कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

महासत्य

mahāsatyaपुं · masc.

In 3 kośas: 3 synonym verses.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.37 · p. 2
नासिक्ययोस्तु नासत्यदस्रौ प्रवरवाहनौ ॥ ३४ ॥गदान्तकौ यज्ञवाहौ यमे तु यमुनाग्रजः ।महासत्यः पुराणान्तः कालकूटोऽथ राक्षसे ॥ ३५ ॥पलप्रियः कखापुत्रः कर्वरो नरविष्वणः ।आशिरो हनुषः शङ्कुर्विषुरो जललोहितः ॥ ३६ ॥उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः ।संध्याबलो रात्रिबलस्त्रिशिराः समितीपदः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.51 · p. 385
महासत्यः पुराणान्तः कालकूटः पुनश्च सः ।अस्य प्रिया तु धूमोर्णा पुरी संयमनी पुनः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.208 · p. 28
धर्मराजो महासत्यः शमनो महिषध्वजः ।कीनाशो वै कृतान्तश्च हरिर्दण्डधरस्तथा ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.