कालकूट
kālakūṭaपुं · masc.In 14 kośas: 23 synonym verses, 3 as a meaning of another word.
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
विषपुंक्ष्वेडपुंरसपुंतीक्ष्णक्लीगरलपुंहलाहलपुंवत्सनाभपुंकालकूटपुंब्रह्मपुत्रपुंप्रदीपनपुंसौराष्ट्रिकपुंशौल्किकेयपुंकाकोलपुंदारदपुंअहिच्छत्त्रपुंमेषशृङ्गपुंकुष्टपुंवालूकपुंनन्दनपुंकैराटकपुंहैमवतपुंमर्कटपुंकरवीरकपुंसर्षपपुंमूलकपुंगौरपुंआर्द्रकपुंसक्तुकपुंकर्दमपुंअङ्कोल्लसारपुंकालिङ्गपुंशृङ्गिकपुंमधुसिक्थकपुंइन्द्रपुंलाङ्गुलिकपुंविस्फुलिङ्गपुंपिङ्गलपुंगौतमपुंमुस्तकपुंदालवपुं
genderपुंmasc.
नासिक्ययोस्तु नासत्यदस्रौ प्रवरवाहनौ ॥ ३४ ॥गदान्तकौ यज्ञवाहौ यमे तु यमुनाग्रजः ।महासत्यः पुराणान्तः कालकूटोऽथ राक्षसे ॥ ३५ ॥पलप्रियः कखापुत्रः कर्वरो नरविष्वणः ।आशिरो हनुषः शङ्कुर्विषुरो जललोहितः ॥ ३६ ॥उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः ।संध्याबलो रात्रिबलस्त्रिशिराः समितीपदः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
पुंसि क्लीबे च काकोलकालकूटहलाहलाः ।सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥दारदो वत्सनाभश्च विषभेदा अमी नव ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
genderपुंक्लीm. n.
शृङ्गिको वत्सनाभश्च कालकूटो हलाहलः ।काकोलो विस्फुलिङ्गश्च तद्भेदाः स्युरनेकधा ॥ ६४७ ॥
अनुष्टुप्
genderपुंmasc.
कालकूटो रम्यफलोऽथ स्त्रियां स्याद्विषान्तिका ।कटभी नालिका शौण्डी पाटली गिरिकर्णिका ॥ २१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
सौक्तिकेयोऽथ सौराष्ट्रिकः स्यात्सारोष्ट्रिकोऽपि च ।वत्सनाभश्च काकोलः कालकूटः प्रदीपनः ॥ २३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
महासत्यः पुराणान्तः कालकूटः पुनश्च सः ।अस्य प्रिया तु धूमोर्णा पुरी संयमनी पुनः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्धजमलयजयोः कालकूटारकूटयोः ।स्यात्कवटकपटयोः खेटकर्पटयोस्ततः ॥ १५४ ॥
metre not recognised
genderपुंक्लीm. n.
हालाहलं हालहलं काकोलं च हलाहलम् ।कालकूटं रसस्तीक्ष्णं क्लीबे मधुरकं च तत् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
कच्छो निकुञ्जो रज-भूर्ज-कुञ्ज-व्रजाङ्गजाः शङ्खगतस्तथाब्जः ।ध्वजो नटः कर्वटकुक्कुटाट्टाःकुटारकूटावपि कालकूटः ॥ ४१ ॥
उपजातिः
genderपुंक्लीm. n.
विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् ।मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः ।पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥
metre not recognised
genderपुंmasc.
घासोऽथ -----------विषः क्ष्वेडो हलाहलः ।कालकूटं वत्सनागो ब्रह्मपुत्रोऽपि दारदः ॥ ११४ ॥
metre not recognised
genderक्लीneut.
नटः किरीटः कुटकर्पटौ चकूटारकूटौ विटकोट्टकुष्ठाः ।खेटाट्टपिष्टानि कटश्च लोष्टःप्रोक्तौ तथा त्र्यङ्गटकालकूटौ ॥ १३५ ॥
उपजातिः
genderपुंक्लीm. n.
तेषां राजा महाक्रोधी कर्कोटक इति श्रुतः ।तद्विषे कालकूटः स्यादसं(स?)ह्यः क्ष्वेड इत्यपि ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
विषस्तु गरलं क्ष्वेडो रसस्तीक्ष्णश्च तद्भिदः ।हालाहलः कालकूटो वत्सनागः प्रदीपनः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
दक्षिणाशापतिर्मृत्युः कालकूटस्तथाऽन्तकः ।श्राद्धदेवोऽर्कसूनुश्च कालिन्दीसोदरस्तथा ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
कालकूटश्च काकोलः कर्दमः करवीरकः ।शृङ्गिकः शौल्किकेयश्च सक्तुको मधुसिक्थकः ॥ २१५८ ॥
अनुष्टुप्
genderपुंmasc.
विषं क्षेडस्तु गरलं जङ्गुलं जाङ्गुलञ्च तत् ।अस्त्रियामथ काकोलः कालकूटो हलाहलः ॥
अनुष्टुप्
genderपुंmasc.
शौक्लिकेयो महाघोषः शृङ्गी चेत्येवमादयः ।त्रयः क्लीबे च काकोलकालकूटहलाहलाः ॥ ३१२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कमण्डलुः कालकूटो मधुः सानुर्हलाहलः ।इत्यादि सर्वं तद्रूपं तत्र तत्र प्रदर्शितम् ॥ २३३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
गरलं तु विषं क्ष्वेलो गरस्तु कृतकं विषम् ।क्ष्वेलास्तु कालकूटाद्या मूलपुष्पफलात्मकाः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कालकूटः कटोऽथ स्याद्गौरार्द्रो ब्रह्मवालुकम् ।ब्रह्मघोषश्च घौषश्च पुंडरीकं तु वालुकम् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
क्ष्वेडाश्च कन्दलाः कालकूटाद्याः स्युः कमण्डलुः ।सक्तुः परीतन्महिमा कर्म पर्व च लोम दोः ॥ ३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कालकूट as a meaning in nānārtha verses
- कोषकल्पतरु सङ्गरकालकूटापदोरन्त्यलिङ्गे शमी- जे फले वर्करः स्याद्वयःस्थे पशौ । नर्मभेदेऽप्यथो कर्करो दर्पणे भेद्यलिङ्गस्त्वसौ कीर्तितो ज्ञैर्दृढे ॥ ३३ ॥ Koṣakalpataru 6.27.33
- कोषकल्पतरु नरेन्द्रवाशुरो नरि खरेऽथ वासिता- रात्रिगो भवति चै[59a]ष योषिति । स्यान्नरेन्द्र इह वार्तिकभूप- कालकूटभिषगर्थक उक्तः ॥ ६९ ॥ Koṣakalpataru 6.27.69
- कोषकल्पतरु विषस्याच्छूकशिम्ब्यां व्रतशीलिनां तु वृष्यासनेऽस्त्री तु विषं जले स्यात् । स्यात्कालकूटेऽतिविषौषधे स्त्री तुषस्तु धान्यत्वचि चाक्षवृक्षे ॥ ३५ ॥ Koṣakalpataru 6.30.35