (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.25 · p. 104
विभुः स्वामी पतिर्नाथो नेता भर्तेश्वरः पुनः ।इन्द्रेनावीशितेशश्च आर्यः परिवृढः समः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.27 · p. 214
कुल्माषमाधवौ पक्षराशिदुन्दुभिरालयः ।निष्कुहः कलहो ज्ञातिपाणिवृष्ण्यविकुक्ष्यः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.165 · p. 18
उरभ्रो मेण्ढको मेष एडकोऽविहुडोरणाः ।अजस्तु छगलश्छागश्छगो बस्तः स्तभः पशुः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.853 · p. 126
रजस्वला ऋतुमती पुष्पवती च पुष्पिता ।अधिः स्त्रीधर्मिणी चाऽवीः उदक्या मलिनी तथा ॥ ८५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2304 · p. 373
उरभ्र उरणो वृष्णिः ऊर्णायुश्च हुडो हुडुः ।एडको रोमशो भेडोऽविश्च नामानि सन्ति वै ॥ २३०४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.156 · p. 93
विप्रश्निका चेक्षणिका दैवज्ञा दैवकोविदा ।उदक्या मलिनी पुष्पवती स्त्रीधर्मिनी त्वन्बिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्व (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.149 · p. 147
मेण्टो वृष्णिरविर्मेट्रो हुडुर्हुलुहलावपि ।स्यादेडका जालकिनी मेषी च मेषिकेत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.778 · p. 99
ऊर्णायुरुरणकैलकमेढ्रोरभ्राविवृष्णिमेषाश्च ।अविसोढमविमरीसं स्यादविद्सं च यद्दुग्धमवेः ॥ ७७८ ॥
metre not recognised
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.24 · p. 75
संस्फालहुडुभेडाश्च मेषी स्याज्जालकिन्यविः ।वर्करस्तु लम्बकर्णश्छागो बस्तः शिवाप्रियः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.64 · p. 70
मेषे शृंगिणसंफालवृष्णिपेत्वहुलुह्रदाः ।एडकोऽप्युरणो मीढ उरभ्रो रोमशोऽप्यविः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.207
अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः ॥ २०७ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.5 · p. 205
अविर्मेषे गिरौ सूर्ये ऋतुमत्यङ्गनाप्यविः ।पार्श्वोऽवयवभेदः स्याच्चक्रोपायसमीपयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.7 · p. 359
[77b]ऊर्ध्वं तु तुङ्गोत्थितयोः परस्मिं-स्तथोपरिष्टादपि कीर्तितं च ।द्यौः स्वर्गलोके गगनेऽपि च स्त्रीमेषे त्वविर्भूभृति भास्करे च ॥ ७ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.8 · p. 359
आखौ कुथेऽथर्तुमतीगतः स्त्रीरविस्तु भानौ क्षितिपालभेदे ।काव्याभिधे काव्यकरे बुधे चकविश्च वाल्मीकिमुनावथ स्त्री ॥ ८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.54 · p. 47
अविः पुंस्यवतौ धातौ सूर्यपर्वतयोरपि ।द्वयोस्तु मेषेऽथाविर्ना भाःप्राकारार्कवायुषु ॥ ५४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.55 · p. 47
स्त्री तु पुष्पवतीभूम्योरणुस्तु पवने पुमान् ।परमाणौ धान्यभेदे सामुद्रलवणे तु नप् ॥ ५५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.13 · p. 162
अविर्मेषे गिरावर्के कम्बलेऽट्टश्चतुष्पथे ।हट्टे पाषाणभेदे चार्धः खण्डेऽर्धं समांशके ॥ १३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.3 · p. 285
अविः कम्बलशैलार्कमेषा धहकिषु (?) ना ।अश्वस्तुरङ्गे पुरुषजातिभेदे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1869 · p. 228
अविरर्के गिरौ मेषे स्त्री तु स्याद्भूम्युदक्ययोः ।अद्रिरर्के द्रुमे शैले व्याले वृत्रासुरेऽप्यहिः ॥ १८६९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.4 · p. 214
अर्कोऽर्कपर्णे स्फटिके ज्येष्ठभ्रातरि भास्वति ।अवयः शैलमेषार्का अद्रयोऽर्कगिरिद्रुमाः ॥ ४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.4 · p. 230
अविर्भूपुष्पवत्योः स्त्री वायुप्राकारभास्तु ना ।अजः पितामहेऽनादौ छागे विष्णौ हरे रवौ ॥ ४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.1 · p. 239
अविनौ विहगाध्वर्यू अरत्नी हस्तकूर्परौ ।अत्ययोऽतिक्रमे कृच्छ्रे मरणे दण्डदोषयोः ॥ १ ॥
अनुष्टुप्