कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संयमनी

saṃyamanīस्त्री · fem.

In 8 kośas: 7 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.110 · p. 11
पुरी पुनः संयमनी प्रतीहारस्तु वैध्यतः ।
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.51 · p. 385
महासत्यः पुराणान्तः कालकूटः पुनश्च सः ।अस्य प्रिया तु धूमोर्णा पुरी संयमनी पुनः ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.145 · p. 22
धूमोर्णा स्त्री संयमनी पूर्द्वाःस्थो वेधकोऽस्य च ।दासौ चण्डमहाचण्डौ कायस्थश्चित्रगुप्तकः ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.83 · p. 15
संयमन्यन्तकस्य स्यादेष वर्ग उदाहृतः ।राक्षसः कौणपो रक्षो यातुधानः पलादनः ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.144 · p. 11
पुरी संयमनी तस्य कणीची च सभा मता ।पञ्जिकास्याप्रसन्धानी नदी वैतरणी पुरः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.71 · p. 182
हाहाहूहूरित्यखण्डं, नामैके, शमने यमः ।यमराजो यमराट् च संयमनी त्र्यकारयुक् ॥ ७१ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 यम (syllable split)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.114 · p. 15
वैवस्वतो दण्डधरः कालिन्दीसोदरोऽन्तकः ।पुरी संयमनी तस्या धूमोर्णा तु सधर्मिणी ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.89 · p. 124
संयमनं तु नियमः संयमनी यमस्य पूः ।गवादनीन्द्रवारुण्यां गवां घासादनालया ॥
अनुष्टुप्metre not read in every line
meaningsपुर्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.20 · p. 264
व्रते भवेत्संयमनं यमस्यपुरि स्त्रियां स्यादथ दर्शनेऽपि ।निशामनं स्याच्छ्रवणे च नेत्रेदन्तान्तरा[21b]ले प्रतिमानमैभे ॥ २० ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 द (wrong syllable)