कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शमन

śamanaपुं · masc.

In 18 kośas: 24 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.185 · p. 11
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.40
धर्मराजः पितृपतिः समवर्ती परेतराट् ।कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८ ॥कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.46
परम्पराकं शमनं प्रोक्षणं च वधार्थकम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.71 · p. 9
शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः ।वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥
आर्या
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.74 · p. 14
वैणवो वेणुसम्भूतः शमनो दार्विकः स्मृतः ।पवित्रं च कराग्निः स्यात्पैतृकः कव्यवाहनः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.78 · p. 15
परेतराजः शमनो धर्मगुप्धर्मवर्धनः ।लेखकश्चित्रगुप्ते स्यात्काणाची तु विलातिका ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.60 · p. 139
शमनो नालकः कण्ठी द्वयोर्लङ्का तु रूक्षणा ।कराला त्रिपुरापि स्यात् काण्डिका चात्मिका च सा ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.32 · p. 238
स्यादाक्रोशनमाक्रोशः शपनं शमनं शमः ।वप्रस्तु धूलिकेदारः प्सा वीतिर्भक्षणं च सा ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.50 · p. 385
कालिन्दी सोदरः कर्मकर औदुम्बरश्च सः ।विश्वप्साः शमनो धर्मो यमनो दण्ड इत्यपि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.143 · p. 22
कीनाशः शमनो यमः पितृपतिः कालः कृतान्तोऽन्तकःधूमोर्णारम[15b]णो विशीर्णचरणो वैवस्वतो धर्मराट् ।कालिन्दीसहजो दिनेशतनुजो मृत्युर्हरिः प्रेतराट्स्यात्सांज्ञायनिरन्तकृच्च समवर्त्ती दक्षिणाशापतिः ॥ १४३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.80 · p. 313
प्रवाहिकातस्तु भवेदव्ययं तच्चिकित्सने ।संतर्पणं बृंहणं स्याल्लङ्घनं त्वपतर्पणम् ।शोधनं दोषनिर्हारि शमनं दोषशान्तिकृत् ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.17 · p. 3
अग्नौ पुरोहितः स्वैरी स्वाहानाथो मखी शिखी ।हरिश्च शमने तु स्युरद्रिजक्षुद्रमुद्रकाः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.81 · p. 15
समवर्तिधर्मराजौ कालिन्दीसोदरोऽपि च ।श्राद्धदेवश्च शमनो धूमोर्णा त्वन्तकप्रिया ॥ ८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ति (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.340 · p. 24
पुष्पदन्तः सार्वभौमः सुप्रतीको हरिद्गजाः ।यमः कृतान्तः शमनः समवर्त्ता परेतराट् ॥ ३४० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.55 · p. 7
यमः कृतान्तः शमनो धर्मराजः परेतराट् ।समवर्ती श्राद्धदेवः कालः सूर्यसुतोऽन्तकः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.208 · p. 28
धर्मराजो महासत्यः शमनो महिषध्वजः ।कीनाशो वै कृतान्तश्च हरिर्दण्डधरस्तथा ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1383 · p. 219
शमनं शसनं चैव मखे वधो हि प्रोक्षणम् ।पुनः परम्पराकं वै विजानन्ति मनीषिणः ॥ १३८३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.142 · p. 10
समवर्ती शीर्णपादः शमनो भीमनाशनः ।कालोऽन्तकोऽपि यमराट् कङ्को वैवस्वतो हरिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.51 · p. 114
दैवमन्नन्तु हव्यं स्यात् पैत्रं कव्यमिति स्मृतम् ।यज्ञेऽभिममन्त्रय निहतो योऽसौ पशुरुपाकृतः ।परम्पराकं शमनं प्रोक्षणं घातनं वधे ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.303 · p. 213
स्रुवे स्रुग्, मखवधे तु शसनं शमनं समे ।शृतोष्णक्षीरगे दध्नि आमीक्षाऽमिक्षया सह ॥ ३०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.113 · p. 15
पितृपतिकृतान्तशमनप्रेताधिपधर्मराजयमराजाः ।कालयममहिषवाहनसमवर्तिश्राद्धदेवकीनाशाः ॥ ११३ ॥
गीतिः
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.9 · p. 87
लेशस्तूपपदं गन्धोऽनुबन्धेषत्करावपि ।छेदः खण्डोऽस्त्रियां गलिः शपनं शमनं शमः ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ग (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.35 · p. 11
कालः कृतान्तः शमनः कीनाशो दक्षिणाधिपः ।धर्मराजः पुराणान्तः कालकुन्थो विशीर्णपात् ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.94 · p. 90
परंपराकं शमनं प्रोक्षणं च पशोर्वधे ।अथ यज्ञोपकरणं यजत्रं यजनं च तत् ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.28 · p. 113
भुवनं गगने प्रोक्तं सलिले विष्टपे जने ।शमनं च वधे शान्तौ शमनो यमराट् स्मृतः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.9 · p. 248
स्यात्सवनं स्थितिवाचकमिष्टौसोमलताभिषवे नरि चन्द्रे ।निद्रा शय्या सुरते शयनंशमनस्तु यमेऽन्त्ये वधशान्त्योः ॥ ९ ॥
दोधकम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1773 · p. 202
स्त्री तु कूश्माण्डवल्ल्यां स्याच्छकुला शमनस्तु ना ।यमे क्लीबं तु शान्तौ स्यादना तु शमना भवेत् ॥ १७७३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1774 · p. 202
वधेऽपि शमयत्यर्थे त्रि तु स्याच्छान्तिसाधने ।श्वसनस्तु पुमान् वायौ मदनाख्ये च पादपे ॥ १७७४ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2174 · p. 263
शयनं मञ्चरतयोः शमनोऽजगरे यमे ।शासनं निग्रहे शास्त्रे वेदवाक्येषु रक्षणे ॥ २१७४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.266 · p. 183
विहिंसायां विडम्बे च यमे ना शमनं बंधे ।श्येनः शुक्ले पक्षिभेदे शकुनिः सौबले खगे ॥ २६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 बं (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.87 · p. 263
यमेऽपि शमनो ध्वान्ते क्ली हिंस्त्रे त्रिषु शार्वरः ।करञ्जभेदे षट्ग्रन्थः षट्ग्रन्था ग्रन्थिकं वचा ॥ ८७ ॥
अनुष्टुप्
meaningsयम

शमन as a meaning in nānārtha verses

  • शब्दरत्नावली यमभीष्मो घोरतरेऽपि स्याद् गाङ्गेयेऽपि च पुंस्ययम् । भीमो घोरे शिवे मध्यपाण्डवे चाम्लवेतसे ॥ अथ भूमिः स्थानमात्रे पृथिव्यामपि च स्त्रियाम् । भौमस्त्रिषु भूमिभवे पुंसि स्यान्नरके कुजे ॥ यमः शत्रौ च शमने काके ना यमजेऽन्यवत् । ना देहसाधनापेक्षनित्यकर्मणि संयमे ॥ यामस्तु प्रहरे पुंसि संयमावसयोरपि (?) ॥ Śabdaratnāvalī 7.25.16
  • शब्दरत्नावली मृत्युमूल्यं स्याद्वेतने वस्ने मृत्युर्ना शमने मृतौ ॥ Śabdaratnāvalī 7.26.24
  • शब्दरत्नावली कीनाशकीनाशः शमने क्षुद्रे कर्षकोपांशुधातिनोः । कुलिशोऽस्त्री वज्रे स्यान्मीनभेदे भवेत्पुमान् ॥ Śabdaratnāvalī 7.30.15